8-4-48 न आदिनी आक्रोशे पुत्रस्य पूर्वत्र असिद्धम् संहितायाम् द्वे
पुत्रस्य यरः द्वे न आदिन्यामाक्रोशे
'पुत्रादिनी' शब्दस्य तकारस्य आक्रोशे गम्यमाने द्वित्वम् न भवति ।
The तकार of the word पुत्रादिनी does not get a द्वित्व when this word is used while shouting / while talking in angry tone.
आदिनी परत आक्रोशे गम्यमाने पुत्रशब्दस्य न द्वे भवतः। <<अनचि च>> ८.४.४७ इति प्राप्तिः प्रतिषिध्यते। पुत्रादिनी त्वमसि पापे। आक्रोश इति किम्? तत्त्वक थने द्विर्वचनं भवत्येव। पुत्रानत्तीति पुत्त्रादिनी शिशुमारी व्याघ्री॥ तत्परे चेति वक्तव्यम् ॥ पुत्रपुत्रादिनी त्वमसि पापे॥ वा हतजग्धपर इति वक्तव्यम्॥ पुत्त्रहती, पुत्रहती। पुत्त्रजग्धी, पुत्रजग्धी॥ चयो द्वितीयाः शरि पौष्करसादेः॥ चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचार्यस्य मतेन। तकारस्य थकारः — वथ्सः। ककारस्य खकारः — ख्षीरम्। पकारस्य फकारः — अफ्सराः॥
पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । आक्रोशे किम् । तत्वकथने द्विर्वचनं भवत्येव । पुत्त्रादिनी सर्पिणी ।<!तत्परे च !> (वार्तिकम्) ॥ पुत्रपुत्रादिनी त्वमसि पापे ॥<!वा हतजग्धयोः !> (वार्तिकम्) ॥ पुत्रहती । पुत्त्रहती । पुत्रजग्धी । पुत्त्रजग्धी ॥
<<अचो रहाभ्यां द्वे>> 8.4.46 तथा च <<अनचि च>> 8.4.47 इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् <<नादिन्याक्रोशे पुत्रस्य>> 8.4.48 इत्यतः <<दीर्घादाचार्याणाम्>> 8.4.52 इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं प्रथमं सूत्रम् । आक्रोशे गम्यमाने
<<नादिन्याक्रोशे पुत्रस्य>> - नादिन्याक्रोशे । 'द्वे' इत्यनुवर्तते । 'यर' इति च । आक्रोशो निन्दा । आदिनीति ङ्यन्तं लुप्तसप्तमीकम् । आदिनीशब्दे परे पुत्रशब्दस्यावयवो यो यर् तकारस्तस्य न द्वित्वम्, आक्रोशे गम्ये इत्यर्थः । तदाह-पूत्रशब्दस्येत्यादिना । पुत्रशब्दस्यावयवस्येत्यर्थः । पुत्रादिनी त्वमसि पाषे इति । पुत्रानत्तुं शीलमस्याः पुत्रादिनी । 'सुप्यजातौ' इति णिनिः । 'ऋन्नेभ्य' इति ङीष् । हे पापे । त्वं पुत्रादिनीत्यन्वयः । पुत्रघातिनीत्यर्थः । ईदृशाक्रोशस्य प्रायेण स्त्रीष्वेव सम्भवात् सूत्रे आदिनीति ङ्यन्तमेव विवक्षितमिति हरदत्तः । माधवोऽप्येवम् । अत्र उकारात्परस्य तकारस्याऽनचि चेति प्राप्तं द्वित्वं निषिध्यते । रेफस्य तु न क्वापि द्वित्वप्रसक्तिरित्यनुपदमेव वक्ष्यते । आक्रोशे किमिति । आक्रोशे इत्यस्य किं प्रयोजनमित्यर्थः ।किं पृच्छायां जुगुप्सने॑ इत्यव्ययवर्गेऽमरः । एवमुत्तरत्राप्येवञ्जातीयकेषु द्रष्टव्यम् । तत्त्वकथन इति । यस्याः पुत्राः स्वयमेव म्रियन्ते तां प्रति पुत्रादिनीति वस्तुस्थितिकथने तु न द्वित्वनिषेधः, तत्र निन्दाया अप्रतीतेरित्यर्थः । तत्परे च । वार्तिकमेतत् । स आदिनीशब्दः परो यस्मात्स तत्परः । आदिनीशब्दपरके पुत्रशब्दे च परे पुत्रशब्दावयवस्य यरो न द्वित्वमित्यर्थः । पुत्रपुत्रादिनी त्वमिति । पुत्रस्य पुत्रानत्तीति विग्रहः । अत्र पूर्वस्य पुत्रशब्दस्य आदिनीशब्दः परो न भवति, द्वितीयपुत्रशब्देन व्यवधानात् । अतः पूर्वसूत्रेणाऽप्राप्ते द्वित्वनिषेधे इदमारब्धम् । वा हतजग्धयोः । हतशब्दे जग्धशब्दे च परे पुत्रशब्दावयवस्य यरो द्वित्वं वा स्यादित्यर्थः । पुत्रहतीति । तकारद्वित्वे रूपम् । पुत्रो हतो ययेति विग्रहः ।अस्वाङ्गपूर्वपदा॑दिति ङीषिति केचित् । वस्तुतस्तु जातिपूर्वादित्यस्य तत्रानुवृत्तेर्गौरादित्वान्ङीषिति युक्तम् । पुत्रघातसाहसस्य स्त्रीष्वेव सम्भवात्स्त्रीलिङ्गमेवोदाहृतम् । पुत्रहतीति । द्वित्वाऽभावे रूपम् । एवं पुत्रजग्धी पुत्रजग्धीति । अनचि चेति द्वित्वविकल्पे सिद्धे पुत्रशब्दस्य क्तान्ते चेद्धतजग्धयोरेव आक्रोश एवेति नियमार्थमिदं वार्तिकमित्याहुः ।
पुत्रादिनीति । ताच्छील्ये णिनिः । तत्परे चेति । स आदिनीशब्दो यस्मात्परस्तत्रापि परतः पुत्रशब्दस्य द्विर्वचनं न भवति - पुत्राश्च पौत्राश्च पुत्रपौत्राः, तानतुं शीलमस्याः पुत्रपौत्रादिनी । अन्ये तु'तत्परे पुत्रशब्दे' इति व्याचक्षाणाः पुत्रपुत्रादिनीत्युदाहरन्ति, तत्र पुत्रस्य पुत्रमतीति विग्रहः । वा हतजग्धपर इति । हतजग्धं च तत्परं चेति विशेषणसमासः, राजदन्तादित्वात् परशब्दस्य परनिपातः । पुत्रहतीति । पुत्रो हतोऽनयेति बहुव्रीहिः, ठस्वाङ्गपूर्वपदाद्वाऽ इति ङीष् । खयो द्वितीया इति ।'खयः' इति षष्ठी । द्वितीया इति । वर्गेषु खकारादयः ॥