7-1-51 अश्वक्षीरवृषलवणानाम् आत्मप्रीतौ क्यचि आत् असुक्
छन्दसीत्यतः प्रभृति निवृत्तम्। अश्व क्षीर वृष लवण इत्येतेषामङ्गानामात्मप्रीतिविषये क्यचि परतोऽसुगागमो भवति। अश्वस्यति वडवा। क्षीरस्यति माणवकः। वृषस्यति गौः। लवणस्यत्युष्ट्रः। आत्मप्रीताविति किम्? अश्वीयति। क्षीरीयति। वृषीयति। लवणीयति॥ अश्ववृषयोर्मैथुनेच्छायामिति वक्तव्यम्॥ क्षीरलवणयोर्लालसायामिति वक्तव्यम्॥ तृष्णातिरेको लालसा। अन्यत्रात्मप्रीतावपि न भवति। अपर आह॥ सर्वप्रातिपदिकेभ्यो लालसायामसुग् वक्तव्यः॥ दध्यस्यति, मध्वस्यति इत्येवमाद्यर्थम्। अपर आह॥ सुग् वक्तव्यः॥ दधिस्यति, मधुस्यति इत्येवमाद्यर्थम्॥
एषां क्यचि असुगागमः स्यात् ।<!अश्ववृषयोर्मैथुनेच्छायाम् !> (वार्तिकम्) ॥ अश्वस्यति वडवा । वृषस्यति गौः ॥<!क्षीरलवणयोर्लालसायाम् !> (वार्तिकम्) ॥ क्षीरस्यति बालः । लवणस्यति उष्ट्रः ।<!सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ !> (वार्तिकम्) ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्यवस्यति ॥
<<अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि>> - अआक्षीर क्यचि ।परे असु॑गिति शेषपूरणम्,आज्जसेरसु॑गित्यतस्तदनुवृत्तेरिति भावः । असुकि ककार इत्ुकार उच्चारणार्थः । कित्त्वादन्त्यावयवः । अआवृषयोरिति - वार्तिकम् । अआस्यति वडवेति । मैथुनार्थमआमिच्छतीत्यर्थः । वृषस्यति गौरिति । मैथुनार्थं वृषमिच्छतीत्यर्थः ।वृषस्यन्ती तु कामुकी॑ति कोशस्तु अआवृषरूपप्रकृत्यर्थपरित्यागेव मैथुनेच्छामात्रे लाक्षणिकः । क्षीरलवणयोरिति - वार्तिकम् । 'असु ' गिति शेषः । लालसा - उत्कटेच्छा । सर्वप्रातिपदिकानामिति । इदमपि वार्तिकम् । लालसायां सर्वेषां प्रातिपदिकानां क्यच् वक्तव्यः । तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः । नचानेनैव वार्तिकेन सिद्धेक्षीरलवणयोर्लालसाया॑मिति वार्तिकं व्यर्थमिति शङ्क्यं,क्षीरलवणयोर्लालसाया॑मिति वार्तिकं व्यर्थमिति शङ्क्यं,क्षीरलवणयो॑रिति वार्तिकं कात्यायनीयं,सर्वप्रातिपदिकाना॑मिति तु मतान्तरमित्यदोषात् । एतच्च भाष्येअपर आहे॑त्यनेन ध्वनितम् ।