3-4-88 वा छन्दसि प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः सेः हि अपित् च
index: 3.4.88 sutra: वा छन्दसि
लोटः लस्य सेः हि छन्दसि वा अपित् च
index: 3.4.88 sutra: वा छन्दसि
वेदानाम् विषये लोट्-लकारस्य सिप्-प्रत्ययस्य 'हि' आदेशः विकल्पेन अपित् भवति ।
index: 3.4.88 sutra: वा छन्दसि
In the context of वेदाः, the 'हि' आदेश given to the सिप्-प्रत्यय of लोट्-लकार could be seen considered as पित्.
index: 3.4.88 sutra: वा छन्दसि
अपित्त्वं विकल्प्यते। लाऽदेशः छन्दसि विषये हिशब्दो वा अपिद् भवति। युयोध्यस्मज्जुहुराणमेनः। प्रीणाहि। प्रीणीहि।
index: 3.4.88 sutra: वा छन्दसि
हिरपिद्वा ।
index: 3.4.88 sutra: वा छन्दसि
सेह्यर्पिच्च 3.4.87 इत्यनेन लोट्-लकारस्य विषये सिप्-प्रत्ययस्य यः हि-आदेशः विधीयते, सः वेदानाम् विषये विकल्पेन पित् अपि भवति । यथा, अग्निपुराणे 'पितॄन् लोकान् प्रीणाहि' इति उल्लेखः अस्ति । अत्र 'प्रीणाहि' इत्यस्य सिद्धौ सिप्-प्रत्ययस्य आदेशरूपेण प्रोक्तः 'हि'-प्रत्ययः 'पित्' मन्यते, येन ई हल्यघोः 6.4.113 इत्यनेन हलादि-ङित्-प्रत्यये परे विहितः ईकारादेशः न भवति, अतः 'प्रीणाहि' इत्येव रूपं सिद्ध्यति ।
वेदेषु 'हि'-प्रत्ययं अपित्-स्वीकृत्य अपि उदाहरणानि दृश्यन्ते । यथा - 'प्रीणीहि हंसशरणम्' इति भागवते उल्लेखः अस्ति । अत्र हि-प्रत्ययस्य अपित्-त्वात् ङित्वद्भावेन ई हल्यघोः 6.4.113 इत्यनेन आकारस्य ईकारादेशः भवति ।
index: 3.4.88 sutra: वा छन्दसि
अपित्वं विकल्प्यत इति । अनन्तरत्वात् । नादेश इति, व्यवहितत्वात् । युयोधीति ।'बहुलं च्छन्दसि' इति शपः श्लौ द्विर्वचनम् । अत्र पित्वान् ङ्त्वाभावे ठिङ्तिश्चऽ इति धिभावः ॥