विभाषा कृञि
1-4-72 विभाषा कृञि आ कडारात् एका सञ्ज्ञा निपाताः गतिः तिरः अन्तर्धौ
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
व्यवधाने सति "तिरस्" इति शब्दः कृ-धातोः योगे विकल्पेन गतिसंज्ञकः भवति । यथा - तिरस्कृत्य, तिरस्कृत्वा ।
Kashika
Up
अन्तर्धाविति वर्तते। प्राप्तविभाषेयम्। तिरःशब्दः करोतौ परतो विभाषा गतिसंज्ञो भवति। तिरःकृत्य। तिरस्कृत्य। तिर॑स्कृतम्। यत् ति॑रस्क॒रोति॑। तिरःकृत्वा। तिरस्कृत्वा। अन्तर्धावित्येव — तिरः कृत्वा काष्ठं तिष्ठति॥
Siddhanta Kaumudi
Up
तिरस्कृत्य । तिर≍कृत्य । तिरः कृत्वा ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं त्रयोदशं सूत्रम् । तिरस् (= अन्तर्धानम् (hiding) इत्यर्थः) इति अव्ययस्य, व्यवधानस्य उपस्थितौ <<कृ>>-धातोः योगे विकल्पेन गतिसंज्ञा भवति - इति अस्य सूत्रस्य आशयः । <<तिरोऽन्तर्द्धौ >> 1.4.72 इत्यनेन नित्यं प्राप्ता गतिसंज्ञा प्रकृतसूत्रेण <<कृ>>-धातोः योगे विकल्प्यते ।
व्यवधानम् इत्युक्ते गोपनार्थम् प्रयुक्तः वृक्ष-भित्ति-इत्यादिकः कश्चन पदार्थः (an object behind which hiding can be done) । एतादृशस्य वस्तुनः आधारेण यत्र अन्तर्धानं क्रियते, तत्र प्रकृतसूत्रेण तिरस्-शब्दस्य <<कृ>>-धातोः योगे विकल्पेन गतिसंज्ञा विधीयते । गतिसंज्ञापक्षे <<कुगतिप्रादयः>> 2.2.18 इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - धनं तिरःकृत्य / तिरस्कृत्य / तिर≍कृत्य वदति (= व्यवधानस्य आधारेण धनम् अदृश्यं कृत्वा वदति - इत्याशयः) । गतिसंज्ञा-अभावपक्षे समासः ल्यबादेशः च न भवति, अतः तिरःकृत्वा / तिरः≍कृत्वा वदति इत्येव प्रयोगः जायते ।
यत्र व्यवधानं नास्ति (इत्युक्ते गोपनम् अपि न सम्भवति), तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - काष्ठं तिरः कृत्वा / तिरः≍कृत्वा तिष्ठति (= काष्ठं पार्श्वे कृत्वा तिष्ठति - इत्याशयः) । अत्र अन्तर्धेः अनुपस्थितौ तिरस्-शब्दस्य गतिसंज्ञा न भवति । गतिसंज्ञायाः अभावात् गतिसमासः ल्यबादेशः च अपि न भवतः ।
रूपसिद्धिः
तिरस् + कृत्वा इत्यस्मिन् अर्थे प्रकृतसूत्रेण
तिरःकृत्य /
तिरस्कृत्य /
तिर≍कृत्य इति त्रीणि रूपाणि भवन्ति । एतेषां सिद्धिः एतादृशी -
तिरः कृत्वा (वृत्तिः)
--> तिरस् + कृ + क्त्वा (अलौकिकविग्रहः)
--> तिरस् + कृ + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> 7.1.37]
--> तिरस् + कृ + तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> 6.1.71]
--> तिरः + कृत्य [<<ससजुषो रुः>> 8.2.66, <<खरवसानयोर्विसर्जनीयः>> 8.3.15
--> तिरःकृत्य, तिर≍कृत्य, तिरस्कृत्य [विसर्गस्य <<कुप्वोः ≍क≍पौ च>> 8.3.37 इति विकल्पेन जिह्वामूलीयः । तदभावे <<तिरसोऽन्यरस्याम्>> 8.3.42 इति विकल्पेन विसर्गस्य सकारादेशः ]
अस्यां प्रक्रियायां <<तिरसोऽन्यरस्याम्>>
8.3.42 इति सूत्रेण विसर्गस्य विकल्पेन सकारादेशः कृतः अस्ति - इति विशेषः । <<तिरसोऽन्यरस्याम्>>
8.3.42 इति सूत्रम् केवलं गतिसंज्ञकस्य तिरस्-शब्दस्य विषये एव प्रवर्तते । अतः गतिसंज्ञा-अभावपक्षे केवलम् वैकल्पिकम् उपध्मानीयं कृत्वा
तिर≍कृत्वा /
तिरःकृत्वा इति द्वे एव रूपे भवतः ।
प्राप्तविभाषा
अन्तर्धौ सति क्रियायोगे
तिरस्-शब्दस्य <<तिरोऽन्तर्द्धौ >>
1.4.72 इत्यनेन नित्यं प्राप्ता गतिसंज्ञा प्रकृतसूत्रेण <<कृ>>-धातोः योगे विकल्प्यते । पूर्वं प्राप्तः विधिः अत्र विकल्प्यते, अतः इयम्
प्राप्तविभाषा अस्ति ।
अस्य सूत्रस्य अग्रे अनुवृत्तिः
गतिसंज्ञाप्रकरणस्य अवशिष्टेषु सर्वेषु अपि सूत्रेषु (इत्युक्ते, <<जीविकोपनिषदावौपम्ये>>
1.4.79 इति यावत्सु सर्वेषु सूत्रेषु)
प्रकृतसूत्रस्य कृञि इति अंशः अनुवर्तते । इत्युक्ते, अग्रे विद्यमानैः सर्वैः अपि सूत्रैः भिन्नानां शब्दानाम् केवलं <<कृ>>-धातोः योगे एव गतिसंज्ञा विधीयते ।
किञ्च, <<मध्ये पदे निवचने च>>
1.4.76 इति सूत्रपर्यन्तं प्रकृतसूत्रात्
विभाषा इत्यपि पदम् अनुवर्तते । अतः एतैः सूत्रैः उक्ताः गतिसंज्ञा विकल्पेन एव भवति ।
Balamanorama
Up
Padamanjari
Up
तिरस्कृत्येति।'तिरसो' न्यतरस्याम्ऽ इति सत्वम्। प्रत्युदाहरणे तु न भवति, तत्र गत्यनुकार्यानुकरणयोर्भोदस्याविवक्षितत्वात् सूत्रे विभक्त्यभावः॥