औत्

7-3-118 औत् ङेः इदुद्भ्याम्

Sampurna sutra

Up

index: 7.3.118 sutra: औत्


इदुद्भ्यामङ्गात् ङेः औत्

Neelesh Sanskrit Brief

Up

index: 7.3.118 sutra: औत्


इकारान्त-उकारान्त-शब्दात् परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति ।

Neelesh English Brief

Up

index: 7.3.118 sutra: औत्


The ङि-प्रत्यय gets औ आदेश when it comes after a ह्रस्व-इकारान्त or ह्रस्व-उकारान्त word.

Kashika

Up

index: 7.3.118 sutra: औत्


इदुद्भ्यामुत्तरस्य ङेः औकारादेशो भवति। यन् न नदिसंज्ञं न अपि घिसंज्ञम् इकारान्तम् , तदिह उदाहरणम्। सख्यौ। पत्यौ।

Siddhanta Kaumudi

Up

index: 7.3.118 sutra: औत्


इदुद्भ्यां परस्य ङेरौत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेषं हरिवत् ॥ शोभनः सखा सुसखा । सुसखायौ । सुसखायः । अनङ्णिद्वद्भावयोराङ्गत्वात्तदन्तेऽपि प्रवृत्तिः । समुदायस्य सखिरूपत्वाभावात् असखि <{SK243}>इति निषेधाप्रवृत्तेर्घिसंज्ञा । सुसखिना । सुसखये । ङसिङसोर्गुणे कृते कृतयणादेशत्वाभावात् ख्यत्यात् <{SK255}>इत्युत्त्वं न । सुसखेः । सुसखावित्यादि । एवमतिशयितः सखा अतिसखा । परमः सखा यस्येति विग्रहे । परमसखा । परमसखायावित्यादि । गौणत्वेऽप्यनङ्णित्त्वे प्रवर्तेते । सखीमतिक्रान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच् । हरिवत् । इहाऽनङ्णित्त्वे न भवतः । गोस्त्रियो <{SK656}>रिति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वात् । [(परिभाषा - ) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात्] ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.118 sutra: औत्


इतः परस्य ङेरौत्। सख्यौ। शेषं हरिवत्॥

Neelesh Sanskrit Detailed

Up

index: 7.3.118 sutra: औत्


सर्वेभ्यः इकारान्त-उकारान्त-शब्देभ्यः परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति । 'औत्' इत्यत्र तकारः केवलं उच्चारणार्थः अस्ति , अतः आदेशरूपेण केवलं 'औ' वर्णः आगच्छति ।

यथा -

सखि + ङि [सप्तम्यैकवचनस्य प्रत्ययः]

→ सखि + औ [औत् 7.3.118 इत्यनेन ङि-प्रत्ययस्य औ-आदेशः]

→ सख्यौ + औ [इको यणचि 6.1.77 इति यणादेशः ।]

ज्ञातव्यम् -

1) यद्यपि अस्मिन् सूत्रे 'इकारान्त/उकारान्तशब्देभ्यः परस्य ङि-प्रत्ययस्य औत्-आदेशः दत्तः अस्ति, तथापि

(अ) घिसंज्ञकात् परस्य ङि-प्रत्ययस्य अच्च घेः 7.3.119 इति अग्रिमसूत्रेण आदेशः भवति ।

(आ) नदीसंज्ञकात् इ/उकारान्तात् परस्य ङि-प्रत्ययस्य इदुद्भ्याम् 7.3.117 इत्यनेन आदेशः भवति ।

अतः वर्तमानसूत्रस्य प्रयोजनम् केवलं तेषां इकारान्त-उकारान्तशब्दानां कृते अस्ति, येषाम् नदीसंज्ञा अपि न भवति, घिसंज्ञा अपि न भवति । यथा - सखि, पति ।

2) अस्मिन् सूत्रे उकारग्रहणस्य किमपि प्रयोजनम् नास्ति, यतः सर्वे उकारान्तशब्दाः घिसंज्ञकाः नदीसंज्ञकाः वा सन्ति ।

Padamanjari

Up

index: 7.3.118 sutra: औत्


यन्न नदीसंज्ञमित्यादि । नदीसंज्ञके पूर्वेणाम् विहितः, घिसंज्ञेऽप्युतरेणात्वसंयुक्तमौत्वं वक्ष्यति, तस्मादाभ्यामन्यदेवोदाहरणम् । तत्र पूर्वत्र'घ्यन्तान्नद्यन्तात्' इत्युक्तम्, इह त्विकारोकारान्तमित्युक्त्म्, संज्ञाविधौ च पक्षद्वयं दर्शितम् - वर्णमात्रस्य संज्ञा, तदन्तस्य वेति; तेन नास्ति विरोधः ॥