सर्वस्य द्वे

8-1-1 सर्वस्य द्वे

Sampurna sutra

Up

सर्वस्य द्वे

Neelesh Sanskrit Brief

Up

इतः परम् <<पदस्य>> 8.1.16 अस्मात् प्राक् यद् किमपि वक्ष्यते, तत् सर्वम् द्विरुक्तम् भवति ।

Neelesh English Brief

Up

In the contexts that will henceforth be told till the sutra <<पदस्य>> 8.1.16, the participating words will get duplicated.

Kashika

Up

सर्वस्येति च द्वे इति चैतदधिकृतं वेदितव्यम् । इत उत्तरं यद् वक्ष्यामः प्राक् <<पदस्य>> ८.१.१६ इत्यतः, सर्वस्य द्वे भवत इत्येवं तद् वेदितव्यम्। वक्ष्यति — <<नित्यवीप्सयोः>> ८.१.४ इति, तत्र सर्वस्य स्थाने द्वे भवतः। के द्वे भवतः? ये शब्दतश्चार्थतश्चोभयथान्तरतमे। एकस्य पचतिशब्दस्य द्वौ पचतिशब्दौ भवतः। पचतिपचति। ग्रामोग्रामो रमणीयः। यदा तु द्विःप्रयोगो द्विर्वचनं तदा स एव पचतिशब्दो द्विरावर्तते, तस्य द्वे आवृत्ती भवतः। सर्वस्येति किम्? विस्पष्टार्थम्। अथ पदस्येत्येव कस्माद् नोच्यते? नैवं शक्यम्, इह हि न स्यात् — प्रपचतिप्रपचतीति। इह द्रोग्धा, द्रोढा इति घत्वढत्वयोरसिद्धत्वादकृतयोरेव तयोर्द्विर्वचनं प्राप्नोति, तत्र पश्चाद्विकल्पे सत्यनिष्टमपि स्यात् — द्रोग्धाद्रोढा, द्रोढाद्रोग्धेति। तस्माद् वक्तव्यमेतत् — <<पूर्वत्रासिद्धीयमद्विर्वचने>> इति। सर्वस्येत्येतदेव वा कृतं सर्वकार्यप्रतिपत्त्यर्थं द्रष्टव्यम्॥

Siddhanta Kaumudi

Up

इत्यधिकृत्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

इदम् अधिकारसूत्रम् अस्ति । अस्य अधिकारस्य व्याप्तिः <<पदस्य>> 8.1.16 इति सूत्रम् यावत् प्रचलति । अस्मिन् अधिकारे निर्दिष्टेषु सन्दर्भेषु शब्दस्य द्वित्वं (द्विवारम् उच्चारणम्) भवति — इति अस्य अधिकारस्य आशयः । कानिचन उदाहरणानि एतानि — 1. <<नित्यवीप्सयोः>> 8.1.4 इति सूत्रेण नित्यतायाः (regularity), पौनःपुन्यस्य (repetition) च सन्दर्भः उच्यते । इदम् सूत्रम् <<सर्वस्य द्वे>> 8.1.1 इत्यस्मिन् अधिकारे वर्तते, अतः पौनःपुन्यस्य निर्देशार्थम् प्रयुक्तस्य शब्दस्य द्वित्वं भवति — इति अर्थः अत्र विधीयते । यथा - नित्यं पचति अथवा पुनः पुनः पचति इत्येतयोः अर्थयोः निर्देशार्थम् पचति पचति इति प्रयोगः अपि सम्भवति । 2. <<परेर्वर्जने>> 8.1.5 इति सूत्रेण वर्जनम् इति सन्दर्भे प्रयुक्तस्य परिशब्दस्य द्वित्वम् उच्यते । अतः वङ्गं वर्जयित्वा अन्यत्र वृष्टिः जाता इति अर्थं दर्शयितुम् परि परि वङ्गेभ्यः वृष्टिर्जाता इति प्रयोगः क्रियते । 3. <<उपर्यध्यधसः सामीप्ये >> 8.1.7 इति सूत्रेण उपरि शब्दस्य सामीप्ये गम्यमाने द्वित्वं विधीयते । अतः ग्रामस्य उपरि भागे परन्तु समीपे इत्यस्मिन् अर्थे उपरि उपरि ग्रामम् इति प्रयोगः भवितुम् अर्हति । अष्टाध्याय्यां विद्यमानानि द्वित्वप्रकरणानि अष्टाध्याय्याम् आहत्य त्रीणि द्वित्वप्रकरणानि विद्यन्ते — 1. <<एकाचो द्वे प्रथमस्य>> 6.1.1 इत्यतः <<दाश्वान् साह्वान् मीढ्वांश्च>> 6.1.12 इत्येतेषु सूत्रेषु पाठितम् द्वित्वम् षाष्ठं द्वित्वम् नाम्ना ज्ञायते । अस्मिन् द्वित्वप्रकरणे सन्/यङ्/लिट्/लुङ्/तिङ्/अच्-इत्येतेषां प्रत्ययानां योजनसमये धातूनाम् जायमानम् द्वित्वम् निर्दिष्टम् अस्ति । 2. <<सर्वस्य द्वे>> 8.1.1 इति प्रकृतसूत्रेण निर्दिष्टः अधिकारः अष्टाध्याय्याः द्वितीयम् द्वित्वप्रकरणम् अस्ति । अस्मिन् द्वित्वप्रकरणे शब्दानां द्वित्वस्य विषये सूत्राणि विद्यन्ते । 3. <<अचो रहाभ्यां द्वे>> 8.4.46 इत्यतः आरभ्य <<दीर्घादाचार्याणाम्>> 8.4.52 इति यावद्भिः सूत्रैः वर्णानां द्वित्वम् विधीयते । एतत् द्वित्वप्रकरणम् अष्टाध्याय्यां विद्यमानम् तृतीयम् द्वित्वप्रकरणम् अस्ति ।

Balamanorama

Up

<<सर्वस्य द्वे>> - अथ द्विरुक्तप्रकरणम् । सर्वस्य द्वे । इत्यधिकृत्येति ।द्विर्वचनवधयोऽनुक्रंस्यन्ते॑ इति शेषः ।

Padamanjari

Up

'नित्यवीप्सयोः' इत्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षत्वात्स्वरितत्वाच्चाधिकारोऽयम्, तदाह - सवस्येति द्वे इति चेति ।'सर्वस्य' इत्युक्ते यत्प्रतीयते,'द्वे' इत् चेत्युक्ते यत्प्रतीयते, एतदर्थस्वरूपमित्यर्थः । यद्यपि'स्वं रूपम्' इति वचनादुभयोरपि स्वरूपग्रहणं युक्तम्, तथापि'नाम्रेडितस्यान्त्यस्य तु वा' ,'नित्यमाम्रेडिते डाचि' इति द्विरुक्तेऽच्छब्दस्य सतामङ्गीकृत्य कार्यविधानातदभावः । न हि द्वयोरन्यतरस्य वा स्वरूपग्रहणे द्विरुक्तेऽच्छब्दस्य सम्भवः, तथा'तस्य परमाम्रेडितम्' इति पूर्वपराभावादनुपपन्नं स्यात् । तस्मादर्थग्रहणम् । सर्वशब्दश्चायं द्रव्यप्रकारावयवकार्त्स्न्यवृत्तिः, द्रव्यकार्त्स्न्ये यथा - सर्वस्वं ददातीति, यच्च यावच्च स्वं तत्सर्वं ददातीति गम्यते । प्रकारकार्त्स्न्ये यथा - सर्वान्नीनो भिक्षुरिति, सर्वप्रकारकमन्नं भक्षयतीति गम्यते । अवयवकार्त्स्न्ये यथा - सर्वः पटो दग्ध इतिः, सर्वावयवः पटो दग्ध इति गम्यते । इह तु पर्यादीनां विशिष्टार्थानां शब्दानामुपादानाद् द्रव्यप्रकारकार्त्स्न्ययोरसम्भवः । यत्रापि किञ्चिन्नोपादीयते'नित्यवीप्सयोः' इति, तत्रापि विशेषानुपादअनादेव सर्वस्य शब्दस्य सिद्धम् । तस्मादवयवकार्त्स्न्यवृत्तिर्गृह्यते । परेः सर्वस्य द्वे भवतः, न कश्चिदवयो द्विर्वचनेन वर्ज्यत इत्यर्थः । अत्र ठा दशभ्यः संख्याः संख्येये वर्तन्तेऽ इति'द्वे' इत्यस्य संख्येयापेक्षायां शब्दानुशासनप्रस्तावाच्छब्दरूपे संख्येये'षष्ठी स्थानेयोगा' इति वचनात्सर्वस्येति स्थानषष्ठी, सर्वस्य पर्यादेः स्थाने द्वे शब्दरूपे भवत इत्यर्थः, यथा - ठस्तेर्भूःऽ इति, तदा'स्थाने द्विर्वचनम्' इत्ययं पक्षो भवति । शब्दसम्बन्धिनि तूच्चारणे संख्येये स्थान्यादेशभावो न सम्भवति, निवृत्तिधर्मा हि स्थानी शब्दश्चेन्निवृत कस्योच्चारणं स्यात् । अतोऽध्याहृतोच्चारणशब्दापेक्षया'कर्तृकर्मणोः कृति' इति सर्वस्येति कर्मणि षष्ठी, सर्वस्य पर्यादेर्द्वेअ उच्चारणे भवतः, सर्वः पर्यादिद्विरुच्चारणीय इत्यर्थः, तदा'द्विः प्रयोगो द्विर्वचनम्' इत्येष पक्षो भवति । तत्र प्रथमं पक्षंम दर्शयति - सर्वस्य स्थाने द्वे भवत इति । के द्वे इति । विशेषानुपादानाद्ये केचन द्वे प्राप्नुत इति प्रश्नः । इतरोऽप्यन्तरतमपरिभाषामाश्रित्याह - शब्दतश्चेति । बिभीतकादिवाचिनामक्षादिशब्दानां शब्दत एवान्तर्यम्, तरुपादपादीनामर्यत एव, द्वयोस्तु पचतिशब्दयोरुभयथान्तर्यम्; तत्र ते एव यथा स्यातामित्युभयग्रहणम् । ते एवोभयथान्तरतमे दर्शयति - एकस्येति । ननु चारिमन्पक्ष राजाराजा, वाक्वाक्, लिट्लिट्, गोधुग्गोधुक्, शब्दप्राट्शब्दप्राट्, उपानदुपानत्, गौर्गौरित्यत्र नलोप-कुत्वा-ढत्व-घत्व-षत्व-धत्व-दीर्घत्वा(वृद्धी) नामसिद्धत्वादकृतेष्वेतेषु द्विर्वचने कृते पदस्य स्थाने समुदायस्यादिष्टत्वातस्यैव स्थानिवद्भावेन पदत्वं नावयवयोरिति पूर्वत्र भागे नलोपादीनि न स्युः, उतरत्र तु समुदायपदत्वेनापि सिद्ध्यति ? ननु च नलोपादीन्यतरङ्गाणि पदत्वमात्रा पेक्षत्वाद्, द्विर्वचनं तु बहिरङ्गं वीप्साद्यर्थापेक्षत्वात्, ततश्च तेषु कृतेषु द्विर्वचनं भविष्यति ? एवमपि कृतानामपि तेषां द्विर्वचने कर्तव्येऽसिद्धत्वान्नका रादियुक्तस्य द्विर्वचनमिति पुनः पूर्वपदे निमितभावान्न स्युरेव, यथा औजढदित्यत्र कृतानावपि ढत्वादीनामसिद्धत्वात् हत इत्येतस्य द्विर्वचनेऽभ्यासे हकारस्यैव श्रवणं भवति ? नैष दोषः; वक्ष्यत्येतत्'पूर्वत्रासिद्धीयमद्विर्वचने' इति, ततश्च परत्वादन्तरङ्गत्वाद्वा नलोपादिषु कृतेषु तद्यौक्तस्यैव द्विर्वचनं भविष्यति । यानि तर्हि पदकार्याणि नाकृते द्विर्वचने प्राप्नुवन्ति, तानि न स्युः; तद्यथा किङ्किमिति -'वा पदान्तस्य' इति परसवर्णविकल्पः, अपचन्नपचन्निति ङ्मुट्, अग्नाअग्नाविति वलोपः, छायाच्छायेति तुग्विकल्पः, वृक्षत्वक्षानिति'पदन्तस्य' इति णत्वप्रतिषेधः, अजेऽजे इति, ठेङः पदान्तादतिऽ इति पूर्वरूपत्वम् । किं चात्र'स्वरितो वानुदाते पदादौ' इत्येष विधिर्न स्यात्, उतरभागस्यापदत्वात्; तथाऽपदत्वातदाश्रयाणि कार्याणि प्राप्नुवन्ति, तद्यथा - अङ्गनाङ्गनेत्यतो गुणे पररूपत्वं स्यात्, पयः पय इति'सो' पदादौऽ इति सत्वप्रसङ्ग इत्येषा दिक् । अतो द्वयोरपि पृथक्पदत्वमेषितव्यम्; तदुच्यते - यदि प्रत्यस्तमितावयवभेद एक एवादशः स्याद्,'द्वे' इति द्विर्वचनमनुपपन्नं स्यात्; ततः'द्वे' इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयेते, तत्र स्थानिवद्भावेन समुदायस्यापि पदत्वं स्वतः, एवं चावयवयोरपीति समुदायस्यावयवयोश्च पदकार्याणि भविष्यन्ति । एवमपि विसंविसम्, मुसलंमुसलमिति ठादेशप्रत्यययोःऽ इति षत्वप्रसङ्गः ? नैष दोषः; नैवं विज्ञायते - आदेशस्य सकार इति, कथं तर्हि ? आदेशो यः सकार इति । अत्र च समुदायस्य समुदाय आदेशः, न सकारमात्रस्य सकारमात्रमिति न भविष्यति । इह तहि नृभिर्नृभिरिति समुदायस्य पदत्वाद्रेफनकारयोः समानपदस्थत्वाद्रषाभ्यामिति णत्वप्रसङ्गः ? एषोऽप्यदोषः; तत्र समानग्रहणं न कर्तव्यम्,'पदे' इत्येवास्तु, तत्रापदस्थयोर्निमितनिमितिनोरसम्भवादेकत्वविवक्षार्थमेव पदग्रहणमिति समानपदस्थत्वं सिध्यति, ततश्च समानग्रहणाद यत्र समानपदस्थत्वमेव, तत्र णत्वम् । इह तु स्थानिवद्भावादेकपदत्वम् । वस्तुतस्तु पदद्वयात्मक आदेश इति पृथक्पदस्थमिति णत्वाभावः । तदेवं निर्दोषः'स्थाने द्विर्वचन' पक्षः । इदानीं द्वितीयं पक्षं दर्शयति - यदा त्विति । द्विरावर्तत इति । उच्चार्यमाणस्य शब्दस्य यो व्यापार उच्चारणं नाम सेहावृत्तिविवक्षिता । द्विरुच्चरतीत्यर्थः । द्वे आवृती भवत इति । द्वे उच्चारणक्रिये भवत इत्यर्थः । न पुनर्मुख्ये एवावृती द्वे भवतः, तथा सति त्रिर्वचनप्रसङ्गात् । नन्वस्मिन्पक्षे आं पचसिपचसि देवदत3 - इत्यत्रावृत्तिभेदनिबन्धनया द्वित्वसंख्यया स्वाश्रयस्यैकत्वस्य निवर्तनादेकान्तरताया अभावाद् ठाम एकान्तरम्ऽ इति निघातप्रतिषेधो न स्याद्यथा किरिणेत्यादावावृत्तिभेदनिबन्धनेनापि द्व्यच्त्वेन स्वाश्रयस्यैकाच्त्वस्य निवर्तानात्'सावेकाचः' इति विभतयाद्यौदातत्वं न भवति, तद्वत् । स्थाने द्विर्वचने तु समुदायस्यापि स्थानिवद्भावेन पदत्वात्सिध्यति, तथा पौनः पुन्यमिति पुनः पुनर्भवितरि वर्तमानात्पुनःपुनशब्दाद्भावे ष्यञि यते; पुनः पुनर्भवः पौनः पुनिक इति च कालाट्ठञ्ऽ, तत्र द्विः प्रयोगे पदस्य विज्ञायमाने समुदायस्व वीप्सालक्षणेनार्थेन सत्यप्यर्थवत्वेऽर्थवत्समुदायानां समासग्रहणं नियमार्थमित्यप्रातिपदिकत्वातद्वितो न रयातः सुबन्तादुत्पत्तिपक्षेऽपि समुदायस्यासुबन्तत्वान्न स्यादेव, पक्षान्तरे तु स्थानिवद्भावादुभयमप्यस्तीति सिध्यति । यद्यप्यस्य स्थानी सुबन्तः, तथापि सुब्लुकि कृते'न ङसिम्बुद्ध्योः' इति निषेधाज्ज्ञापकात् प्रत्ययलक्षणेन ठप्रत्ययःऽ इति निषेधाभावात्प्रातिपदिकत्वमव्यावृतमिति ? अत्रैवं भाप्ये परिहार उक्तः - पचसिपचसीत्यर्थरूपयोः समानत्वात्स एव पच्शब्दः, स एव च तिङ्, ततश्च यः पूर्वस्माद्विद्दितः स परस्मादपि यश्च परस्मात्स पूर्वस्मादपि, तदादिग्रहणं च पदसंज्ञायामनुवर्तते, तत्र समुदायस्यावयवयोश्च तुल्येऽपि तिङ्न्तत्वे समुदायस्यैव पदसंज्ञा भविष्यति द्विर्वचनवत्, तद्यथा - पपाचेत्यत्र समुदायस्यावयवानां च तुल्येऽप्येकाच्त्वे समुदायस्यैव । द्विर्वचनं भवति, नावयवानाम्; तत्कस्य हेतोः ? शास्त्रहानेः, अवयवद्विर्वचने ह्यवयवान्तरे विषये समुदायविषये च शास्त्रं हीनं स्यात्, तद्वत्पदसंज्ञापि समुदायस्यैव भविष्यतीत्येकान्तरता युज्यते । पौनः पुन्यमित्यादौ तद्धितोऽप्युक्तेन न्यायेन समुदायस्य सुबन्तत्वात् प्रातिपदिकत्वाच्च सिद्ध्यतीति । अत्रैवं चोदयन्ति - प्रागेव द्विर्वचनात् पचसीत्यस्यामवस्थायां प्रवृता पदसंज्ञा किमति पुनः कृतेऽपि द्विर्वचने प्रवर्तते, प्रवर्तमाना वा किमिति समुदायस्यैव प्रवर्तते, न तु प्रत्येकमवयवयोः, न ह्यएवंविधो द्विर्वचनन्यायस्य विषय इति संयोगसंज्ञायामुक्तम्; निर्ग्लेयादित्यादौ त्रिष्वपि द्वयोः संयोगसंज्ञाभ्युपगमात् । किञ्च यत्र समुदायस्यैव पदत्वम् - अपचन्नपचन्नित्यादौ, तत्रावयवेषु पदकार्याभावप्रसङ्ग इति । अपर आह - उच्चारणक्रियैवात्र परं भिद्यते, तद्भेदात्वौपचारिकः पदभेदः; तत्वतस्त्वेकमेव पदमित्येकान्तरता युज्यते, पौनः पुन्यमित्यौ च वीप्सालक्षणेनार्थेन समुदायस्याप्यर्थवत्वात् प्रातिपदिकत्वम् । न च समासग्रहणान्निवृत्तिः; अतुल्यजातीयत्वात् । येपां हि भिन्नार्थानां सतां परस्परसम्बन्धमात्रमधिकं तत्समुदायस्यैव तुल्यजातीयस्य तेन निवृत्तिः । न चात्रैतदुभ्यमस्ति । न हि द्वयोः पुनः शब्दयोरर्थो भिद्यते, नापि तत्समुदाये तत्सम्बन्धोऽधिकः किं तर्हि ? वीप्सारूपोऽन्य एवेति । यद्येवम्, किरिणेत्यादौ'सावेकाचस्तृतीयादिः' इति विभक्तिस्वरः स्यात् ? तत्रापि ह्युच्चारणक्रियैव भिद्यते, तत्वतस्त्वेक एवेकारः । किञ्च - नित्यानां विभूनां वर्णानां तदात्मकानां च पदानां स्वरूपेण व्यवधानमव्यवधानं च न सम्भवतीत्युपलब्धिगतमेव तदाश्रयितव्यम् । तत्र च यथा पदभेदेऽप्युपलब्धिभेदः, तथा तदभेदेऽपीति कथमेकान्तरता ! यदि च पौनः - पुन्यमित्यादावुक्तेन न्यायेन समुदायस्यापि प्रातिपदिकत्वम्, हन्तैवं ग्रामोग्रामो रमणीय इत्यादावप्येवमेव प्रातिपदिकत्वे सति सुब्लुक् स्यात्, तस्मात्स्थाने द्विर्वचनमेवात्र रोचयामहे । अत एव'स्थअने द्विर्वचनम्' पूर्वं वृत्तिकारेण दर्शितम्, पश्चात्सम्भवमात्रेण'द्विः प्रयोगो' पिऽ दर्शितः । इह सर्वस्येति वचनमलोऽन्त्यनिवृत्यर्थं वा स्यात्, षष्ठ।ल्र्थप्रसिद्धयर्थं च । तत्र स्थाने द्विर्वचनपक्षे तावच्छब्दतोऽर्थतश्चान्तरतमाभ्यां द्वाभ्यामादेशाभ्यां भाव्यम् । ये चैवं प्रकारास्ते नियोगतोऽनेकाल्स्वभावाः - इत्यन्तरेणापि सर्वग्रहणम् ठनेकाल्शित्सर्वस्यऽ इति सर्वस्य भविष्यति । षष्ठ।ल्र्थोऽपि'परेर्वर्जने' इत्यादौ यत्र षष्ठयुच्चार्यते तत्र तावत् सिद्धः; यत्रापि षष्ठी नास्ति -'नित्यवीप्सयोः' इति, तत्रापि सामर्थ्याल्लभ्यते - नित्यवीप्सयोयः शब्दस्तस्य द्वे भवत इति । द्विः प्रयोगपक्षे त्वलोन्त्यविधिप्रसङ्ग एव नास्ति; स्थानषष्ठ।ल्भावात् । षष्ठ।ल्र्थोऽपि लभ्यत एवः, उच्चारणस्य शब्दधर्मत्वाद् । अतो नाथः सर्वग्रहणेनेत्यभिप्रायेणाह - सर्वस्येति किमिति । विस्पष्टाथमिति । य एवं प्रतिपतुमसमर्थः, तं प्रति सुखप्रतिपतये सर्वस्येत्युच्यत इत्यर्थः । अथेत्यादि । एवं मन्यते - समासतद्धितवाक्यनिवृत्यर्थमवश्यम्'पदस्य' इति वक्तव्यम् । समासनिवृत्यर्थ तावत् - सप्तपर्णोऽष्टापदम्, अत्र सप्तसंख्यानि पर्णानि वीप्स्यन्ते, न तु तद्वान्वृक्ष इति वीप्सायामेकत्वस्यानन्तर्भावात्प्रागेव विभक्तेद्विवचनप्रसङ्गः, पदाधिकारातु न भवति; तद्धितः - द्विपदिकां ददाति, अत्र द्वित्वसंख्यायुक्तः पदार्थो वीप्स्यत इति स्त्रीत्वैकत्वलक्षणयोर्लिङ्गसंख्ययोरनन्तर्भावात्प्राक् तद्धितोत्पतेः समासे कृते प्राप्तं द्विर्वचनं पदत्वाभावान्न भवति; वाक्यम् - ग्रामेग्रामे पानीयम्, अत्र वाक्यस्यापदत्वाद् द्विर्वचनं न भवति ग्रामे पानीयमिति । किञ्चोतरत्र पदस्येति न वक्तव्यं भवति;'पदस्य पदात्' इत्यस्यैवानुवृतेरिति । नैवं शक्यमिति । अस्याप्ययमभिप्रायः -'पदस्य' इत्युच्यमानेऽपि सप्तपर्णाभ्यामित्यादौ स्वादिषु पूर्वस्य पदत्वाद् द्विर्वचनप्रसङ्गः; तस्मादेवमत्र परिहारो वाच्यः - यद्वीप्सायुक्तम्, न अदः प्रयुज्यते; किं पुनस्तत् ? पर्वणिपर्वणि सप्तपर्णान्यस्येति, यच्च प्रयुज्यते न तद्वीप्सायुक्तम् - सप्तपर्णान्यस्येति पर्णशब्द इति । तद्धिते तु तद्धितेनैवोक्तत्वाद् द्विर्वचनाभावः, स हि'वीप्सायाम्' इत्युच्यते । वाक्यस्यापि द्विर्वचनं न भवति; पदद्विर्वचनेनोक्तत्वाद्वीप्सायाः । तस्मात् समासादिनिवृत्यर्थं तावत्पदाधिकारो न कर्तव्य इति । प्रत्युत क्रियमाणे पदाधिकारेऽव्याप्तिलक्षणो दोष इत्याह - इह हि न स्यादिति । प्रपचतीति । धातूपसर्गसमुदायः क्रियाविशेषवाची । अडादिव्यवस्थार्थं तु धातूपसर्गयोः पृथक् कल्पनम्, ततश्च क्रियाधर्मो नित्यता समुदायस्येति तस्यैव द्विर्वचनम् । इहेत्यादि । द्रुहेस्तृचि विहिते'वा द्रुहमुह' इति घत्वढत्वे प्राप्नुतः, द्विर्वचनं च; तत्र घत्वढत्वयोरसिद्धत्वात्पूर्वं द्विर्वचनं प्राप्नोति । अस्तु, को दोषः ? तत्राह - तत्रेति । पश्चाद्विकल्पे प्रवर्तमाने यदा परत्र ढत्वं तदा पूर्वत्रापि ढत्वमेवेति नियमाभावात् घत्वमपि कदाचिंत् स्यात् । एवं घत्वेऽपि द्रष्टव्यम् - परत्र घत्वं पूर्वत्र ढत्वमिति । एतच्चैकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भवतीति न्यायमनाश्रित्योक्तं द्रष्टव्यम् । अयं च न्यायः'कृञ्चानुप्रयुज्यते लिटि' इत्यत्रैव व्याख्यातः । पूर्वत्रासिद्धीयमिति ।'पूर्वत्रासिद्धम्' इत्यस्मिन्नधिकारे भवं नलोपादिकार्यं पूर्वत्रासिद्धीयम्, तद् द्विर्वचनादन्यत्रासिद्धं भवति । अथ वा - पूर्वस्यां सपादसप्ताध्याय्यमसिद्धं नलोपादि पूर्वत्रासिद्धम्, तत्र भवमसिद्धत्वं पूर्वत्रासिद्धीयम्; तद् द्विर्वचने कर्तव्ये न भवति, ततश्च घत्वे ढत्वे वा प्रवृते तद्यौक्तस्यैव द्विर्वचनमिति नास्ति दोषः । सर्वस्येत्येतदेवेत्यादि । पूर्वं'पूर्वत्रासिद्धीयमद्विर्वचने' इति वचनाश्रयेण द्रोढाद्रोढेअति साधितम्, इदानीम्'सर्वस्य' इत्यनेन साधितमित्येकस्मिन्साध्ये द्वयोर्हेत्वोर्विकल्पः । कथं पुनः'सर्वस्य' इत्यनेन कृतसर्वकार्यप्रतिपतिः ? अर्शाअद्यच्प्रत्ययान्तोऽयं सर्वशब्दः - सर्वं कार्यं यस्मिन्नस्ति तदिदं सर्वम्, तस्य द्वे भवतः । सर्वेषु कार्येषु कृतेषु द्विर्वचनमित्यर्थः ॥