तिरोऽन्तर्द्धौ

1-4-71 तिरः अन्तर्धौ आ कडारात् एका सञ्ज्ञा निपाताः गतिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

व्यवधाने सति "तिरस्" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । यथा - तिरोभूय ।

Kashika

Up

अन्तर्धिर्व्यवधानम्। तत्र तिरःशब्दो गतिसंज्ञो भवति। तिरोभूय। तिरो॑भूतम्। यत् ति॑रो॒भव॑ति। अन्तर्धाविति किम्? तिरो भूत्वा स्थितः। पार्श्वतो भूत्वेत्यर्थः॥

Siddhanta Kaumudi

Up

तिरोभूय ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं द्वादशं सूत्रम् । अनेन सूत्रेण तिरस् (= अन्तर्धानम् (hiding) इत्यर्थः) इति अव्ययस्य, व्यवधानस्य उपस्थितौ क्रियायोगे गतिसंज्ञा भवति व्यवधानम् इत्युक्ते गोपनार्थम् प्रयुक्तः वृक्ष-भित्ति-इत्यादिकः कश्चन पदार्थः (an object behind which hiding can be done) । एतादृशस्य वस्तुनः आधारेण यत्र अन्तर्धानं भवति, तत्र प्रकृतसूत्रेण तिरस्-शब्दस्य गतिसंज्ञा विधीयते । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - तिरोभूय वदति (= वृक्ष-इत्यादेः कस्यचन व्यवधानस्य आधारेण अदृश्यः भूत्वा वदति - इत्याशयः) । परन्तु यत्र व्यवधानं नास्ति (इत्युक्ते गोपनम् अपि न सम्भवति), तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - तिरो भूत्वा वदति (= पार्श्वे गत्वा / तिर्यक् भूत्वा वदति - इत्याशयः) । अत्र अन्तर्धेः अनुपस्थितौ तिरस्-शब्दस्य गतिसंज्ञा न भवति । गतिसंज्ञायाः अभावात् गतिसमासः ल्यबादेशः च अपि न भवतः । बाध्यबाधकभावः अन्तर्धौ सति तिरस्-शब्द: यदा <<कृ>>-धातोः योगे प्रयुज्यते, तदा <<विभाषा कृञि>> 1.4.72 इति अग्रिमसूत्रेण तिरस्-शब्दस्य विकल्पेन एव गतिसंज्ञा भवति ।

Balamanorama

Up

<<विभाषा कृञि>> - विभाषा कृञि । कृञि प्रयुज्यमाने तिरसित्यव्ययं गतिसंज्ञं वा स्यादित्यर्थः । तिरस्कृत्य तिरः कृत्येति । गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप् ।तिरसोऽन्यतरस्या॑मिति सत्वविकल्पः । तिरः कृत्वेति । गतित्वाऽभावपक्षे सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेरित्याहुः । केचित्तु तिरस्कार इति परिभवे प्रयोगदर्शनात्सत्वविधौ गतिग्रहणं नानुवर्तयन्ति ।

Padamanjari

Up

तिरोभूयेति। समासकृत्स्वरौ प्रयोजनम्। तिरोभूतमिति। भवतेरकर्मकत्वात्कर्तरि क्तः'गतिरनन्तरः' इत्यत्र च कर्मणीति वर्तते, तस्मात् समासथाथादिस्वरावत्र प्रयोजनम्। तिरो भूत्वेति। पार्श्वतो भूत्वेत्यर्थः॥