3-4-105 झस्य रन् प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लिङः
लिङः झस्य रन्
लिङ्लकारस्य 'झ' प्रत्ययस्य रन्-आदेशः भवति ।
The झ-प्रत्यय of लिङ्लकार is converted to रन्.
लिङ इत्येव। झस्य लिङादेशस्य रन्नित्ययमादेशो भवति। झोऽन्तापवादः। पचेरन्। यजेरन्। कृषीरन्॥
लिङो झस्य रन् स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ॥
लिङो झस्य रन् स्यात्। एधेरन्। एधेथाः। एधेयाथाम्। एधेध्वम्॥
लिङ्-लकारस्य विषये आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य 'झ' प्रत्ययस्य रन्-आदेशः भवति । <<अनेकाल्शित्सर्वस्य>> 1.1.55 इत्यनेन अयम् सर्वादेशरूपेण आगच्छति । यथा - 1) लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् - लभ् + लिङ् [<<विधिनिमन्त्रणा..>> 3.3.161 इति लिङ्] → लभ् + शप् + लिङ् [<<कर्तरि शप्>> 3.1.68 इति शप्] → लभ् + अ + झ [<<तिप्तस्..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् 'झ' प्रत्ययः ] → लभ् + अ + सीयुट् + झ [<<लिङस्सीयुट्>> 3.4.102 इति सीयुट्-आगमः] → लभ् + अ + ईय् + झ [<<लिङःसलोपोऽनन्त्यस्य>> 7.2.79 इति सकारलोपः] → लभ् + अ + ईय् + रन् [<<झस्य रन्>> 3.4.105 इति झकारस्य रन्-आदेशः] → लभ् + अ + ई + रन् [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः] → लभेरन् [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] 2) लभ्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - लभ् + लिङ् [<<आशिषि लिङ्लोटौ>> 3.3.173 इति लिङ्लकारः] → लभ् + झ [<<तिप्तस्..>> 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य झ-प्रत्ययः।] → लभ् + सीयुट् + झ [<<लिङस्सीयुट्>> 3.4.102 इति सीयुट्-आगमः] → लभ् + सीय् + रन् [<<झस्य रन्>> 3.4.105 इति झकारस्य रन्-आदेशः] → लभ् + सी + रन् [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः] → लप् + सी + रन् [<<खरि च>> 8.4.55 इति चर्त्वम्] → लप्सीरन्
झस्येत्यकारोच्चारणात्सङ्घातस्यैव ग्रहणं न वर्णस्य, अन्यथान्तादेशविधाविव'झः' इत्येव ब्रूयादिति मन्यमान आह - लिङदेशस्य झस्येति । झोऽन्तापवाद इति । झकारस्य योऽन्तादेशस्तस्यापवाद इत्यर्थः ।'झो' न्तःऽ इत्यस्य वा विधेरपवाद इत्यर्थः । ननु झवर्णस्यान्तादेशः समुदायस्य रन्निति कथं भिन्नविषययोर्बाध्यबाधकभावः ? विरोधात्, येन नाप्राप्तिन्यायाच्च । झोऽन्तापवाद इत्युपलक्षणम् ; कृषीरन्, तृषीरन्नित्यत्र ठात्मनेपदेष्वनतःऽ इत्यस्याप्यपवादः । ननु चापवदाविप्रतिषेधादद्भाव एव प्राप्नोति, न; प्रतिपदविधेर्बलीयस्त्वात्, प्रतिपदविहितो हि रन्भावः । यद्वा - कृषीरन्, तृषीरन्नित्यत्रापि प्रवर्ततामद्भावः, सत्यपि तु तस्मिन्पुनः प्रसङ्गविज्ञानात्सङ्घातस्य रन् भविष्यति ॥