ई च गणः

7-4-97 ई च गणः अभ्यासस्य अनग्लोपे अत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गणेः अभ्यासस्य ईकारादेशो भवति चङ्परे णौ परतः, चकारादत् च। अजीगणत्, अजगणत्। इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य चतुर्थः पादः। अष्टमोऽध्यायः प्रथमः पादः।

Siddhanta Kaumudi

Up

गणेरभ्यासस्य ई स्याच्चाच्चङ्परे णौ । अजीगणत् । अजगणत् ।{$ {!1855 शठ!} {!1856 श्वठ!} सम्यगवभाषणे$} ।{$ {!1857 पठ!} {!1858 वठ!} ग्रन्थे$} ।{$ {!1859 रह!} त्यागे$} । अररहत् ।{$ {!1860 स्तन!} {!1861 गदी!} देवशब्दे$} । स्तनयति । गदयति अजगदत् ।{$ {!1862 पत!} गतौ वा$} । वा णिजन्तः । वाऽदन्त इत्येके । आद्ये । पतयति । पतति । पतांचकार । अपतीत् । द्वितीये । पातयति । अपीपतत् ।{$ {!1863 पष!} अनुपसर्गात्$} । गतावित्येव । पषयति ।{$ {!1864 स्वर!} आक्षेपे$} । स्वरयति ।{$ {!1865 रच!} प्रतियत्ने$} । रचयति ।{$ {!1866 कल!} गतौ संख्याने च$} ।{$ {!1867 चह!} परिकल्कने$} । परिकल्कनं दम्भः शाठ्यं च ।{$ {!1868 मह!} पूजायाम्$} । महयति । महतीति शपि गतम् ।{$ {!1869 सार!} {!1870 कृप!} {!1871 श्रथ!} दौर्बल्ये$} । सारयति । कृपयति । श्रथयति ।{$ {!1872 स्पृह!} ईप्सायाम्$} ।{$ {!1873 भाम!} क्रोधे$} । अबभामत् ।{$ {!1874 सूच!} पैशून्ये$} ॥ सूचयति । अषोपदेशत्वान्न षः । असूसुचत् ।{$ {!1875 खेट!} भक्षणे$} ॥ तृतीयान्त इत्येके । खोट इत्यन्ये ।{$ {!1876 क्षोट!} क्षये$} ।{$ {!1877 गोम!} उपलेपने$} । अजुगोमत् ।{$ {!1878 कुमार!} क्रीडायाम्$} । अचुकुमारत् ।{$ {!1879 शील!} उपधारणे$} । उपधारणमभ्यासः ।{$ {!1880 साम!} सान्त्वप्रयोगे$} । अससामत् । साम सान्त्वने इत्यतीतस्य तु असीषमत् ।{$ {!1881 वेल!} कालोपदेशे$} । वेलयति । काल इति पृथग्धातुरित्येके । कालयति ।{$ {!1882 पल्पूल!} लवनपवनयोः$} ।{$ {!1883 वात!} सुखसेवनयोः$} । वातयति । अववातत् ।{$ {!1884 गवेष!} मार्गणे$} । अजगवेषत् ।{$ {!1885 वास!} उपसेवायाम् $}।{$ {!1886 निवास!} आच्छादने$} । अनिनिवासत् ।{$ {!1887 भाज!} पृथक्कर्मणि$} ।{$ {!1888 सभाज!} प्रीतिदर्शनयोः$} । प्रीतिसेवनयोरित्यन्ये । सभाजयति ।{$ {!1889 ऊन!} परिहाणे$} । ऊनयति । ओः पुयण्जि <{SK2577}> इति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजग्रहोलिङ्गं णिच्यच आदेशो न स्याद्द्वित्वे कार्ये इति । यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्योऽच् प्रक्रियायां परिनिष्ठिते रूपे वाऽवर्णो लभ्यते तत्रैवायं निषेधः । ज्ञापकस्य सजातीयापेक्षत्वात् । तेनाचिकीर्तदिति सिद्धम् । प्रकृते तु नशब्दस्य द्वित्वं तत उत्तरखण्डेऽल्लोपः । औननत् । माभवानूननत् ।{$ {!1890 ध्वन!} शब्दे$} । अदध्वनत् ।{$ {!1891 कूट!} परितापे$} । परिदाहे इत्यन्ये ।{$ {!1892 सङ्केत!} {!1893 ग्राम!} {!1894 कुण!} {!1895 गुण!} चामन्त्रणे$} । चात्कूटोऽपि । कूटयति । सङ्केतयति । ग्रामयति । कुणयति । गुणयति । पाठान्तरम् - केत श्रावणे निमन्त्रणे च । केतयति । अभिकेतयति । कुण गुण चामन्त्रणे । चकारात्केतेति ।{$ {!1896 कूण!} सङ्कोचने इति$} ।{$ {!1897 स्तेन!} चौर्ये$} ॥ अतिस्तेनत् ॥ आ गर्वादात्मनेपदिनः ॥{$ {!1898 पद!} गतौ$} । पदयते । अपपदत ।{$ {!1899 गृह!} ग्रहणे$} । गृहयते ।{$ {!1900 मृग!} अन्वेषणे$} । मृगयते । मृग्यतीति कण्ड्वादिः ।{$ {!1901 कुह!} विस्मापने$} ।{$ {!1902 शूर!} {!1903 वीर!} विक्रान्तौ$} ।{$ {!1904 स्थूल!} परिबृंहणे$} । स्थूलयते । अतुस्थूलत ।{$ {!1905 अर्थ!} उपायाच्ञायाम्$} । अर्थयते । आर्तथत ।{$ {!1906 सत्र!} सन्तानक्रियायाम्$} । अससत्रत । अनेकाच्त्वान्न षोपदेशः । सिसत्रयिषते ।{$ {!1907 गर्व!} माने$} ॥ गर्वयते । अदन्तत्वसामर्थ्याण्णिज्विकल्पः । धातेरन्त उदात्तो लिट्याम् च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः ॥ {$ {!1908 सूत्र!} वेष्टने$} । सूत्रयति । असुसूत्रत् ।{$ {!1909 मूत्र!} प्रस्रवणे$} । मूत्रयति । मूत्रति ।{$ {!1910 रूक्ष!} पारुष्ये$} ।{$ {!1911 पार!} {!1912 तीर!} कर्मसमाप्तौ$} । अपपारत् । अतितीरत् ।{$ {!1913 पुट!} संसर्गे$} । पुटयति ।{$ {!1914 धेक!} दर्शन इत्येके$} । अदिधेकत् ।{$ {!1915 कत्र!} शैथिल्ये$} । कत्रयति । कत्रति । कर्तेत्यप्येके । कर्तयति । कर्तति ॥ (गणसूत्रम् -) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च ॥ प्रातिपदिकाद्धात्वर्थे णिच् स्यादिष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप-विन्मतुब्लोप-यणादिलोपप्रस्थ-स्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां टिलोपः । अपीपटत् । णौ चङि - <{SK2314}> इत्यत्र भाष्ये तु वृद्धेर्लोपो बलीयानिति स्थितम् । अपपटत् । (गणसूत्रम् -) तत्करोति तदाचष्टे ॥ पूर्वस्य प्रपञ्चः । करोत्याचष्ट इति धात्वर्थमात्रं णिजर्थः ॥ लडर्थस्त्वविक्षितः ॥ (गणसूत्रम् -) तेनातिक्रामति । अश्वेनातिक्रामति अश्वयति । हस्तिनातिक्रामति हस्तयति ॥ (गणसूत्रम् -) धातुरूपं च ॥ णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते ॥ चशब्दोऽनुक्तसमुच्चयार्थः । तथा च वार्तिकम् ।<!आख्यानात्कृतसतदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति !> (वार्तिकम्) ॥ कंसवधामाचष्टे कंसं घातयति । इह कंसं हन् इ इति स्थिते ॥

Laghu Siddhanta Kaumudi

Up

गणयतेरभ्यासस्य ई स्याच्छङ्परे णौ चादत् । अजीगणत्, अजगणत् ॥ इति चुरादयः ॥ १० ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ई च गणः>> - ई च गणः । 'सन्वल्लघुनी' त्यतश्चङ्परे इति,अत्र लोपे॑त्यतोऽभ्यासस्येति चानुवर्तते । तदाह - गणेरभ्यासस्येति ।अत्स्मृदृत्वरे॑ति पूर्वसूत्रादद्ग्रहणं चकारादनुकृष्यते । तदाह — चाददिति । स्तनगदी देवशब्दे इति । पर्जन्यगर्जने इत्यर्थः । स्तनश्च गदिश्चेति द्वन्द्वः । गदीति इका निर्देशः । गदेत्यकारान्तदिकि अल्लोपे गदीति निर्देशः । एवं च प्राकरणिकमदन्तत्वं न व्याहन्यते । पत गतौ वेति । गतावर्थे पतधातुर्णिचं वा लभत इत्यर्थः । तदाह — वा णिजन्त इति । आधृषीयत्वाऽभावाद्विकल्पविधिः । यद्वा वाशब्दस्य अदन्तत्व एवाऽन्वयः । णिच् तु नित्य एव । तदाह — वा अदन्त इत्येके इति । प्रथमपक्षे तु अदन्तत्वमेव । तदाह — आद्ये पतयतीति । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पतांचकारेति । णिजभावेऽप्यदन्तत्वात्कास्यनेकाजित्यामिति भावः । चङि — अपपतत् । अग्लोपित्वान्न दीर्घसन्वत्त्वे । द्वितीये पातयतीति । तकारादकारस्युच्चारणार्थत्वादुपदावृद्धिरिति बावः । अपीपतदिति । अग्लोपित्वाऽभावाद्दीर्घसन्वत्त्वे इति भावः । कृपयतीति । अदन्तस्य त्वस्य धात्वन्तरत्वात् 'कृपो रो लः' इति न भवति । स्पृह ईप्सायाम् । आप्तुमिच्छा- ईप्सा । अबभामदिति । चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । सूच पैशुन्ये । अषोपदेशत्वादिति । अनेकाच्त्वादिति भावः । खेट भक्षणे । तृतीयान्त इति । टवर्गतृतीयान्त इत्यर्थः । साम सान्त्वप्रयोगे । सान्त्वप्रयोगः = अकटुभाषणम् । अससामदिति । अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । ननु 'साम सान्त्वने' इति कथादेः प्राक् चुरादौ पाठो व्यर्थः, अनेनैव सिद्धेरित्यत आह — सामसान्त्वने इत्यतीतस्य तु असीषमदिति । पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया उपधाह्रस्वे, दीर्घसन्वत्त्वे चेत्यर्थः । यद्यपिसाम सान्त्वप्रयोगे॑ इत्येव प्राक् चुरादौ पठितम्,ततापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्तिरिति भावः । गवेष मार्गणम् - अन्वेषणम् । चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । तदाह - अजगवेषदिति । निवास आच्छादने । अनिनिवासत् । ऊन परिहाणे । परिहाणम् - न्यूनीभावः । ऊनयतीति । णावतो लोप इति भावः । ननु लुङि चङि ऊन इ अ त् इति स्थिते णिलोपेचङी॑त्यजादेर्द्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाऽभावादभ्यासे इत्त्वदीर्घयोरभावे आटो वृद्धौ औननदिति रूपं वक्ष्यति, तदनुपपन्नं, द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्वे औनिनदित्येवमभ्यासे इकारश्रवणप्रसङ्गात् । न च द्वित्वे कार्ये अतो लोपस्यद्विर्वचनेऽची॑ति निषेधः शङ्क्यः, अल्लोपपययोरपरयो॑रित्येव वक्तव्ये 'पु' इति पवर्गस्य,य॑णिति प्रत्याहारस्य , जकारस्य च ग्रहणं लिङ्मित्यन्वयः । कुत्र लिङ्गमित्यत आह — णिचीत्यादि । द्वित्वे कार्ये णिज्निमित्तकोऽच आदेशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वयः ।तथाहि - 'ओः पुयण्ज्यपरे' इति सूत्रम् ।सनि परे यदङ्गं तदवयवाऽभ्यासोवर्णस्य इकारः स्यादवर्णपरकेषु पवर्गयण्जकारेषु परत॑ इति तद । 'पुङ्' पिपवायिषति,भू॑बिभावयिषति,यु॑- यियावयिषति,रु॑- रिरावयिषति,लूञ्- लिलावयिषति,जु॑- जिजवयिषतीत्युदाहरणानि । अत्र द्वित्वं प्रत्यनिमित्ते णिचिद्विर्वचनेऽची॑ति निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः कृतयोरभ्यासेष्वाकारस्य ह्रस्वे सति 'सन्यतः' इत्येव इत्त्वसिद्धेः पवर्गयण्प्रत्याहारजकारग्रहणं व्यर्थम् । पकारयकारग्रहणं तु न व्यर्थं, पिपावयिषति यियावयिषतीत्यत्र उक्तरीत्या 'सन्यतः' इति इत्त्वसिद्धावपि पिपविषते यियविषतीत्यत्र पूङ्धातोर्युधातोश्च अण्यन्तात्सनि अब्यासे इत्त्वार्थं तदावश्यकत्वात् । तत्र हि — इको झ॑ल#इति सनः कित्त्वात् 'श्र्युकः किति' इति प्राप्तमिण्निषेधं बाधित्वा,स्मिपूङ्रञ्ज्वशां सनी॑ति,सनीवन्तद्र्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसना॑मिति च सूत्राभ्यामिटि कृते इडादेः सनो द्वित्वनिमित्तत्वेन इटोऽपि द्वित्वनिमित्ततयाद्विर्वचनेऽची॑ति गुणावाऽदेशयोर्निषेधे सति 'पू' 'यु' इत्यनयोर्द्वित्वे अभ्यासे अकाराऽभावेन 'सन्यतः' इत्यस्याऽप्रवृत्त्या तत् इत्त्वार्थंपययो॑रित्यावश्यकम् । वर्गप्रत्याहारजकारग्रहणंतु द्वित्वे कार्ये णावच आदेशो ने॑त्यनाश्रयणे व्यर्थमेव । तदाश्रयणे तु बिभावयिषतीत्यादिषु णिचि लुपते सतिचङी॑ति द्वित्वे कार्ये प्रत्ययलक्षममाश्रित्य णिचि गुणाऽवादेशयोः प्रतिषेधे सति उवर्णान्तानां द्वित्व अभ्यासे अकाराऽभावेन 'सन्यतः' इत्यस्याऽप्रवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत् । अतो द्वित्वे कार्ये णावच आदेशो नेति विज्ञायत इत्यर्थः । ननु 'कृत संशब्दने' अस्मात् णौउपधायाश्चे॑ति दीर्घे अचिकीर्तदिति रूपमिष्यते । तन्न युज्यते । द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कृदित्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेषे, कस्य चुत्वे, उत्तरखण्डे, ऋत इत्त्वे, रपरत्वे, उपधादीर्घे, अचकीर्तदित्यापत्तेरित्यत आह — यत्र द्विरुक्तावित्यादि । यत्र धातौ चङि द्विर्वचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वित्वे कार्ये णावच आदेशो नेत्ययं निषेध इत्यन्वयः । यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याऽचोभावादाद्योऽजिति व्यर्थमेव, तथापि स्पष्टार्थं तदित्याहुः । नन्वभ्यासोत्तरखण्डस्याद्योऽजवर्णो लभ्यते इत्यत्र किमवर्णो द्वित्वप्रवृत्तिवेलायां विवक्षितः, उत परिनिष्ठिते रूपे विवक्षितः , नाद्यः, क्षुधातोण्र्यन्तात्सनि चुक्षावयिषतीत्यत्र 'क्षु' इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाऽभावेन वृद्ध्यावादेशयोर्निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः क्षावित्यस्य द्वित्वे चिक्षावयिषतीत्यापत्तेः । न द्वितीयः, ऊन इ अ त् इति स्थिते सतिने॑त्यस्य द्वित्वेऽभ्यासोत्तरखण्डेऽल्लोपे सत्यवर्णाऽभावेन णावल्लोपस्य निषेधाऽप्रवृत्या द्वित्वात् प्रागेव परत्वादतो लोपे सति 'नी' त्यस्य द्वित्वे औननदित्यापत्तेरित्यत आह — प्रक्रियायां परिनिष्ठिते रूपे वेति । न त्वमुकत्रैवेत्याग्रह इति भावः । सजातीये पुयण्जामभ्यासोत्तरखण्डेऽवर्णपरत्वनियमादिति भावः । सिद्धमिति । प्रक्रियायां परिनिष्ठिते वा उत्तरखण्डे अवर्णाऽभावादृत इत्त्वस्य न निषेध इति भावः । एवं चचुक्षावयिषती॑त्यत्र 'क्षु' इत्यस्य द्वित्वे प्रक्रियादशायामभ्यासोत्तरखण्डेऽवर्णाऽभावेऽपि परिनिष्ठिते रूपे तत्सत्त्वाण्णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्ये निषेधः । औननदित्यत्रापि णौ भवत्येवाऽल्लोपस्य निषेध इत्याह — प्रकृते त्विति । औननदित्यत्रेत्यर्थः । नशब्दस्येति । अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्रक्रियादशायामुत्तरखण्डेऽवर्णलाभादल्लोपस्य निषेधे सति नशब्दस्यैव द्वित्वं, न तु निशब्दस्येति भावः । तत इति । नशब्दस्य द्वित्वाऽनन्तरमुत्तरखण्डे अल्लोप इति भावः । अत्र नशब्दद्वित्वार्तमेव ऊनधातोरदन्तत्वं स्थितम् । फलान्तरं सूचयन्नाह — मा भवानूननदिति । अग्लोपित्वान्नोपधाह्रस्व इति भावः । पाठान्तरमिति । 'केत श्रावणे' इत्यादि ज्ञेयमित्यर्थः । चकारात्केतेति । 'समुच्चीयते' इतिशेषः । सङ्कोचने इतीति । इतिशब्दः पाठान्तरसमाप्तौ । स्तेन चौर्ये । अनेकाच्त्वान्न षोपदेशोऽयमिति मत्वा आह — अतिस्तेनदिति । गृह ग्रहणे । ऋदुपधोऽयम् । गृहयते इति । अल्ल#ओपस्य स्थानिवत्त्वान्न गुण इति भावः । लुङि - अजगृहत । अग्लोपित्वान्न सन्वत्तवम् । मृग अन्वेषणे । मृगयते इति । इहाऽप्यल्लोपस्य स्थानिवत्त्वान्न गुणः । 'मार्ग् अन्वेषणे' इत्याधृषीयस्य तु मार्गयति,मार्गतीति च गतम् । अर्थ उपयाच्ञायाम् । अर्थयते इति । अर्थ इ इति स्थिते अतो लोपः, न तुअचो ञ्णिती॑ति वृद्धि,वृद्धेर्लोपो बलीया॑ निति न्यायात् ।अर्थवेदयो॑रित्यापुक्तु न, तत्र प्रातिपदिकस्य ग्रहणात् । गर्व माने । अभिमाने इत्यर्थः । ननु कथादावस्य पाठो व्यर्थः, अदन्तत्वे फलाऽभावात् । नच सन्वत्त्वनिवृत्तये अग्लोपित्वाय अदन्तत्वमिति शङ्क्यं, लघुपरकत्वाऽभावादेव तदप्रसक्तेः । नाऽप्यल्लोपस्य स्थानिवद्भावादुपधावृद्धिनिवृत्त्यर्थमदन्तत्वमिति, शङ्क्यं, गकारादकारस्यानुपधात्वादेव तदप्रसक्तेरित्यत आह- - अद्नतत्वसामर्थ्याण्णिज्विकल्प इति । ननु 'गर्वते' इत्यत्र णिजभावेऽप्यदन्तत्वं निष्फलमिति कतं तस्य विकल्पज्ञापकतेत्यत आह — धातोरन्त उदात्त इति । तेन 'गर्वते' इत्यत्र वकारादकारौदात्तः फलति । अदन्तत्वाऽभावे तु गकारादकार उदात्तः स्यादिति भावः । लिटआम् चेति । 'गर्वाचक्रे' इतय्त्र 'कास्यनेकाचः' इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थः । अन्यथा अनेकाच्त्वाऽभावादाम्न स्यादिति भावः । एवमग्रेऽपीति । 'मूत्र प्ररुआवणे' इत्यादावित्यर्थः । इत्यागवर्वीयाः । सूत्र वेष्टने । अनेकाच्त्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्पः । कत्र शैथिल्ये । कर्त इत्यपीति । अदन्तत्वसामर्थ्यादस्य णिज्विकल्प इति मत्वाह — कर्तयति कर्ततीति । प्रातिपदिकाद्धात्वर्थे । चुरादिगमसूत्रमिदम् ।इष्ठ॑वदिति सप्तम्यन्ताद्वतिः । तेन भुवमाचष्टे भावयीत्यत्रइष्ठस्य यिट् चे॑ति यिडागमो न भवति । तदाह — इष्ठे यथेति । अत्रधात्वर्थे इत्यनेन करणमाख्यानं दर्शनं वचनं श्रवणमित्यादि गृह्रते । पुंवद्भावेति । अतिशयेन पट्वी पटिष्ठेत्यत्र 'भस्याऽढे' इति पुंवत्त्वम् । 'द्रढिष्ठ' इत्यत्रर ऋतो हलादेर्लघो॑रिति रभावः । अतिशयेन साधुः साधिष्ठ इत्यत्र टिलोपः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्रविन्मतोर्लु॑गिति विनो लुक् । अतिशयेन गोमान् गविष्ठ इत्यत्र मतुपो लुक्ऽतिशयेन स्थूलः स्थविष्ठ इत्यादौस्थूलदूरयुवे॑त्यादिना यणादिलोपः, पूर्वस्य च गुणः । अतिशयेन प्रियः प्रेष्ठ इत्यादौप्रियस्थिरे॑त्यादिना प्रस्थाद्यादेशः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्र भत्वान्न कुत्वम् । एते इष्ठे इव णावपि परतः स्युरित्यर्थः । पटयतीति । पटुमाचष्टे इत्याद्यर्थे णिच् । इष्ठवत्त्वाट्टेरिति टिलोप इति भावः । ननु उकारस्य टेर्लोपे सति अग्लोपित्वात्सन्वत्त्वं न स्यादित्यत आह - परत्वादद्वृद्धौ सत्यां टिलोप इति ।अचो ञ्णितीत॑ति उकारस्य वृद्धौ कृतायामेकारस्य टेर्लोपः । अकृतायां तु वृद्धावुकारस्य टेर्लोपः । ततश्चशब्दान्तरस्य प्राप्नुवन्विधिरनित्यः॑ इति न्यायेन टिलोपोऽनित्यः । वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साऽप्यनित्या । एवंच वृद्धिटोलोपयोरुभयोर्मध्ये परत्वादुकारस्य वृद्धिरौकारः । तस्याऽवादेशात्प्रागेव परत्वाद्वार्णादाङ्गस्य बलीयस्त्वाच्च औकारस्य टेर्लोपैत्यर्थः । एवं च अनग्लोपित्वात्सन्वत्त्वमिति मत्वाऽऽह - अपीपटदिति । एतच्चमुण्डमिश्रे॑ति सूत्रे भाष्यकैयटयोः स्पष्टम् । स्थितमिति । तथा च वृद्धेः प्रागुकारस्य लोपेऽग्लोपित्वान्न सन्वत्त्वमित्यर्थः । भाष्ये उभयथा दर्शनाद्रूपद्वयमपि साध्विति बोध्यम् । शब्देन्दुशेखरे तु — वृद्धेर्लोपो बलीया॑नितिणौ चङी॑ति सूत्रभाष्यमेव प्रमाणं ।मुण्डमिश्रे॑ति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपञ्चितम् । अत्र पुंवद्भावादिकमुदाह्यियते — एनीमाचष्टे एतयति । पुंवद्भावान्ङीब्नकारयोर्निवृत्तिः । दृढमाचष्टे द्रढयति । 'र ऋतः' इति रभावः । रुआग्विणमाचष्टे रुआजयति ।विन्मतो॑रिति विनो लुक् । गोमन्तमाचष्टे गवयति । मतुपो लुक् । अङ्गवृत्तपरिभाषया न वृद्धिः । स्थूलमाचष्टे स्थवयतीत्यादिषु यणादिलोपः । प्रियमाचष्टे प्रापयति, स्थिरमाचष्टे स्थापयतीत्यादिषु प्रस्थस्फाद्यादेशाः । अत्र वृद्धिर्भवत्येव,द्वयो॑रिति निर्देशेन अङ्गवृत्तपरिभाषया अनित्यत्वाश्रयणात् । रुआग्विणमाचष्टे रुआजयति । सुबन्ताद्विहितस्य विनो लुक्यन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तं कुत्वं भत्वान्न भवति । तत्करोति तदाचष्टे । इदमपि चुरादिगणसूत्रम् । प्रातिपदिकादित्यनुवर्तते । तत्करोति, तदाचष्टे इति चार्थे प्रातिपदिकाण्णिच् स्यादित्यर्थः । आचारक्विबिव प्रातिपदिकादेवेदम् । ननुप्रातिपदिकाद्धात्वर्थे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — पूर्वस्यैव प्रपञ्चेति । ननु करोति आचष्टे इति वर्तमानानिर्देशादकरोदित्याद्यर्थेषु न स्यादित्यत आह — करोत्यचष्टे इत्यादि । लडर्थ इत्युपलक्षणम् । तेन भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव । तेनातिक्रामति । इदमपि गणसूत्रम् ।प्रातिपदिकाद्धात्वर्थे॑ इत्यस्यैव प्रपञ्चः । वाचाऽतिक्रामति वाचयति इत्यत्र कुत्वं तु न शङ्क्यम्, असुबन्तादेव प्रातिपदिकात्प्रत्ययोत्पत्तेः । धातुरूपं चेति । इदमपि गणसूत्रम् । णिच्प्रकृतिरिति, प्रतिपद्यते #इति चाध्याह्मत्य वयाचष्टे — णिच्प्रकृतिर्धातुरूपं प्रतिपद्यत इति । ननु प्रातिपदिकाद्धात्वर्थे णिज् भवति, णिच्प्रकृतिर्धातुरूपं च प्रतिपद्यते इति प्रतीयमानार्थश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात् । भुक्तशब्दस्य भुजदातुरादेशः स्यादित्यत आह — वशब्दोऽनुक्तसमुच्चयार्थ इति । किमनुक्तं समुच्चीयते इत्यत आह — तथा च वार्तिकमिति । आख्यानात्कृत इति.॒हेतुमति चे॑ति सूत्रे इदं वार्तिकं स्थितम् । आख्यानं — वृत्तकथाप्रबन्धः । तद्वाचिनः कृदन्तात्कंसवधादिशब्दात्तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतः लुक्, तस्यैव कृतो या प्रकृतिर्हनादिधातुरूपा, तस्याः प्रत्यापत्तिः = आदेशादिविकारपरित्यागेन स्वरूपेणाऽवस्थानं भवतीत्यर्थः ।प्रकृतिवच्च कारकटमित्यशस्तु मूल एव व्याख्यास्यते । कंसवधमाचष्टे कंसं घातयतीत्युदाहरणम् । हननं वधः । 'हनश्च वधःर' इति भावे हनधातोरप्प्रत्ययः प्रकृतेर्वधादेशश्च । कंसस्य वधः कंसवधः । तदन्वाख्यानपरवाक्यसन्दर्भो विवक्ष#इतः । तमाचष्टे इत्यर्थे णिच् । अप्प्रत्ययस्य कृतो लुक् , प्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः । तथा च फलितं दर्शयति — इह कंसं हन् इ इति स्थिते इति ।

Padamanjari

Up

'गण संख्याने' चुरादावदन्तः, तस्यातो लोपेनानग्लोप इति प्रतिषेधाद्वचनम् । कृतयोर्हलादिशेपदीर्घत्वयोरीत्वमत्वं च विधीयते ।'लोपः पिबतेः' इत्येतदत्रैव पठितव्यम् - पिबतेरालोपश्चेति, चकारात् ई चाभ्यासस्य ? सत्यम्; विभाषेत्यस्यानुवृत्तिः शङ्क्येत ॥