2-1-44 सञ्ज्ञायाम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः सप्तमी
संज्ञायां विषये सप्तम्यन्तं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। संज्ञा समुदायोपाधिः। तेन नित्यसमास एवायम्, नहि वाक्येन संज्ञा गम्यते। अरण्येतिलकाः। अरण्येमाषाः। वनेकिंशुकाः। वनेबिल्वकाः। कूपेपिशाचकाः। <<हलदन्तात् सप्तम्याः संज्ञायाम्>> ६.३.९ इत्यलुक्॥
सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकसेरुकाः । हलदन्तात्सप्तम्या <{SK966}> इत्यलुक् ॥
<<संज्ञायाम्>> - संज्ञायाम् ।सप्तमी॑त्यनुवर्तते । तदाह — सप्तम्यन्तमित्यादि । 'अरण्येतिलका' इति 'वनेकशेरुका' इति च संज्ञाशब्दौ ।हलदन्तात्सप्तम्याः॑ इत्यलुक् ।क्तेनाहो । अहोरात्रयोरवयवा इति विग्रहः । सप्तमीत्यनुवर्तते । क्तेनेति तदन्तग्रहणं । तदाह — अह्नो रात्रेश्चेति । अहरवयवस्योदाहरति — पूर्वाह्णकृतमिति । रात्र्यवयवस्योदाहरति — अपररात्रकृतमिति ।