7-1-52 आमि सर्वनाम्नः सुट् आत्
index: 7.1.52 sutra: आमि सर्वनाम्नः सुट्
आत् सर्वनाम्नः अङ्गस्य आमि सुट्
index: 7.1.52 sutra: आमि सर्वनाम्नः सुट्
अकारान्तात् सर्वनामशब्दात् परस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य सुट्-आगमः भवति ।
index: 7.1.52 sutra: आमि सर्वनाम्नः सुट्
An आम्-प्रत्यय appearing after an अकारान्त सर्वनामशब्द gets a सुट्-आगम.
index: 7.1.52 sutra: आमि सर्वनाम्नः सुट्
आतिति वर्तते। अवर्णात् सर्वनाम्न उत्तरस्य आमः सुडागमो भवति। सर्वेषाम्। विश्वेषाम्। येषाम्। तेषाम्। सर्वासाम्। यासाम्। तासाम्। आतित्येव। भवताम्। आमि इति षष्ठीबहुवचनं गृह्यते, न ङेराम् नद्याम्नीभ्यः 8.3.116 इति , तस्य हि परत्वाताड्याट्स्याटो भवन्ति। यश्च घातामुः , आमश्च लिटि, न तौ सर्वनान्मः स्तः। सानुबन्धकौ इति वा तौ न गृह्येते। आमि इति सप्तमीनिर्देशः उत्तरार्थः। इह तु सर्वनाम्नः इति पञ्चमीनिर्देशात् तस्मादित्युत्तरस्य 1.1.67 इति , षष्ठीप्रकॢप्तिर्भविष्यति।
index: 7.1.52 sutra: आमि सर्वनाम्नः सुट्
अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यात् । एत्वषत्वे सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयोऽप्यदन्ताः । सर्वादयश्च पञ्चत्रिंशत् । सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व नेम, सम, सिम ॥ (गणसूत्रम् -) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । (गणसूत्रम् -) स्वमज्ञातिधनाख्यायाम् । (गणसूत्रम् -) अन्तरं बर्हिर्योगोपसंव्यानयोः । त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् - इति । उभशब्दो द्वित्वविशिष्टस्य वाचकः । अतएव नित्यं द्विवचनान्तः । तस्येहपाठस्तूभकावित्यकजर्थः । नच कप्रत्ययेनेष्टसिद्धिः । द्विवचनपरत्वाऽभावेनोभयत उभयत्रेत्यादाविवाऽयच्प्रसङ्गात् । तदुक्तम् ।<!उभयोऽन्यत्र !> (वार्तिकम्) ॥ अन्यत्रेति द्विवचनपरत्वाऽभावे । उभयशब्दस्य द्विवचनं नास्तीति कैयटः । अस्तीति हरदत्तः । तस्माज्जस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया प्रथमचरमे <{SK226}>ति विकल्पे प्राप्ते विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति । उभये । डतरडतमौ प्रत्ययौ । [(परिभाषा - ) प्रत्ययग्रहणे तदन्ता ग्रह्याः] । यद्यपि [(परिभाषा - ) संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण नास्ति] सुप्तिङन्त <{SK29}>मिति ज्ञापकात् । तथापीह तदन्तग्रहणम् । केवलयोः संज्ञायाः प्रयोजनाऽभावात् । अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद्द्विबहुविषये निर्धारणे वर्तेते । तत्रान्यतमशब्दस्य गणे पाठाभावान्न संज्ञा । त्वत्व इति द्वावप्यदन्तावन्यपर्यायौ । एक उदात्तोऽपरोऽनुदात्त इत्येके । एकस्तान्त इत्यपरे । नेम इत्यर्थे । समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते । यथासङ्ख्यमनुदेशः समानामिति ज्ञापकात् ।<!अन्तरं बहिर्योगेति (गणसूत्रम् -) गणसूत्रेऽपुरीति वक्तव्यम् !> (वार्तिकम्) ॥ अन्तरायां पुरि ॥
index: 7.1.52 sutra: आमि सर्वनाम्नः सुट्
अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः। एत्वषत्वे। सर्वेषाम्। सर्वस्मिन्। शेषं रामवत्। एवं विश्वादयोऽप्यदन्ताः॥ उभशब्दो नित्यं द्विवचनान्तः। उभौ उभौ। उभाभ्याम् उभाभ्याम् उभाभ्याम्। उभयोः उभयोः। तस्येह पाठोऽकजर्थः। उभयशब्दस्य द्विवचनं नास्ति। उभयः। उभये। उभयम्। उभयान्। उभयेन। उभयैः। उभयस्मै। उभयेभ्यः। उभयस्मात्। उभयेभ्यः। उभयस्य। उभयेषाम्। उभयस्मिन्। उभयेषु॥ डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता ग्राह्याः॥ नेम इत्यर्धे॥ समः सर्वपर्यायस्तुल्यपर्यायस्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात्॥
index: 7.1.52 sutra: आमि सर्वनाम्नः सुट्
अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः इत्यनेन सप्तम्या निर्दिष्टम् पदम् स्थानिनम् दर्शयति । अतः षष्ठीबहुवचनस्य आम्-प्रत्ययः अत्र स्थानी । यदि अयम् प्रत्ययः अकारान्तात् / आकारान्तात् शब्दात् परः आगच्छति, तर्हि अस्य प्रत्ययस्य सुट्-आगमः भवति । आद्यन्तौ टकितौ 1.1.46 इति अयमाद्यावयवरूपेण आगच्छति । यथा -
→ सर्व + सुट् आम् [आमि सर्वनाम्नः सुट् 7.1.52 इति आम्-प्रत्ययस्य सुट्-आगमः]
→ सर्व + स् आम् [इत्संज्ञालोपः]
→ सर्वे साम् [बहुवचने झल्येत् 7.3.103 इति अङ्गस्य एकारादेशः]
→ सर्वेषाम् [आदेशप्रत्यययोः 8.3.59 इति प्रत्ययावयवस्य षत्वम् ]
→ य अ + आम् [त्यदादीनामः 7.2.102 इत्यनेन दकारसस्य विभक्तिप्रत्यये परे अकारादेशः]
→ य + आम् [अतो गुणे 6.1.97 इति द्वयोः अकारयोः पररूपः अकारः]
→ य + सुट् + आम् [आमि सर्वनाम्नः सुट् 7.1.52 इति आम्-प्रत्ययस्य सुट्-आगमः]
→ य स् आम् [इत्संज्ञालोपः]
→ ये स् आम् [बहुवचने झल्येत् 7.3.103 इति अङ्गस्य एकारादेशः]
→ येषाम् [आदेशप्रत्यययोः 8.3.59 इति प्रत्ययावयवस्य षत्वम् ]
→ सर्वा + सुट् आम् [आमि सर्वनाम्नः सुट् 7.1.52 इति आम्-प्रत्ययस्य सुट्-आगमः]
→ सर्वा स् आम् [इत्संज्ञालोपः]
→ सर्वासाम्
→ त अ + आम् [त्यदादीनामः 7.2.102 इत्यनेन दकारसस्य विभक्तिप्रत्यये परे अकारादेशः]
→ त + आम् [अतो गुणे 6.1.97 इति द्वयोः अकारयोः पररूपः अकारः]
→ ता + आम् [अजाद्यतष्टाप् 4.1.4 इत्यनेन अकारान्तस्य प्रातिपदिकस्य टाप्-प्रत्ययः]
→ ता + सुट् आम् [आमि सर्वनाम्नः सुट् 7.1.52 इति आम्-प्रत्ययस्य सुट्-आगमः]
→ ता स् आम् [इत्संज्ञालोपः]
→ तासाम्
ज्ञातव्यम् - वर्तमानसूत्रम् ह्रस्वनद्यापो नुट् 7.1.54 इत्यस्य अपवादरूपेण आगच्छति ।
index: 7.1.52 sutra: आमि सर्वनाम्नः सुट्
आमि सर्वनाम्नः सुट् - सर्व-आम् इति स्थिते 'ह्रस्वनद्यापः' इति नुटि प्राप्ते- । आमि सर्वनाम्नः । 'अज्जसेरसुक्' इत्यतोऽनुवृत्तेन आदिति पञ्चम्यन्तेनअङ्गस्ये॑त्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः,परस्ये॑त्यध्याहार्यम् ।उभयनिर्देशे पञ्चमीनिर्देशो बलीया॑निति न्यायेनतस्मादित्युत्तरस्ये॑ति परिभाषयाआमी॑ति सप्तम्यन्तं षष्टन्तमापद्यते । 'सर्वनाम्न' इति तु विहितविशेषणम् । ततश्च अवर्णान्तादङ्गात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यादित्यर्थः । सम्पद्यते । तदाह — अवर्णान्तादित्यादिना ।अवर्णान्ता॑दित्यनन्तरम्अङ्गा॑दिति शेषः ।अवर्णान्तात्सर्वनाम्नो विहितस्याम॑ इति व्याख्याने तु येषां तेषामित्यादौ सुडागमो न स्यात् । तत्र आमो दकारान्ताद्विहितत्वात् ।सर्वनाम्नः परस्ये॑ति तु न व्याख्यातम् । तथा सति वर्णाश्रमेतराणामित्यसिद्धेरित्यग्रे मूल एव स्पष्टीभविष्यति । एत्वषत्वे इति ।बहुवचनेझल्ये॑दित्येत्वम् । संनिपातपरिभाषा त्वत्र न प्रवर्तते इति बहुवचने झल्येदित्यत्रेक्तम् । 'आदेशप्रत्यययोः' इति षत्वं सुटो ।ञपि, तदागमास्तद्ग्रहणेन गृह्यन्ते॑ इति प्रत्ययावयवत्वादिति भावः । सर्वेषामिति । नन्वामीति सप्तमीनिर्देशसामर्थ्यात्तस्मादित्युत्तरस्येति न प्रवर्तते । ततश्च आमि परे प्रकृतेरेव सुडागमो युक्त इति चेन्न, सप्तमीनिर्देशस्य 'त्रेस्त्रयः' इत्युत्तरार्थमावश्यकत्वादिति भावः । सप्तकेम्यवचनस्य ङसिङ्योरिति स्मिन्नादेशं सिद्धवत्कृत्याह — सर्वस्मिन्निति । शेषमिति । शिष्यते इति शेषं । कर्मणि घञ् ।घञजबन्ताः पुंसी॑-ति तु प्रायिकमिति भावः । एवमिति । सर्वशब्दवदित्यर्थः । नच सर्वशब्दस्य बहुत्वव्यापकसर्वत्वात्मकधर्मविशेषप्रवृत्तिनिमित्तकत्वाद्बहुवचनमेव न्याय्यमिति वाच्यं, सर्वशब्दो हि बह्ववयवारब्धसमुदाये वर्तते । तत्र यदाऽनुद्भूतावयवः समुदायो विवक्षितस्तदा भवत्येकवचनम् । यथा-सर्वो लोक इति । अनुद्भूतत्वम्विवक्षितसंख्याकत्वम् । यदात्वनुद्भूतावयवकौ समुदायौ तदा द्विवचनम् । यथा सर्वौ व्यूहाविति । यदा तूद्भूतावयवसमुदायस्तदा बहुवचनम् । यथा सर्वे जना इतचि । अथ के ते सर्वादयः शब्दाः कति च ते इत्यत्राह — सर्वादयश्च पञ्चतिंरशदिति । पञ्च च तिंरशच्चेति द्वन्द्वः, पञ्चाधिका तिंरशदिति शाकपार्थिवादित्वात्तत्पुरुषो वा ।सङ्ख्यायास्तत्पुरुषस्योपसङ्ख्यानां॑मिति डच्तु समासान्तो न भवति ।अन्यत्राधिकलोपा॑द#इत्युक्तेः ।पूर्वपरावरेति — गणान्तर्गतं सूत्रम् ।व्यवस्थायामसंज्ञायां च पूर्वादीनि सप्त सर्वादिगणप्रविष्टानि वेदितव्यानी॑त्यर्थः । सर्वनामसंज्ञा तुसर्वादीनि सर्वनामानी॑त्येव सिध्यति । ॒स्वमज्ञाती॑तिअन्तरं बहि॑रिति च गणसूत्रद्वयमेवमेव योज्यम् । व्यवस्थादिशब्दा अग्ने मूल एव व्याख्यास्यन्ते । इतिशब्दः — सर्वादिगणसमाप्ति-द्योतनार्थः । तत्र विआशब्दोऽपि सर्वशब्दवदेव । उभशब्दे तु विशेषमाह — तत्रेति । सर्वादिषु मध्य इत्यर्थः । अत एवेति । द्वित्विशिष्टवाचकत्वादेवेत्यर्थः । नित्यमिति । सर्वदा द्विवचनान्त एव नत्वेकवचनबहुवचने इति यावत् । तेन टाबादि न निवार्यते । नन्वेवं सति 'जसः शीः' 'सर्वनाम्नः स्मै'ङसिङ्योः स्मात्स्मिनौ॑आमिसर्वनाम्नः सुट् इत्युक्तानां सर्वनामकार्याणां द्विवचनेऽभावादुभशब्दस्य सर्वादिगणे पाठो व्यर्थ इत्यत आह — तस्येहेति । तस्य=उभशब्दस्य, इह=सर्वादिगणे, पाठस्तु उभकावित्यत्रअव्ययसर्वनाम्नामकच्प्राक्टेः॑ इत्यकच्प्रत्ययार्थ इत्यर्थः । ननु मास्तूभशब्दस्य सर्वादिगणे पाठो, मास्तु च सर्वनामता, मास्तु च तत्प्रयुक्तोऽकच् । उभशब्दात्स्वार्थिके कप्रत्यये सत्यपि उभकाविति रूपसिद्धेः । न च काकचोः स्वरभेदः शह्क्यः । 'तद्धितस्य' इति प्रत्ययस्वरेण वा, 'चितः सप्रकृतेः' इति चित्स्वरेण वाऽन्तोदात्तत्वे विशेषाऽभावात् । उक्तं च भाष्ये — ॒काकचोः॑ को विशेषः ॑ इति । तत्राह — नचेति । कप्रत्ययेन उभकावितीष्टरूपसिद्धिर्नचेत्यन्वयः । कुत इत्यत आह — द्विवचनेति । द्विवचनपरत्वाऽभावे उभशब्दादयच् विहितः । अकचि तु सतितन्मध्यपतितस्तद्ग्रहणेन गृह्रते॑ इति न्यायेन उभशब्देनोभकशब्दोऽपि गृह्रते । तस्य च॒उभक-औ इत्यस्यां दशायां द्विवचनपरत्वादयच्प्रत्ययो न भवति । कप्रत्यये तु सति तस्य उभशब्दात्परतो विहितत्वेन तन्मध्यपतितन्याया.ञप्रवृत्त्या उभकशब्दस्योभशब्देन ग्रहणाऽभावादुभशब्दस्य कप्रत्ययव्यवधानेन द्विवचनपरकत्वाऽभावादयचि उभयकौ इति स्यात् । यथा 'उभयत'उभयत्रे॑त्यत्र द्विवचनपरकत्वाऽभावादयच्प्रत्ययो ।ञस्ति तद्व दित्यर्थः । द्विवचने सति अयच्प्रत्ययो नेति यदभिहितं तत्उभयोऽन्यत्रे॑ति वदता वार्तिककृता उक्तमित्यर्थः । अन्यत्रेत्येततद्व्याचष्टे-अन्यत्र द्विवचनपरत्वाभावे इति । उदाहृतवार्तिके अन्यत्रेत्यनेन द्विवचनादन्यस्मिन् परे इत्यर्थो विवक्षितः,अन्याभावो द्विवचनटाब्विषयत्वा॑दिति पूर्ववार्तिके द्विवचनस्यैव प्रस्तुतत्वादिति भावः । टाब्ग्रहणं तु तत्राविवक्षितमिति कैयटादिषु स्पष्टम् । ततश्च सर्वनामतानिमित्तकाऽकजर्थ उभशब्दस्य सर्वादिषु पाठ इति स्थितम् । अत्र यद्वक्तव्यं तत्तद्धितप्रक्रियायाम्उभादुदात्तो नित्य॑मित्यत्र वक्ष्यते । अथोभयशब्दे विशेषमाह — उभयशब्दस्येति । उभौ अवयवौ यस्यावयविनः स उभयो मणैः । 'उभादुदात्तः' इत्ययच् । अवयववृत्तेः सङ्ख्यावाचिन उभशब्दादवयविन्यर्थेऽयच्प्रत्ययः स्या॑दिति तदर्थः । व्द्यवयवारब्धो मणिरित्यर्थः । मणेरवयविन एकत्वादुभय इत्येकवचनं उभयश्च उभयश्च उभयश्चेत्येवं द्व्यवयवारब्धद्विमणिविवक्षायामुभयौ मणी इति द्विवचनं तु न भवति,उभयोऽन्यत्रे॑त्युदाहृतवार्तिके उभयशब्दस्य द्विवचनान्तादन्यत्रैव प्रयोगविध्यवगमात् । नच तत्र वार्तिके स्वार्थिकायजन्तस्यैवोभयशब्दस्य ग्रहणं, स्वार्थिकायजन्तोभशब्दोपक्रमेणैव तद्वार्तिकप्रवृत्तेरिति वाच्यम्, एतद्वार्तिकव्याख्यावसरेउभयो मणिः॑, 'उभये देवमनुष्याः' इति भाष्ये उदाहृतत्वेन तयप्समानार्थकायजन्तस्यापि तत्र ग्रहणावगमात् । एतदेवाभिप्रेत्यतद्धितश्चासर्वविभक्ति॑रित्यव्ययत्वमुभयशब्दस्य द्विवचनाभावेनाऽसर्वविभक्तित्वेऽपि न भवति,तसिलादयः प्राक्पाशपः॑,शस्प्रभृतयः प्राक् समासान्तेभ्य,॑अम्, 'आम्'कृत्वोऽर्थाः॑, 'तसिवती,' नानाञा॑विति परिगणितत्वादिति कैयटेनोक्तम् । तदाह — कैयट इति । एवंच — उभयः उभये । उभयम्, उभयान् । उभयेन, उभयैः । उभयस्मै, उभयेभ्यः । उभयस्मात्, उभयेभ्यः । उभयस्य, उभयेषाम् । उभयस्मिन्ुभयेषु इत्येव रूपाणि । नतूभयावित्यादिद्विवचनान्तप्रयोग इति सिद्धं भवति । हरदत्त इत्यस्वरसोद्भावनम् । तद्बीजं तूभयोऽन्यत्रेति प्रागुक्तवार्तिकभाष्यविरोध एवेत्यन्यत्र विस्तरः । उभयशब्दाज्जसि सर्वादीनीति नित्यां सर्वनामसंज्ञां बाधित्वा परत्वात्प्रथमचरमतयाल्पार्धकतिपयनेमाश्च॑ इति सर्वनामसंज्ञाविकल्पप्राप्तिमाशङ्क्य परिहरति — तस्मादित्यादिना । तस्मात्ुभेयशब्दात्, जसि सति प्रथमचरमेति विकल्पे प्राप्ते नित्यैव संज्ञा भवतीत्यर्थः ।सर्वादीनीत्यनेने॑ति शेषः । ननु प्रथमचरमादिष्वनन्तर्भावात्कथमुभयशब्दस्य तयप्प्रत्ययान्तत्वमित्यत आह — अयजादेशस्य स्थानिवद्भावेनेति । 'उभादुदात्त' इति सूत्रे सङ्ख्याया अवयवे तयप् इति उभशब्दाद्विहितस्य तयपोऽयजादेशः, तयब्ग्रहणमननुवर्त्त्य अयच् स्वतन्त्रः प्रत्ययो वे॑ति पक्षद्वयं भाष्ये स्थितम् । तत्र प्रथमपक्षाभिप्रायेणात्र सर्वनामसंज्ञाविकल्पशङ्का बोध्या । ननु प्रथमचरमेति वकल्पस्य परत्वात्कथमिहसर्वादीनी॑तिनित्यैव संज्ञेत्यत आह-अन्तरङ्गत्वादिति । तदेवोपपादयत#इ — विभक्तिनिरपेक्षत्वेनेति ।प्रथमचरमे॑ति जसि विकल्पविधिर्जसपेक्षत्वेन विभक्त्यपेक्षत्वाद्बहिरङ्गः ।सर्वादीनी॑ति नित्यसंज्ञाविधिस्तु तदनपेक्षत्वादन्तरङ्गः,अल्पापेक्षमन्तरङ्ग॑मिति न्यायात् । अतोऽत्र परमपिप्रथमचरमे॑ति विकल्पं बाधित्वासर्वादीनी॑ति नित्यैव संज्ञा भवति, परादन्तरङ्गस्य बलीयस्त्वादिति भावः । तथा च शीभावो नित्य इत्याह-उभये इति । ननु डतरडतमशब्दयोः क्वापि प्रयोगादर्शनात्किमर्थस्तयोः पाठ इत्यत आह-डतरडतमौ प्रत्ययाविति ।किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् ।वा बहूनां जातिपरिप्रश्ने डतमच् ।एकाच्च प्राचा॑मिति तद्धिताधिकारविहितौ डतरडतमौ प्रत्ययौ, 'प्रत्ययः' इत्यधिकृत्य तद्विधेः । अतः प्रत्ययग्रहणपरिभाषया डतरग्रहणेन कतरादिशब्दानां, च ग्रहणमिति भावः । शङ्कते — यद्यपीति । सुप्तिङन्तमिति । यदि संज्ञाविधावपि प्रत्ययग्रहणपरिभाषा प्रवर्तेत, तर्हिसुप्तिङ् पद॑मित्येव सूत्र्येत, प्रत्ययग्रहणपरिभाषयैव सुप्तिङन्तमित्यर्थलाभात् । अतः संज्ञाविधौ प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति विज्ञायते । एवंच प्रकृते सर्वनामसंज्ञाविधौ डतरडतमग्रहणे प्रत्ययग्रहणपरिभाषानुपस्थानात्कथं तदन्तग्रहणमित्याक्षेपः । परिहरति — तथापीति । अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणाभावेऽपीह सर्वनामसंज्ञाविधौ डतरडतमग्रहणे तदन्तग्रहणस्त्येवेत्यर्थः । कुत इत्यत आह — केवलयोरिति ।न केवला प्रकृतिः प्रयोक्तव्या, नापि केवलः प्रत्ययः॑ इति न्यायेन केवलप्रत्यययोर्डतरडतमयोः प्रयोगानर्हत्वेन तयोः सर्वनामसंज्ञायां फलाऽभावादित्यर्थः । तस्माड्डतरडतमग्रहणेनात्र कतरकतमादिशब्दानां ग्रहणमिति स्थितम् । ननु डतरग्रहणेनैव सिद्धे सर्वादिगणे ।ञन्यतरशब्दपाठो व्यर्थः । अन्यतमशब्दस्यापि डतमप्रत्ययान्तत्वात्सर्वनामत्वापत्तिश्चेत्यत आह — अन्यतरान्यतमशब्दावव्युत्पन्नाविति । डित्थादिशब्दवत्प्रकृतिप्रत्ययविभागविहीनावित्यर्थः । किंयत्तदेकेभ्य एव डतरडतमविधानादिति भावः । नन्वेवं सत्यन्यतरान्यतमशब्दाभ्यां द्वबहुनिर्धारणावगमः कथमित्यत आह — स्वभावादिति । एवंचान्यतमशब्दस्य न सर्वनामत्वमित्याह — तत्रेति । एतयोर्मध्ये इत्यर्थः । अन्यतरशब्दस्य तु डतरडतमविधानादिति भावः । नन्वेवं सत्यन्यतरान्यतमशब्दाभ्यां द्विबहुनिर्धारणावगमः कथमित्यत आह — स्वभावादिति । एवंचान्यतमशब्दस्य न सर्वनामत्वमित्याह — तत्रेति । एतयोर्मध्ये इत्यर्थः । अन्यतरशब्दस्य तु डतरप्रत्ययान्तत्वाऽभावेऽपि सर्वादिगणे पाठादेव सर्वनामत्वमित्युक्तप्रायम् । अत 'त्व'त्वे॑त्येकप्रातिपदिकभ्रमं वारयन् अप्रसिद्धार्थत्वाद्व्याचष्टे — त्व त्व इति द्वावप्यदन्तावन्यपर्यायाविति । अन्यशब्दसमानार्थकावित्यर्थः । द्वयोरप्यदन्तत्वे ।ञन्यतरपाठवैयथ्र्यं परिहरति-एक इति । इत्येके इति । इति कतिपये वृत्तिकृदादयो मन्यन्त इत्यर्थः । 'एतं त्वं मन्ये' इत्युदात्तत्वस्य 'उत त्वः पश्यन्' इत्यादावनुदात्तत्वस्य च ऋग्वेदे दर्शनादिति भावः । एकस्तान्त इति । संहितापाठेत्व॑दिति च्छेदमाश्रित्य प्रथमस्तकारान्तः, द्वितीयोऽदन्त इत्यपरे मन्यन्त इत्यर्थः । अन्यथा एकश्रुत्या वा स्वरविनिर्मुक्त वा सकृदेव पठेत्, तावतैव द्वयोरपि लाभात्,त्वत्त्वसमसिमेत्यनुच्चानी॑ति फिटसूत्राच्च ।स्तरीरु त्वद्भवति, सूत उ त्वत् इति ऋग्व्याख्यावसरे वेदभाष्येत्व॑दिति सर्वादिपठितोऽनुदात्तोऽयमन्यपर्यायः॑ इत्युक्तत्वाच्च ।त्वदधरमधुरमधूनि पिबन्त॑मिति जयदेवप्रयोगाच्च । तत्र हि त्वच्छब्दो ।ञन्यपर्यायः । त्वतोऽधर इति विग्लरहः । अन्यस्या अधर इत्यर्थः । नतु तवाधर इति विवक्षितं,पश्यति दिशि दिशि रहसि भवन्तम् इति पूर्ववाक्येनाऽन्वयानुपपत्तेः । नेम इत्यर्धे इति । 'वर्तते' इति शेषः ।प्र नेमस्मिन् ददृशे सोमो अन्तः॑ इत्यृचि तथा दर्शनादिति भावः । सम इति । सर्व शब्दसमानार्थक एव समशब्दः सर्वादिगणे पठित इत्यर्थः । तुल्यपर्यायस्त्विति । तुल्यशब्दसमानार्थक इत्यर्थः । ज्ञापकादिति । अन्यथा तत्र समेषामिति निर्दिशेदिति भावः । ननु अष्टाध्यायीपठितेअन्तरं बहिर्योगोपसंव्यानयोः॑ इति जसि सर्वनामसंज्ञाविकल्पविधायके सूत्रेअपुरीत वक्तव्य॑मिति वार्तिकपाठो भाष्ये दृश्यते । एवंचान्तराः पुर्य इत्यत्र जसि सर्वनामसंज्ञानिषेधेऽपि,अन्तरायां पुरी॑त्यत्र तन्निषेधा.ञबावादन्यतरस्यामिति स्यादित्यत आह — गणसूत्र इति । यद्यपीदं वार्तिकं जसि विकल्पविधिप्रकरणे पठितं तथाप्यन्तरं बहिरितिगणसूत्रस्यैवायं शेषो, नत्वष्टाध्यायीपठितस्या.ञन्तरं बहिरित्यस्य जसि विधायकस्य शेषः,जसश्शी॑त्यत्र अत इत्यनुवृत्त्या टाबन्तात्तत्प्राप्तिविरहात् । ततश्च पुर्यां विशेष्यभूतायामन्तरशब्दः सर्वादिगणे पाठं न लभते इत्येतद्वार्तिकार्थः पर्यवस्यति । एवञ्चजसोऽन्यत्रापि अन्तरशब्दस्य पुर्यां विशेष्यभूतायां सर्वनामत्वं नेति लभ्यते । अतोऽन्तरायां पुरीत्यादौ सर्वनामकार्यं स्याडादि न भवतीत्यभिप्रेत्योदाहरति — अन्तरायां पुरीति । यद्यप्यन्तरशब्द एव सर्वादिगणे पठितो, नतु टाबन्तः । तथापि लिङ्गविशिष्ट परिभाषया वा, एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा सर्वनामत्वप्राप्तिर्बोध्या । 'सिम' शब्दस्तुसिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः॑ इति कोशे प्रसिद्धः ।
index: 7.1.52 sutra: आमि सर्वनाम्नः सुट्
इमे बहव आमः - ङ्स् - ओस् - आम्, णेóराम्नद्याम्नीभ्यः, किमेतिङ्व्ययधादाम्वद्रव्यप्रकर्षे, कास्प्रत्ययादाममन्त्रे लिटि तेषु कस्येदमामो ग्रहणम् इत्याह - आमिति षष्ठीबहुवचनं गृह्यत इति । तस्य हि परत्वादिति । सुटो नुटश्च षष्ठीबहुवचनमवकाशः, आट्प्रभृतीनां चतुर्थ्येकवचनादि, णेóराम उभयप्रसङ्गे परत्वादाडादयो भवन्ति, तेषु कृतेषु सकृद्गतिन्यायाश्रयणात् सुट्नुटौ न भवतः । यश्च घादामुरिति । किमेतिङ्व्ययघादामु इत्येव । चस्त्वर्थे, तुरेव वा पठितव्यः । आम् च लिटीति । लिटि परतो य आम् कास्प्रत्ययात् इति विहित इत्यर्थः । न तौ सर्वनाम्नः परौ स्त इति । तेनात्र तावतयोरग्रहणम्, यस्य चात्र ग्रहणं तस्यैवोतरत्राप्यधिकार इति नुड्विधावपि तयोरग्रहणमिति भावः । आचारक्विबन्तानां सर्वादीनां सर्वार्थत्वाभावात्सर्वनामसंज्ञाभावात्सर्वनाम्नो लिट।लमोऽसम्भवः । यस्तु मन्यते - इह सामान्यग्रहणे सति यथासम्भवं प्रकरणे कार्यप्रतिपतिः, ततश्च तयोरपि नुट्प्रसङ्ग इति, तं प्रति परिहारान्तरमाह - सानुबन्धकाविति वेति । सामान्यग्रहणे तु सति पचतितरामित्यत्र यस्येतिलोपं बाधित्वा परत्वान्नुट् स्यात् । कारयाम्, चिकीषीमित्यत्र तु नित्यत्वाद् अयामन्त इत्ययादेशे, अतो लोपे च कृते ह्रस्वाभावान्नास्ति नुटः प्रसङ्गः । उतरार्थमिति । त्रेस्त्रयः इत्यामि परतो यथा स्तात । इह त्विति । पञ्चमीनिर्देशस्तु आत् इत्।यनुवृतेन सामानाधिकरण्यादवसीयते, एवं च कृत्वा हलि सर्वेषाम् इति निर्देशोपपतिः ॥