विभाषा द्वितीयातृतीयाभ्याम्

7-3-115 विभाषा द्वितीयातृतीयाभ्याम्

Sampurna sutra

Up

द्वितीया-तृतीयाभ्याम् ङिति सुपि स्याट् अङ्गस्य ह्रस्वः च विभाषा ।

Neelesh Sanskrit Brief

Up

'द्वितीया'शब्दस्य विषये 'तृतीया'शब्दस्य विषये ङित्-प्रत्ययस्य स्याट्-आगमः तथा अङ्गस्य ह्रस्वः विकल्पेन भवति ।

Neelesh English Brief

Up

A ङित्-प्रत्यय that comes after the words द्वितीया and तृतीया optionally get a स्याट् आगम, and अङ्ग becomes ह्रस्व when such an आगम happens.

Kashika

Up

द्वितीया तृतीया इत्येताभ्यामुत्तरस्य ङितः प्रत्ययस्य विभाषा स्याडागमो भवति, द्वितीयातृतीययोश्च ह्रस्वो भवति। द्वितीयस्यै, द्वितीयायै। तृतीयस्यै, तृतीयायै॥

Siddhanta Kaumudi

Up

आभ्यां ङितः स्याड्वा स्यादापश्च ह्रस्वः । इदं सूत्रं त्यक्तुं शक्यम् । तीयस्य ङित्सूपसङ्ख्यानात् । द्वितीयस्यै । द्वितीयायै । द्वितीयस्याः । द्वितीयायाः । द्वितीयस्याम् । द्वितीयायाम् । शेषं रमावत् । एवं तृतीया । अम्बार्थनद्योर्ह्रस्वः <{SK267}> । हे अम्ब । हे अक्क । हे अल्ल ॥<!असंयुक्ता ये डलकास्तद्वतां ह्रस्वो न !> (वार्तिकम्) ॥ हे अम्बाडे । हे अम्बाले । अम्बिके । जरा । जरसौ । शीभावात्परत्वाज्जरस् । आमि नुटः परत्वाज्जरस् । जरसामित्यादि । पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शीभावं कृत्वा संनिपातपरिभाषाया अनित्यतां चाश्रित्य जरसी इति केचिदाहुस्तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य औङ् आपः <{SK287}> । आङि चापः <{SK289}> । याडापः <{SK290}> । ह्रस्वनद्यापः <{SK208}> । ङेराम् <{SK270}> । इति पञ्चापि विधयः प्राप्ताः । एवं नस्निश्पृत्सु । तथाप्यनल्विधावित्युक्तेर्न भवन्ति । आ-आबिति प्रश्लिष्य आकाररूपस्यैवाऽऽपः सर्वत्र ग्रहणात् । एवं हल्ङ्यादिसूत्रेऽपि आ आप् ङी ई इति प्रश्लेषादतिखट्वो निष्कौशाम्बिरित्यादिसिद्धेदीर्घग्रहणं प्रत्याख्येयम् । नचैवमप्यतिखट्वायेत्यत्र स्वाश्रयमाकारत्वं स्थानिवद्भावेनाप्त्वं चाश्रित्य याट् स्यादिति वाच्यम् । आबन्तं यदङ्गं ततः परस्य याड्विधानात् । उपसर्जनस्त्रीप्रत्यये तदादिनियमात् । पदन्न इति नासिकया नस् । नसः । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत् । निशाया निश् । निशः । निशा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'द्वितीया' तथा 'तृतीया' एताभ्याम् शब्दाभ्याम् परस्य परस्य ङित्-प्रत्ययस्य स्याट्-आगमः, तथा अङ्गस्य ह्रस्वादेशः विकल्पेन भवति । विकल्पाभावे <<याडापः>> 7.3.113 इत्यनेन याट्-आगमः भवति । स्याट्-आगमे ह्रस्वादेशे च कृते रूपम् सर्वनामशब्दवत् भवति - द्वितीयस्यै - द्वितीया + ङे [चतुर्थ्येकवचनस्य प्रत्ययः] → द्वितीय + स्याट् + ए → द्वितीयस्यै । स्याट्-आगमस्य अभावे रूपम् सामान्य-आबन्तशब्दवत् भवति - द्वितीयायै - द्वितीया + ङे [चतुर्थ्येकवचनस्य प्रत्ययः] → द्वितीया + याट् + ए → द्वितीयायै । ज्ञातव्यम् - 1) 'द्वितीया' तथा 'तृतीया' एतौ शब्दौ सर्वनामसंज्ञकौ न स्तः । अतः पूर्वसूत्रेण उक्तः विधिः तेषां विषये तत्रैव न विधीयते । अपितु, पूर्वसूत्रे उक्तः परन्तु तत्र 'अप्राप्तः' विधिः अनेन सूत्रेण विकल्प्यते । इयमेव 'अप्राप्त-विभाषा' । 2) 'स्याट्' आगमः तथा 'अङ्गस्य ह्रस्वः' उभावपि यद्यपि विकल्पेन भवतः तथापि ते पृथक्-रुपेण न विकल्पेते । यदि स्याट्-आगमः भवति तर्हि ह्रस्वादेशः अपि नित्यं भवति । तथा च, यदि स्याट्-आगमः न भवति तर्हि ह्रस्वादेशः अपि न भवति ।

Balamanorama

Up

<<विभाषा द्वितीयातृतीयाभ्याम्>> - विभाषा ।घेर्ङिती॑त्यतो ङितीत्युनुवृत्तं षष्ठआ विपरिणम्यते । 'याडापः' इत्यत आप इति, 'सर्वनाम्नः स्याट्' इत्यतःस्या॑ङिति, 'ह्रस्व' इति चानुवर्तते । तदाह — आभ्यामित्यादिना । इदमिति ।विभाषा द्वितीयातृतीयाभ्या॑मिति सूत्रं न कर्तव्यमित्यर्थः । कुत इत्यत आह — तीयस्येति । विभाषाप्रकरणे तीयप्रत्ययान्तस्य ङित्सु सर्वनामत्वोपसङ्ख्यानादित्यर्थः । नच तीयस्य ङित्सूपसङ्ख्यानमेव त्यज्यतामिति वाच्यं, पुंनपुंसकार्थं तस्यावश्यकत्वात् । अम्बार्थेति । व्याख्यातमिदं पुंसीदन्ताधिकारे । तत्र नदीविषये उदाह्यतम्, अम्बार्थानुदाहरति-हे अम्बेत्यादि । शेषं रमावत् । अत्र भाष्येडलकवतीनां प्रतिषेधो वक्तव्यः । हे अम्बाडे । हे अम्बाले । हे अम्बिके । तदिदं वार्तिकं न कर्तव्यमित्युक्त्वाद्व्यच्कस्यैवाम्बार्थस्य ह्रस्व॑ इति स्थितम् । यथाश्रुतवार्तिके तु हे अल्लेत्यत्राऽव्याप्तिः स्यादिति तदाशयः । तदत्र फलितमाह — असंयुक्ता इति । द्व्यच्कानामम्बार्थानां ह्रस्व इत्यस्याङ्गत्वात्तदन्तविधिः । अतो जगदम्बेत्यत्र द्व्यच्काम्बान्तत्वाद्भवति ह्रस्वः । जरेति ।जृष् वयोहानौ॑ । 'षिद्भिदादिभ्यः' इत्यङ ।ऋदृशोऽङी॑ति गुणः, रपरत्वम् । अदन्तत्वाट्टाप्, सुः, हल्ङ्यादिना सुलोप इति भावः । जरसाविति । जराया जरसन्यतरस्या॑मिति अजादौ जरसादेश इति भावः । ननु शीभावे कृते सति आबन्तसन्निपातमुपजीव्य प्रवृत्तस्य तस्य सन्निपातपरिभाषया आबन्तत्वविधातकजरसादेशनिमित्तत्वाऽसम्भवेन जरसादेशाऽभावे आद्गुणे 'जरे' इत्येव स्यादित्यत आह — शोभावादिति । जरसि कृते तु आबभावान्न शीभाव इति भावः । जरसः । जरसं जरसौ जरसः । टा-जरसा । न चात्र जरा आ इति स्थिते जरसादेशं बाधित्वा परत्वात् 'आङि चापः' इत्येत्त्वेऽयादेशे जरयेत्येव युक्तमिति वाच्यम्, एकदेशविकृतन्यायेन कृतेऽप्येत्येव प्रवृत्तस्य जरसादेशस्य नित्यतया तस्याव प्रवृत्तेः, परान्नित्यस्य बलवत्त्वात्, आपः परस्य ङितः सुपो विहितस्य याटो बह्वाश्रयत्वेन बहिरङ्गत्वात् । ङसिङसोः-जरसाः । अत्रापि पूर्ववद्याट् न । जरसोः । एत्त्वं बाधित्वा नित्यत्वाज्जरम् । आमि-जरसाम् । नन्वामि नुटि कृत#ए अजादिविभक्त्यभावात्कथं जरसादेश इत्यत आह — आमि नुट इति । ङौ जरसि । परमपि ङे रामं याटं च नित्य्त्वादन्तरङ्गत्वाच्च क्रमेण बाधित्वा जरस् । पक्षे हलादौ च रमावदिति । जरसादेशाऽभावपक्षे हलादावपि रमावदित्यर्थः । मतान्तरं दूषयितुमनुवदति-इह पूर्वेत्यादिना । इह=जराशब्दे जरा औ इति स्थिते शीभावमाश्रित्य जरसी इति केचिदाहुरित्यन्वयः । आश्रित्येत्यनन्तरं-॒जरसादेशे कृते॑ इति शेषः । ननु शीभावं बाधित्वा परत्वाज्जरसादेश एव युक्त इत्यत आह — पूर्वविप्रतिषेधेनेति ।विप्रतिषेधे पर॑मित्यत्र परशब्दस्येष्टवाचितामाश्रित्य क्वचित्पूर्वस्य प्रवृत्त्याश्रयणेनेत्यर्थः । नन्वाबन्तसंनिपातमुपजीव्य प्रवृत्तस्य शीभावस्य संनिपातपरिभाषया आबन्तसंनिपातविघातकजरसादेशनिमित्तत्वं न सम्भवतीत्यत आह — संनिपातपरिभाषाया अनित्यतां चेति । तन्निर्मूलमिति । पूर्वविप्रतिषेधाश्रयणस्य भाष्यापरिगणितेष्वप्रवृत्तेः संनिपातपरिभाषायाः सर्वत्रानित्यत्वाश्रयणे प्रमाणाऽभावाच्चेति भावः । स्यादेतत् । जरसौ, जरसामित्यत्र 'औङ आपः' 'ह्रस्वनद्यापो नु' डित्यपेक्षया परत्वादस्तु जरसादेशः । अस्तु च ङेङसिङस्सु जरसे जरस इत्यत्र याटमन्तरङ्गत्वात् बाधित्वा जरसादेशः, अस्तु च ङौ जरसीत्यत्र नित्यत्वादाममन्तरङ्गत्वाद्याटं च बाधित्वा जरसादेशः । तथापि तस्य=जरसादेशस्य स्थानिवत्त्वेन आबन्तत्वात्तमाश्रित्य एत्त्वशीभावयाड्नुडागमाः कुतो न स्युः । किञ्चाऽनेनैव न्यायेन नासिकाशब्दस्य निशाशब्दस्य पृतनाशब्दस्य च एत्त्वशीभावयाड्नुडागमान् बाधित्वा जरसादेशः । तथापि तस्य=जरसादेशस्य स्थानिवत्त्वेन आबन्तत्वात्तमाश्रित्य एत्त्वशीभावयाड्नुडागमा प्रसज्येरन्निति शङ्कते — यद्यपीत्यादिना । परिहरति — तथापीति । स्थानीभूताबन्ताश्रयविधय एते एत्त्वादिविधयः, अतस्तेषु कर्तव्येषु जरसाद्यादेशानां स्थानिवत्त्वं न सम्भवति, अनल्विधाविति तन्निषेधात् । ततश्च जरसाद्यादेशानामाबन्तत्वाऽलाभादेत्त्वादिविधियो न भवन्तीत्यर्थः । नन्वल्त्वव्याप्याऽकारत्वादिधर्मपुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरल्विधिः, नतु यथाकथञ्चिदलाश्रयविधिरपि, रामायेत्यत्रसुपि चे॑ति दीर्घाऽभावप्रसङ्गात् । तत्र हि दीर्घो यञादिसुपि परतो विधीयते । यादेशस्य च सुप्त्वं स्थानिवत्त्वलभ्यम् । यादेशस्य च एकारोऽल् स्थानी । ततश्च दीर्घस्य स्वनिमित्तभूतसुप्त्वांशे तदाश्रयत्वादनल्विधाविति निषेधाद्दीर्घे कर्तव्ये यादेशस्य स्थानिवत्त्वाऽभावेन सुप्त्वाऽभावत्तस्मिन् परतो दीर्घो न स्यात् । अल्त्वब्याप्याऽकारत्वादिधर्मपुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरल्विधिरित्याश्रयणे तु न दोषः । दीर्घो हि यादेशस्थानिभूतमेकारमेकारत्वेन नाश्रयति । किंतु सुप्त्वेनैव । सुप्त्वं चाल्त्वव्याप्यं न भवति, भ्यामादावपि सत्त्वात् । ततश्च दीर्घस्यानल्विधात्वात्तस्मिन् कर्तव्ये यादेशस्य स्थानिवत्त्वेन सुप्त्वसंभवाद्दीर्घो निर्बाधः । प्रकृते च एत्त्वादिविधयो जरसादेशस्थानीभूताबन्तत्वपुरस्कारेण संभवत्प्रवृत्तिकाः । आप्त्वं च समुदास्य धर्मः, नत्वाकारमात्रस्या । ततश्च एत्त्वादिविधीनामनल्विधित्वात्तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वेनाबन्तत्वं दुर्वारमित्याशङ्क्याह — आ आबित्यादिना । 'आङि चापः' इत्यादिषु सवर्णदीर्घेण आ आबिति प्रश्लिष्य आकाररूपाबन्ताश्रयणेन एत्त्वादयो विधीयन्ते । ततश्च ते आकारत्वरूपेणाप्यापमाश्रयन्तीति तेषामल्विधित्वात्तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वादाबन्तत्वं न संभवति । ततश्च एत्त्वादिविधयोऽत्र न भवन्तीत्यर्थः । प्रसङ्गादाह — एवमिति । यथा 'आङि चापः' इत्यादिषु आ-आबिति प्रश्लेषः, एवं 'हल्ङ्याब्भ्यां' इत्यत्र ङी ई, आ आबिति सवर्णदीर्घेण प्रश्लेषाद्दीर्घग्रहणं प्रत्याख्येयमित्यन्वयः । ननु तत्र दीर्घग्रहणाऽभावे — ॒अतिखट्वः॑निष्कौशाम्बि॑रित्यत्रापि सुलोपः स्यात् । तथाहि खट्वाशब्दष्टाबन्तः खट्वामतिक्रान्तोऽतिखट्वः ।अत्यादयः क्रान्ताद्यर्थे ॑ इति समासः । कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी ।तेन निर्वृत्त मित्यण् ।टिड्ढाण॑ञिति ङीप् । निष्क्रान्तः कौशाम्ब्याः-निष्कौशाम्बिः ।निरादयः क्रान्ताद्यर्थे पञ्चम्या॑ इति समासः । उभयत्रापिगोस्त्रियो॑रिति आपो ङीपश्च ह्रस्वः, ततः सुबुत्पत्तिरिति स्थितिः । अत्र स्थानिवत्त्वेनाऽऽकाररूपाबन्तत्वस्य ईकाररूपव्यन्तत्वस्य चानपायात्सोर्हल्ङ्यादिलोपे प्राप्ते तन्निवृत्त्यर्थं दीर्घग्रहणमावश्यकमेवेत्यत आह — अतिखट्वो निष्कौशाम्बिरित्यादिसिद्धेरिति । अयमाशयः-ङी ई, आ आबिति प्रश्लेषे सति आत्वरूपेण ईत्वरूपेण च ङ्यापावाश्रित्य सुलोपप्रवृत्तिर्वक्तव्या । ईत्वात्वयोश्च अल्त्वव्याप्यधर्मत्वात्तत्पुरस्कारेण प्रवर्तमानवलोपविधेरल्विधित्वान्न स्थानिवत्त्वेन ङ्याबन्तत्वमस्तीति न सुलोप इति । एवञ्च दीर्घग्रहणप्रयोजनस्य प्रश्लेषेणैव सिद्धत्वाद्धल्ङ्यादिसूत्रे दीर्घग्रहणं न कर्तव्यमित्यन्यत्र विस्तरः । स्यादेतत् । 'याडापः' इत्यत्रआ-आ॑बिति प्रश्लेषे सत्यपि अतिखट्वायेत्यत्र याड् दुर्वारः । खट्वामतिक्रान्तोऽतिखट्वः । 'अत्यादयः' इति समासेगोस्त्रियो॑रिति ह्रस्वत्वे रूपम् । ततो ङेर्यादेशेसुपि चे॑ति दीर्घे अतिखट्वायेति रूपम् । तत्र 'याडापः' इति याट् स्यात् । दीर्घे सति स्थानिवत्त्वेनाऽऽकाररूपाप्त्वस्य सत्त्वात् । नचाकारत्वस्य अल्त्वव्याप्यधर्मत्वात्तत्पुरस्कारेण प्रवर्तमानयाड्विधेरल्विधित्वान्न दीर्घस्य स्थानिवत्त्वेनाऽऽकारत्वावच्छिन्नाप्त्वमिति वाच्यं, याड्विविधिर्हि आकाररूपाऽऽबाश्रयः । तत्र आकाररूपत्वं दीर्घस्य स्वत एव सिद्धमिति न तत्स्थानिवत्त्वलभ्यम् । किन्तु आप्त्वमेव स्थानिवत्त्वलभ्यम् । आप्त्वं च समुदायधर्म एव । नत्वल्त्वव्याप्यधर्मः । तेन रूपेण स्थान्यलाश्रयत्वेऽपि अल्विधित्वाऽभावाद्याड्विधौ स्थानिवत्त्वं दुर्वारमिति शङ्कामुद्भाव्यपरिहरति-न चेति । एवमपीति । 'याडाप#ः' इत्यत्राऽऽकारप्रश्लेषे सत्यपीत्यर्थः ।स्वाश्रयमिति । स्वः आकार आश्रयो यस्याकारत्वस्य तत्स्वाश्रयम् । स्तवस्सिद्धमिति यावत् । एवमपीत्यारभ्य याट् स्यादित्यन्तः संदर्भः शङ्कापरः । इति च न वाच्यमित्यन्वयः । कुत इत्यत आह — आबन्तं यदङ्गमिति । 'याडपः' इत्यत्र हि आब्ग्रहणेन प्रत्ययग्रहणपरिभाषया आबन्तं गृह्रते । अङ्गस्येति तद्विशेषणं भवति । ततश्चाबन्तादङ्गात्परस्य ङितो याड्विधीयते । यस्माच्छब्दाद्यः प्रत्ययो विहितस्तादृशप्रकृतिभूतशब्दरूपाद्यवयवकस्य तत्प्रत्ययरूपान्तावयवकस्य समुदायस्य ग्रहणमिति परभाषार्थः । प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायस्य ग्रहणमिति पर्यवसन्नार्थः । प्रकृते चातिखट्वायेत्यत्र खट्वशब्दाददन्ताट्टाब्विधानात्खट्वेत्येव टाबन्तम् । तत्तु ङितं विभकिंत प्रति नाङ्गम्, अतिखट्वशब्दादेव ङितो विधानात् । यत्त्वमङ्गनतिखट्वेति, न तट्टाबन्तमतः स्थानिवत्त्वेन आप्त्वे सत्यपि न याडिति भावः । ननुष्यङः सम्प्रसारण॑मित्यत्र भाष्येस्त्रीप्रत्यये चानुपसर्जने ने॑त्युपसर्जनादन्यत्रैव तदादिनियमनिषेधस्योक्ततया तदन्ते गृहीते तेनाङ्गस्य विशेषणादाबन्तान्तं यदङ्गमित्यर्थादतिखट्वायेत्यत्र स दोषस्तदवस्थ इति वाच्यम्, अङ्गस्य विशेषणत्वाश्रयणात् । अत एवङ्याब्ग्रहणे अदीर्घ आदेशो न स्थानिव॑दिति वार्तिककारमतं ह्रस्वे फलाऽभावेन स्थानिवद्भावाऽप्रसक्त्या कथं तत्स्थानिके दीर्घे तल्लाभ इति भाष्यकारेण दूषितम् । अथ नासिकाशब्दे विशेषमाह — पद्दन्निति । शसि-नसः । टा-नसा । नोभ्यामित्यादीति । नस् — भ्यामित्यत्र 'स्वादिषु' इति पदत्वे 'ससजुषो रुः' इति रुत्वेहशि चे॑त्युत्वे गुणे नोभ्यां नोभिरित्यादि रूपमित्यर्थः । नस्सु । पक्षे इति । शसादौ नशादेशाऽभावपक्षे इत्यर्थः । अथ निशाशब्दे विशेषं दर्शयति-निशाया निशिति ।शसादौ 'पद्दन्नो' इत्यनेने॑ति शेषः । निश्-भ्यामिति स्थिते ।

Padamanjari

Up

अप्राप्तविभाषेयम्; असर्वनामत्वात् । ननु च'तीयस्य वा ङ्त्सूपिसंख्यानम्' इत्यनेनैव सिद्धत्वान्नार्थ एतेन, तच्चावश्यं वक्तव्यं लिङ्गान्तरेऽपि स्मायादयो विकल्पेन यथा स्युरिति ? नैतद्यौक्तमुच्यते; यद्धि सूत्रेणासिद्धं तदुपसंख्यानेन साधनीयम्, न पुनरुपसंख्यानाश्रयणेन सूत्रस्य प्रत्याख्यानं युज्यते । यदि पुनरत्र ह्रस्वयोर्ग्रहणं कृत्वा स्याड्ग्रहणं च निवर्त्य'सर्वनाम्नः' इत्येवा नुवर्त्यातिदेश आश्रीयते - सर्वनाम्नो यदुक्तं तद्विभाषा भवति द्वितीयातृतीययोरिति, तदोपसंख्यानं शक्यमकर्तुम् ॥