7-4-28 रिङ् शयग्लिङ्क्षु यि अकृत्सार्वधातुकयोः ऋतः
ऋतः अङ्गस्य असार्वधातुके शयग्लिङ्क्षु रिङ्
'श' प्रत्यये परे, 'यक्' प्रत्यये परे, असार्वधातुके लिङ्-लकारे परे च ऋकारान्त-धातोः रिङ्-आदेशः भवति ।
A ऋकारान्त-धातु get a रिङ्-आदेश in presence of 'श' प्रत्यय, यक्-प्रत्यय and आशीर्लिङ् लकार.
ऋकारान्तस्य अङ्गस्य शयकित्येतयोः लिङि च यकारादौ असार्वधातुके परतो रिङित्ययमादेशो भवति। श आद्रियते। आध्रियते। यक् क्रियते। ह्रियते। लिङ् क्रियात्। ह्रियात्। रिङ्वचनं दीर्घनिवृत्त्यर्थम्। असार्वधातुके इत्येव, बिभृयात्। यि इत्येव, कृषीष्ट। हृषीष्ट।
शे यकि यादावार्धाधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङ्विधिसामर्थ्याद्दीर्घो न । भ्रियात् ॥
॥ अथ उभयपदिनः ॥ {$ {! 1 श्रिञ् !} सेवायाम् $} (धातुपाठे <{01.1044}>) ॥ श्रयति, श्रयते। शिश्राय, शिश्रिये। श्रयितासि, श्रयितासे। श्रयिष्यति, श्रयिष्यते। श्रयतु, श्रयताम्। अश्रयत्, अश्रयत। श्रयेत्, श्रयेत। श्रीयात्, श्रयिषीष्ट। चङ्। अशिश्रियत्, अशिश्रियत। अश्रयिष्यत्, अश्रयिष्यत॥ {$ {! 2 भृञ् !} भरणे $} (धातुपाठे <{01.1045}>) ॥ भरति, भरते। बभार। बभ्रतुः। बभ्रुः। बभर्थ। बभृव। बभृम। बभ्रे। बभृषे। भर्तासि, भर्तासे। भरिष्यति, भरिष्यते। भरतु, भरताम्। अभरत्, अभरत। भरेत्, भरेत॥ <<रिङ् शयग्लिङ्क्षु>> । शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात्। रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न। भ्रियात्॥
अनेन सूत्रेण ऋकारान्त-धातोः तिसृषु स्थितिषु 'रि' इति आदेशः दीयते । यद्यपि अयमनेकाल् आदेशः, तथापि अयम् ङित्-आदेशः अस्ति, अतः <<ङिच्च>> 1.1.53 इत्यनेन अयं स्थानिनः अन्तिम-वर्णस्य स्थाने एव भवति । अनेन सूत्रेण अयमादेशः कासु स्थितिषु विधीयते? क्रमेण पश्यामः । 1) षष्ठगणस्य 'श' इति विकरणप्रत्यये परे । यथा - आ + दृङ (आदरे) इति तुदादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - आ + दृ + लट् → आ + दृ + त [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायामात्मनेपदस्य 'त' प्रत्ययः] → आ + दृ + श + त [<<तुदादिभ्यः शः>> 3.1.77 इति विकरणप्रत्ययः 'श'] → आ + द्रि + अ + त [<<रिङ् शयग्लिङ्क्षु>> 7.4.28 इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।] → आ + द्र् इयङ् + अ + त [<<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इति इयङ्-आदेशः] → आ + द्रिय् + अ + ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारादेशः] → आद्रियते । 2) भावकर्मवाच्ययोः यक्-प्रत्यये परे । यथा - डुकृञ् (करणे) अस्य कर्मणि लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - कृ + लट् → कृ + त [<<भावकर्मणोः>> 1.3.13 इति कर्मणिप्रयोगस्य विवक्षायामात्मनेपदम् । <<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायामात्मनेपदस्य 'त' प्रत्ययः ।] → कृ + य + त [<<सार्वधातुके यक्>> 3.1.67 इति यक्-प्रत्ययः] → क्रि य त [<<रिङ् शयग्लिङ्क्षु>> 7.4.28 इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।] → क्रियते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारादेशः] 3) आशीर्लिङ्-लकारस्य प्रत्यये परे । यथा - डुकृञ् (करणे) अस्य आशीर्लिङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - कृ + लिङ् → कृ + तिप् [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः ।] → कृ + यासुट् + ति [<<किदाशिषि>> 3.4.104 इत्यनेन यासुट्-आगमः।] → कृ +यास् + ति [इत्संज्ञालोपः] → क्रि यास् ति [<<रिङ् शयग्लिङ्क्षु>> 7.4.28 इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।] → क्रियास् त् [<<इतश्च>> 3.4.100 इत्यनेन ङित्-लकारे परे प्रत्ययस्य इकारस्य लोपः।] → क्रियात् [<<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इति सकारलोपः] ज्ञातव्यम् - अस्मिन् सूत्रे अनुवर्तितः 'असार्वधातुके' अयं शब्दः केवलं लिङ्-इत्यस्यैव विशेषणरूपेण आगच्छति, यतः शप्रत्ययः यक्-प्रत्ययः च केवलं सार्वधातुकप्रक्रियायाम् एव आगच्छतः । अतः 'असार्वधातुके' इति वदामश्चेत् तयोः प्रयोजनम् एव विनश्येत् । लिङ्-लकारः तु उभयथा दृश्यते - सार्वधातुकः विधिलिङ्लकारः, तथा आर्द्धधातुकः आशीर्लिङ्लकारः । एतयोः वर्तमानसूत्रेण केवलं आशीर्लिङ्लकारः एव गृह्यः, यतः 'असार्वधातुके' इति निर्दिष्टमस्ति ।
<<रिङ् शयग्लिङ्क्षु>> - आशीर्लिङि परस्मैपदे भृ यादिति स्थिते — रिङ् शय । श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् ।अयङ्यि क्ङिती॑त्यतो यीति सप्तम्यन्तमनुवृत्तं लिङो विशेषणम् । तदादिविधिः । शे तु यीति नान्वेति, असंभवात् । नापि यकि, अव्यभिचारात् । अत एव कृत्सार्वधातुकयोरित्यनुवृत्तमपि लिङ एव विशेषणं । तदाह — शे यकीत्यादिना । ऋत इति । 'रीङृत' इत्यतस्तदनुवृत्तेरिति भावः । अङ्गस्येधिकृतम् । 'ऋत' इति तद्विशेषणं । तदन्तविधिः । ऋदन्तस्याऽङ्गस्येति लभ्यते । आदेशे ङकार इत् । ङित्त्वादन्तादेशः । निर्दिश्यमानपरिभाषयैव सिद्धे ङकारोच्चारणम्, इङागमेनैव सिद्धे रेफोच्चारमं च स्पष्टार्थम् । ननु भ्रियादिति वक्ष्यमाणमुदाररणमयुक्तम्, कृते रिङिअकृत्सार्वधातुकयो॑रिति दीर्घप्रसङ्गादित्यत आहरीङि प्रकृते इति । कृते रिङि यदि दीर्घः स्यात्तर्हि रिङ्विधिव्र्यर्थः स्यात्, 'रीङृत' इत्येव सिद्धेः । अतो रिङि कृते सति न दीर्घ इत्यर्थः । भ्रियादिति । भ्रियास्तमित्यादि सुगमम् ।
यिग्रहणमकृत्सार्वधातुकग्रहणं चानुवर्तमानं सम्भवव्यभिचाराभ्यां लिङ् एव विशेषणम्, न शयकोः । आद्रियते, आध्रियत इति ।'दृङ्' आदरेऽ,'धृङ् अवस्थाने' , तुदादित्वाच्छः, रिङ् कृते इयिङदेशः । रिङ्विचनं दीर्घनिवृत्यर्थमिति । रीङ् कृते ठकृत्सार्वधातुकयोःऽ इति दीर्घत्वं प्राप्नोति, तस्यापि निवृतयर्थमिति भावः ॥