पुरोऽव्ययम्
1-4-67 पुरोः अव्ययम् आ कडारात् एका सञ्ज्ञा निपाताः गतिः
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
अव्ययसंज्ञकः "पुरस्" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । यथा - पुरस्कृत्य ।
Kashika
Up
असिप्रत्ययान्तः पुरः शब्दोऽव्ययम्, स गतिसंज्ञो भवति। समासस्वरोपचाराः प्रयोजनम्। पुरस्कृत्य। पुरस्कृ॑तम्। यत् पु॑रस्क॒रोति॑। अव्ययमिति किम्? पूः, पुरौ। पुरः कृत्वा गतः॥
Siddhanta Kaumudi
Up
पुरस्कृत्य ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं अष्टमं सूत्रम् । अनेन सूत्रेण अव्ययसंज्ञकस्य पुरस् (= पूर्वा दिक्, अग्रे, पूर्वस्मिन् देशे, पूर्वस्मात् देशात् इत्यादिकम् ) इति शब्दस्य क्रियायाः योगे गतिसंज्ञा भवति । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - पुरस्कृत्य गच्छति (= अग्रे कृत्वा गच्छति इत्याशयः) । एवमेव पुरस्कारः , पुरस्कृतम् इत्यादयः शब्दाः अपि सिद्ध्यन्ति ।
पुरस् इति शब्दः
पूर्व इति शब्दः यदा
दिशावाचके,
स्थानवाचके उत
कालवाचके अर्थे प्रयुज्यते, तदा तस्य
सप्तम्यन्तात्,
पञ्चम्यन्तात्, तथा च
प्रथमान्तात् रूपात् <<पूर्वाधरावराणामसि पुरधवश्चैषाम्>>
5.3.39 अनेन सूत्रेण <<असि>> इति तद्धितप्रत्ययः स्वार्थे विधीयते, येन
पुरस् इति प्रातिपदिकं सिद्ध्यति । <<तद्धितश्चासर्वविभक्तिः>>
1.1.38 इत्यनेन अस्य अव्ययसंज्ञा अपि सिद्ध्यति । अस्य
पुरस् शब्दस्य अत्र ग्रहणं कृतम् अस्ति । अस्य शब्दस्य
पूर्वस्मिन स्थाने,
पूर्वस्यां दिशि,
पूर्वस्मिन् काले,
पूर्वस्मात् स्थानात्,
पूर्वायाः दिशः,
पूर्वस्मात् कालात्,
पूर्वं स्थानम्,
पूर्वा दिक्,
पूर्वः कालः - इति भिन्नाः अर्थाः सम्भवन्ति ।
पुरस्कृत्य इत्यस्य प्रक्रिया
पुरस्कृत्य इति शब्दस्य प्रक्रिया इयम् -
पुरः कृत्वा (वृत्तिः)
--> पुरस् + कृ + क्त्वा [अलौकिकविग्रहः]
--> पुरस् + कृ + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> 7.1.37]
--> पुरस् + कृ + तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति तुगागमः]
--> पुरः + कृत्य [<<ससजुषो रुः>> 8.2.66, <<खरवसानयोर्विसर्जनीयः>> 8.3.15]
--> पुरस् + कृत्य [<<नमस्पुरसोर्गत्योः>> 8.3.40 इत्यनेन गतिसंज्ञकस्य पुरस्-शब्दस्य विसर्गस्य क्-वर्णे परे परे सकारादेशः भवति ]
--> पुरस्कृत्य
अत्र प्रक्रियायाम् अन्तिमसोपाने गतिसंज्ञाविशिष्टं <<नमस्पुरसोर्गत्योः>>
8.3.40 इति सूत्रं प्रयुक्तम् अस्ति इति विशेषः ।
अव्ययम् इति किमर्थम् ?
प्रकृतसूत्रे
पुरः इति शब्दः प्रयुक्तः अस्ति ।
पुरः इति
पुर् (=नगरी) इति रेफान्त-स्त्रीलिङ्ग-प्रातिपदिकस्य द्वितीयाबहुवचनम् अपि अस्ति । अस्य शब्दस्य विषये प्रकृतसूत्रेण गतिसंज्ञा न इष्यते, अपि तु केवलम् अव्ययसंज्ञकस्य
पुरस् शब्दस्य विषये एव इष्यते, इति स्पष्टीकर्तुम् अत्र
अव्ययम् इति शब्दः स्थापितः वर्तते । अतएव
असुराणां पुरः हत्वा इन्द्रः गतः एतादृशेषु वाक्येषु गतिसमासः न भवति ।
Balamanorama
Up
<<पुरोऽव्ययम्>> - पुरोऽव्ययं । पुर इत्यव्ययं गतिसंज्ञकं स्यात् । पुरस्कृत्येति । गतिसमासे क्त्वो ल्यप् । अव्ययं किम् । पुरम्, पुरौ, पुरः कृत्वा गतः ।
Padamanjari
Up
असिप्रत्ययान्तः पुरः शब्दोऽव्ययमिति।'पूर्वाधरावाराणामसिपुरधवश्चैषाम्' इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः,'तद्धितश्चासर्वविभक्ति' इत्यव्ययसंज्ञा, विसर्जनीयस्थानिकः सकार उपचारः। पुरस्कृत्येति। पूर्वस्मिन्देशे कृत्वेत्यर्थः। पूः पुरौ, पुरः कृत्वेति। एतदत्र प्रत्युदाहरणम्। इतरयोस्तूपन्यासस्तत्साहचर्यात्पुर इति शसन्तम्, नाव्ययमिति प्रदर्शनार्थः। अत्र'नमस्पुरसोर्गत्योः' इति सत्वं न भवति, समासश्च न भवति॥