अस्तं च

1-4-68 अस्तं च आ कडारात् एका सञ्ज्ञा निपाताः गतिः अव्ययम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

अव्ययसंज्ञकः "अस्तम्" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । यथा - अस्तंगत्य ।

Kashika

Up

अस्तंशब्दो मकारान्तोऽव्ययमनुपलब्धौ वर्तते, स गतिसंज्ञो भवति। अस्तंगत्य सविता पुनरुदेति। अ॒स्तंग॑तानि धनानि। यद॑स्तं॒गच्छ॑ति। अव्ययमित्येव — अस्तं कृत्वा काण्डं गतः। क्षिप्तमित्यर्थः॥

Siddhanta Kaumudi

Up

अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् ॥ अस्तंगत्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं नवमं सूत्रम् । अनेन सूत्रेण अव्ययसंज्ञकस्य अस्तम् (= अदर्शनस्य स्थितिः इत्यर्थः) इति शब्दस्य क्रियायाः योगे गतिसंज्ञा भवति । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - अस्तङ्गत्य सविता पुनरुदेति (= सूर्यः अदृष्टः भूत्वा पुनः उदेति) । एवमेव अस्तङ्गतानि धनानि इति प्रयोगः अपि सिद्ध्यति । अस्तम् इति शब्दः पदसंज्ञकः अस्ति, अतः मकारस्य <<मोऽनुस्वारः>> 8.3.23 इत्यनेन अनुस्वारादेशे कृते, ततः अनुस्वारस्य परसवर्णः (ङकारः) <<वा पदान्तस्य>> 8.4.59 इत्यनेन विकल्पेन एव भवति । अतः अनुस्वारघटिताः अस्तंगतः, अस्तंगत्य इत्यादयः शब्दाः अपि साधु एव सन्ति । <hl>अव्ययम्</hl> इति किमर्थम् ? प्रकृतसूत्रे पूर्वसूत्रात् अव्ययम् इति शब्दः अनुवर्तते । अनेन अस्तम् इति यद् मकारान्तम् अव्ययम्, तस्य एव प्रकृतसूत्रे ग्रहणं भवति । तस्य स्थाने यदि अस् इति धातोः <<क्त>>-प्रत्ययान्तरूपस्य सुबन्तरूपम् अस्तम् (अस् + क्त --> अस्त, अस्त + अम् --> अस्तम् । क्षिप्तम् / अवसानप्राप्तम् इति अर्थः) इति प्रयुज्यते तर्हि तत्र प्रकृतसूत्रस्य उपयोगः न भवति । यथा - काण्डम् अस्तं कृत्वा गतः (काण्डं प्रक्षिप्य गतः इत्याशयः) । अत्र वाक्ये अस्तम् इति अव्ययं नास्ति अपितु अस्त-प्रातिपदिकस्य द्वितीयैकवचनम् अस्ति । अतः अत्र गतिसंज्ञा न भवति, अतश्च गतिसमासः अपि न कर्तुं शक्यते । किञ्च, अस्त इति कश्चन अकारान्तपुंलिङ्गशब्दः अपि विद्यते । अस्य प्रयोगः "यत्र सूर्यस्य किरणाः अदृष्टाः भवन्ति" तादृशस्य स्थानस्य निर्देशार्थं क्रियते । यथा - अस्ताचलः = सः पर्वतः यत्र सूर्यः अदृश्यः भवति । अस्य शब्दस्य द्वितीयैकवचनम् अपि अव्ययसंज्ञकं नास्ति अतः तस्य विषये अपि प्रकृतसूत्रं न प्रवर्तते ।

Balamanorama

Up

<<अस्तं च>> - अस्तं च । पूर्वसूत्रादव्ययमित्यनुवर्तत इत्याह — मान्मव्ययमिति । अस्तङ्गत्येति । तिरोधानं प्राप्येत्यर्थः । अव्ययं किं । काण्डमस्तं कृत्वा । प्रक्षिप्तं कृत्वेत्यर्थः । अच्छ गत्यर्थ । गत्यर्थधातुषु, वदधातौ च प्रयुज्यमानेषु अच्छेत्यव्ययं गतिसंज्ञं स्यात् ।

Padamanjari

Up

अस्तं कृत्वेति। ठसु क्षेपणेऽ,निष्ठा, उदितो वाऽ'यस्यविभाषा' इति इट्प्रतिषेधः। ननु लाक्षणिकत्वादेवात्र न भवति, किमव्ययग्रहणानुवृत्या? एवं तर्ह्यस्तंशब्दोः अव्ययमिति ज्ञाप्यते। न ह्ययं चादिषु स्वरादिषु वा पठ्यते॥