8-1-7 उपर्यध्यधसः सामीप्ये सर्वस्य द्वे
index: 8.1.7 sutra: उपर्यध्यधसः सामीप्ये
उपरि अधि अधसित्येतेषां द्वे भवतः सामीप्ये विवक्षिते। सामीप्यं प्रत्यासत्तिः कालकृता देशकृता च। उपर्युपरि दुःखम्। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधोऽधो नगरम्। सामीप्ये इति किम्? उपरि चन्द्रमाः। इह कस्मान् न भवति, उपरि शिरसो घटं धारयति? औत्तराधर्यम् एव विवक्षितं न सामीप्यम् इति द्विर्वचनं न भवति।
index: 8.1.7 sutra: उपर्यध्यधसः सामीप्ये
उपर्युपरि ग्रामम् । ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः । अध्यधि सुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् । लोकस्याधस्तात्समीपे देशे इत्यर्थः ।
index: 8.1.7 sutra: उपर्यध्यधसः सामीप्ये
उपर्यध्यधसः सामीप्ये - उपर्यध्यधसः । उपरि, अधि, अधः एतेषां द्वे स्तः सामीप्ये गम्ये इत्यर्थः । सामीप्यं च उपर्युपरि ग्राममित्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तुकालत इति ज्ञेयम् ।
index: 8.1.7 sutra: उपर्यध्यधसः सामीप्ये
उपर्यादीनां योऽर्थस्तस्य सामीप्यद्योतनाय द्विर्वचनम् । सामीप्यमुप्रत्यासतिः, तच्च देशकृतं कालकृतं वा । उपर्युपरिदुः खमिति । कालकृतस्योदाहरणम् । दुः खस्य सामीप्येनोपरिष्टादित्यर्थः । ठुभसर्वतसोःऽ इत्युपसंख्यानेन द्वितीया । उपर्युपरि ग्रामिति । ग्रामस्य सामीप्येनोपरिष्टाद्देश इत्यर्थः । अध्यधि ग्राममिति । अधिरुपरिभावे, यथा -'समिधं स्रुचं चाध्यधि गार्हपत्यं हृत्वा' इति । अधोऽधो ग्राममिति । ग्रामस्य सामीप्येनाधस्ताद् देश इत्यर्थः । यथा'नवानधो' धो बृहतः पयोधरान्ऽ इति । उपर्युपरि पश्यन्तः सर्व एव दरिद्रति । अधोऽधो दर्शने कस्य महिमा नोपजायते ॥ इति तु वीप्सायां द्विर्वचनम् । उपरि चन्द्रमा इति । अत्र भूगतमपेक्ष्योपरिभावस्य सामीप्यं नास्ति । उपरि शिरस इत्यादि । न हि वस्तुसतैव शब्दत्युत्पतेः प्रधानं कारणम्, किं तर्हि ? विवक्षा, सा चेह नास्ति । शिरस उपरिष्टाद् घट्ंअ धारयति नाधस्तादिति ह्यत्र विवक्षितम् । सामीप्यं तु वस्तुतः सम्भवति ॥