शर्परे विसर्जनीयः

8-3-35 शर्परे विसर्जनीयः पदस्य पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

शर्-परे खरि विसर्जनीयस्य विसर्जनीयः

Neelesh Sanskrit Brief

Up

पदान्ते विद्यमानात् विसर्गात् अनन्तरम् खर्-वर्णः, तस्मात् अनन्तरम् च शर्-वर्णः विद्यते चेत् विसर्गस्य विसर्गादेशः भवति ।

Neelesh English Brief

Up

A विसर्ग is converted to विसर्ग if it is followed by a खर् letter after which a शर् letter is present.

Kashika

Up

शर्परे खरि परतो विसर्जनीयस्य विसर्जनीयादेशो भवति। शशः क्षुरम्। पुरुषः क्षुरम्। अद्भिः प्सातम्। वासः क्षौमम्। पुरुषःत्सरुः। घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् (ऋ० १०.१०३.१)। नेति वक्तव्ये विसर्जनीयस्य विसर्जनीयादेशविधानं विकारनिवृत्त्यर्थम्। तेन जिह्वामूलीयोपध्मानीयौ न भवतः॥

Siddhanta Kaumudi

Up

शर्परे खरि विसर्जनीयस्य विसर्जनीयः न त्वन्यत् । कः त्सरुः । घनाघनः क्षोभणः । इह यथायथं सत्वं जिह्वामूलीयश्च न ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

खर् = सर्वाणि कर्कशव्यञ्जनानि = वर्गप्रथमाः, वर्गद्वितीयाः, शकारः, षकारः, सकारः । आहत्य 13 वर्णाः । शर् = शकारः, षकारः, सकारः । आहत्य 3 वर्णाः । अष्टाध्याय्याम् <<विसर्जनीयस्य सः>> 8.3.34 इत्यतः <<कस्कादिषु च>> 8.3.48 इति यावद्भिः पञ्चदशभिः सूत्रैः विसर्गस्य भिन्नाः आदेशाः प्रोक्ताः सन्ति । अस्य विसर्गादेशप्रकरणस्य इदम् द्वितीयम् सूत्रम् । विसर्गात् अनन्तरम् खर्-वर्णः, तस्माद् अनन्तरम् च शर्-वर्णः विद्यते चेत् विसर्गस्य अन्यान् आदेशान् बाधित्वा पुनः विसर्गादेशः एव भवति — इति अस्य सूत्रस्य आशयः । कानिचन उदाहरणानि एतानि — 1. कः त्सरुः → कः त्सरुः । अत्र तकारात् परः अव्यवहितरूपेण सकारः वर्तते, अतः तकारात् पूर्वस्य विसर्गस्य <<विसर्जनीयस्य सः>> 8.3.34 इत्यनेन सकारादेशे प्राप्ते तं बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति । 2. रामः क्षत्रियः → रामः क्षत्रियः । अत्र ककारात् परः अव्यवहितरूपेण षकारः विद्यते, अतः ककारात् पूर्वस्य विसर्गस्य <<कुप्वोः ≍क≍पौ च>> 8.3.37 इत्यनेन पाक्षिके जिह्वामूलीये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति । 3. अद्भिः प्सातम् → अद्भिः प्सातम् । अत्र पकारात् परः अव्यवहितरूपेण सकारः विद्यते, अतः पकारात् पूर्वस्य विसर्गस्य <<कुप्वोः ≍क≍पौ च>> 8.3.37 इत्यनेन पाक्षिके उपध्मानीये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति । बाध्यबाधकभावः <<शर्परे विसर्जनीयः>> 8.3.35 इति प्रकृतसूत्रम् <<विसर्जनीयस्य सः>> 8.3.34 तथा च <<कुप्वोः ≍क≍पौ च>> 8.3.37 इत्यनयोः बाधकरूपेण प्रवर्तते । <<विसर्जनीयस्य सः>> 8.3.34 इत्यनेन प्राप्तं सकारादेशम्, तथा च <<कुप्वोः ≍क≍पौ च>> 8.3.37 इत्यनेन प्राप्तौ जिह्वामूलीय-उपध्मानीयौ बाधित्वा अनेन सूत्रेण विसर्गस्य विसर्गादेशः एव भवति । सूत्रे <qt>न</qt> इत्यस्य स्थाने <qt>विसर्जनीयः</qt> इत्यस्य ग्रहणम् यदि अस्मिन् सूत्रे <<शर्परे विसर्जनीयः>> इत्यस्य स्थाने <<शर्परे न>> इति उच्यते, तर्हि पूर्वसूत्रस्य सन्दर्भेण अस्य अर्थः विसर्जनीयस्य सः ; शर्परे न इति भवेत् । अस्यां स्थितौ केवलं सकारादेशस्य एव अत्र बाधः अभविष्यत्, अन्येषाम् आदेशानां (इत्युक्ते, जिह्वामूलीय-उपध्मानीयययोः) न । तादृशं मा भूत् अतः अस्मिन् सूत्रे विसर्गस्य पुनः विसर्गादेशः एव उक्तः अस्ति । शर्परे खरि विसर्गस्य अन्यः कोऽपि आदेशः न भवेत् अपितु विसर्गः एव तत्र तिष्ठेत् — इति ज्ञापयितुम् एव विसर्गस्य पुनः विसर्गादेशः उक्तः अस्ति — इति अस्य आशयः ।

Balamanorama

Up

Padamanjari

Up

शर्परो यस्मादिति बहुव्रीहिः, परग्रहणेऽक्रियमाणे शरएव केवलस्य निमितता विज्ञायेत, न खरीत्यनुवृतेः,'वा शरि' इत्यभिधानाच्च । विपर्ययस्तर्हि विज्ञायेत - खर्परे शरीति, नित्यः स्फोटः, पुरुषः स्थातेति । तस्मात्परग्रहणम् । अथ किमर्थण्,'विसर्जनीयः' इत्युच्यते, न'न' इत्येवोच्येत, सत्वे हि प्रतिषिद्धे विसर्जनीयः स्वेनैव रूपेणावस्थास्यते ? अथ आह - विसर्जनीयस्येति । सत्यम्; पुरुषः त्सरुक इत्यादौ सत्वनिषेधेनापि सिद्धम्, यत्र तु कुपू शर्परौ - वासः क्षौमम्, अद्धिः प्सातमिति, तस्य विसर्जनीयस्य यो विकारो जिह्वामूलीयादिः स एव स्यात् । विसर्जनीयग्रहणे तु सति विसर्जनीय एव भवति । जिह्वामूलीयोपध्मानीयावपि न भवत इति । केवलं सकार एवेत्यपि शब्दार्थः ॥