8-1-5 परेः वर्जने सर्वस्य द्वे
index: 8.1.5 sutra: परेर्वर्जने
परि इत्येतस्य वर्जनेऽर्थे द्वे भवतः। परि परि त्रिगर्तेभ्यो वृष्टो देवः। परि परि सौवीरेभ्यः। परि परि सर्वसेनेभ्यः। वर्जनें परिहारः। वर्जने इति किम्? ओदनं परिषिञ्चति। परेर्वर्जनेऽसमासे वेति वक्तव्यम्। परि परि त्रिगर्तेभ्यो वृष्टो देवः, परि त्रिगर्तेभ्यः। समासे तु तेन एव उक्तत्वाद् वर्जनस्य न एव भवति, परित्रिगर्तं वृष्टो देवः इति।
index: 8.1.5 sutra: परेर्वर्जने
परि परि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहृत्येत्यर्थः ॥<!परेर्वर्जने वावचनम् !> (वार्तिकम्) ॥ परि वङ्गेभ्यः ।
index: 8.1.5 sutra: परेर्वर्जने
परेर्वर्जने - परेर्वर्जने । वर्जने वर्तमानस्य परीत्यस्य द्वे स्त इत्यर्थः । परि परि वङ्गेभ्यो वृष्ट इति । 'पर्जन्य' इति शेषः । 'अपपरी वर्जने' इति परिः कर्मप्रवचनीयः ।पञ्चम्यपाङ्परिभि॑रिति पञ्चमी । 'परि हरेः संसारः' इत्यत्र तुपरेरसमासे इति वक्तव्य॑मिति वार्तिकान्नद्विर्वचनम् ।
index: 8.1.5 sutra: परेर्वर्जने
परिपरि त्रिगर्तेभ्य इति । ठपपरी वर्जनेऽ इति कर्मप्रवचनीय संज्ञा,'पञ्चम्यपाङ्परिभिः' इति पञ्चमी । परिषिञ्चतीति । परिः सर्वतो भावे, ठुपसार्गात्सुनोतिऽ इत्यादिना षत्वम् । परेर्वर्जन इत्यादि ।'परेर्वर्जने' इत्यत्रा ठसम सेऽ इति वक्तव्यम्,'वा' इति च वक्तव्यम्, तेनासमास एव भवति, तत्रापि विसप्लेन । अन्यत्र तु नैव भवति, तदाह - समासे त्विति । तेनौवोक्तत्वादिति । ननु वाक्ये तावद्वर्जनं परेरेव द्योत्यम्, समासेऽपि परिः सन्निहितः, तत्किं समासस्य वर्जने शक्तिः कल्प्यते ? तत्राहुः -'जहत्स्वार्था वृत्तिः' इति पक्षे समास एव वर्ज्यमानोपसर्जने वर्जने वर्तते, अवयवौ त्वनर्थकाविति । यदा तु ठजहत्स्वार्था वृत्तिःऽ इति पक्षः, तदा वाक्ये केवले वर्जने परिर्वर्तत इति तत्रैव द्विर्वचनं भवति । समासे तु वर्ज्यमानार्थास्कन्दानान्न द्व्यर्थः परिः केवले वर्जने वर्तत इति द्विर्वचनाभावः ॥