1-4-73 उपाजे अन्वाजे आ कडारात् एका सञ्ज्ञा निपाताः गतिः विभाषा कृञि
"उपाजे" तथा च "अन्वाजे" एते अव्यये कृ-धातोः योगे विकल्पेन गतिसंज्ञकौ भवतः । यथा - उपाजेकृत्य, उपाजे कृत्वा । अन्वाजेकृत्य, अन्वाजे कृत्वा ।
विभाषा कृञीति वर्तते। उपाजेऽन्वाजेशब्दौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तते,तौ कृञि विभाषा गतिसंज्ञौ भवतः। उपाजेकृत्य, उपाजे कृत्वा। अन्वाजेकृत्य, अन्वाजे कृत्वा॥
एतौ कृञि वा गतिसंज्ञौ स्तः । उपाजेकृत्य । उपाजेकृत्वा । अन्वाजेकृत्य । अन्वाजेकृत्वा । दुर्बलस्य बलमाधायेत्यर्थः ॥
अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं चतुर्दशं सूत्रम् ।
<<उपाजेऽन्वाजे>> - उपाजेऽन्वाजे । उपाजेकृत्येति । गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप् । अन्वाजेकृत्येत्यपि तथैव 'उपाजे' 'अन्वाजे' इत्यव्यये दुर्बलस्य बलाधाने वर्तेते । तदाह — दुर्बलस्येति ।