7-3-83 जुसि च गुणः
index: 7.3.83 sutra: जुसि च
जुसि च प्रत्यये परतः इगन्तस्य अङ्गस्य गुणो भवति। अजुहवुः। अबिभयुः। अबिभरुः। अथ चिनुयुः, सुनुयुः इत्यत्र कस्मान् न भवति? अत्र हि द्वे ङित्त्वे, सार्वधातुकाश्रयम्, यासुडाश्रयं च। तत्र न अप्राप्ते सार्वधातुकाश्रयङित्त्वनिमित्ते प्रतिषेधे जुसि गुणः आरभ्यमाणः तमेव बाधते। यासुडाश्रयङित्त्वनिमित्तं तु न बाधते, तत्र हि प्राप्ते च अप्राप्ते च आरभ्यते इति।
index: 7.3.83 sutra: जुसि च
अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । अजागरुः । अजादौ किम् । जागृयुः । आशिषि तु जागर्यात् । जागर्यास्ताम् । जागर्यासुः । लुङि । अजागरीत् । जागृ इस् इत्यत्र यण् प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तां जागर्तिगुणः, तत्र कृते हलन्तालक्षणा प्राप्ता, नेटि <{SK2268}> इति निषिद्धा, ततः अतो हलादेः- <{SK2284}> इति बाधित्वा अतो ल्रान्तस्य <{SK2330}> इति प्राप्ता, ह्म्यन्त-<{SK2299}> इति निषिध्यते ॥ तदाहुः - गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिनिषेधोऽतो यण्पूर्वाः प्राप्तयो नवेति । ।{$ {!1073 दरिद्रा!} दुर्गतौ$} । दरिद्राति ॥
index: 7.3.83 sutra: जुसि च
इगन्ताङ्गस्य गुणोऽजादौ जुसि। अजुहवुः। जुहुयात्। हूयात्। अहौषीत्। अहोष्यत्॥ {$ {! 2 ञिभी !} भये $} ॥ बिभेति॥
index: 7.3.83 sutra: जुसि च
जुसि च - जुसि च । अङ्गस्येत्यधिकृतम् । 'मिदेर्गुण' इत्यतो गुण इत्यनुवर्तते । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितेन अङ्गस्य विशेषणात्तदन्तविधिः ।क्सस्याची॑इत्यतोऽनुवृत्तेन अचीत्यनेन जुसीत्यस्य विशेषणात्तदादिविधिः । तदाह — अजादावित्यादिना । अजगरुरिति । अजागः अजागृतमजागृत । अजागरमजागृव अजागृम । विधिलिङि यासुटो ङित्त्वान्न गुणः । जागृयात् जागृयताम् । जागृयुरिति ।जुसि चे॑त्यत्र अजादावित्युक्तेर्न गुण इति भावः । जागृधातोर्लुङि सिचि इटि यणादिप्राप्तिक्रमं दर्शयति — जागृ इसित्यत्रेति । तत्र कृते इति ।जाग्रोऽविचिण्ण॑लिति गुणे रपरत्वे कृते अजागर् ईदिति स्थिते सतीत्यर्थः । तदाहुरिति । 'वृद्धा' इति शेषः । अजागरिष्टामजागरिषुरित्यादि सुगमम् । दरिद्राधातुरादन्तः सेट् । दुर्गतिः = धनहीनीभवनम् । दारिद्रातीति । धनहीनीभवतीत्यर्थः ।
index: 7.3.83 sutra: जुसि च
उदाहरणेषु लङ् शिपः श्लुः, द्विर्वचनम्, अभ्यासकार्यम्,'सिजभ्यस्तविधिभ्यश्च' इति झेर्जुस् । अथेत्यादि । जुस्भक्तस्य यासुटस्तद्ग्रहणेन ग्रहणात्प्रसङ्गः । सार्वधातुकाश्रयङ्त्विनिमित इति । सार्वधातुकमाश्रयो यस्य तत्सार्वधातुकाश्रंय तन् ङ्त्विं निमितं यस्य प्रतिषेधस्य स तथोक्तः । एतेन यासुडाश्रयङ्त्विनिमितमिति व्याख्यातम् । तत्र हि प्राप्ते चाप्राप्ते चेति । चिनुयुरित्यादौ प्राप्ते, अजुहवुरित्यादावप्राप्ते । क्सस्याचीत्यनुवर्तते इति । परिहारान्तरम्, जकारोच्चारणं तु चक्रुः - इत्यादौ लिटि मा भूत् ॥