6-4-136 विभाषा ङि श्योः असिद्धवत् अत्र आभात् भस्य अल् लोपः अनः
अनः भस्य अङ्गस्य अत् ङिश्योः विभाषा लोपः
'अन्' यस्य अन्ते, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य ङि-प्रत्यये शी-प्रत्यये वा परे विकल्पेन लोपः भवति ।
If a भसंज्ञक अङ्ग end in the word 'अन्' and is followed by the ङि or शी प्रत्यय, then the 'अ' of this 'अन्' is omitted optionally.
ङौ परतः शीशब्दे चानो विभाषाकारलोपो भवति। राज्ञि, राजनि। साम्नि, सामनि। साम्नी, सामनी॥
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपो वा स्यात् ङिश्योः परयोः । यूष्णि । यूषणि । पक्षे रामवत् । पद्दन्न <{SK228}> इति सूत्रे प्रभृतिग्रहणं प्रकारार्थम् । तथाच । औङः श्यामपि दोषन्नादेशो भाष्ये ककुद्दोषणी इत्युदाहृतः । तेन पदद्भिश्चरणोऽस्त्रियाम्, स्वान्तं ह्रन्मानसं मन इति सङ्गच्छते । आसन्यं प्राणमूचुरिति च । आस्ये भव आसन्यः । दोष्शब्दस्य नपुंसकत्वमप्यत एव भाष्यात् । तेन दक्षिणं दोर्निशाचर इति सङ्गच्छते । भुजबाहू प्रवेष्टो दोरिति साहचर्यात्पुंस्त्वमपि । दोषं तस्य तथाविधस्य भजत इति । द्वयोरह्नोर्भवो द्व्यह्नः ॥
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपो वा स्यात् ङिश्योः परयोः। दध्नि, दधनि। शेषं वारिवत्॥ एवमस्थिसक्थ्यक्षि॥ सुधि। सुधिनी। सुधीनि। हे सुधे, हे सुधि॥
<<अल्लोपोऽनः>> 6.4.134 इत्यनेन सूत्रेण 'अन्' यस्य अन्ते तादृशस्य भसंज्ञकस्य उपधा-अकारस्य नित्यं लोपः भवति । परन्तु अयं लोपः ङि-प्रत्यये परे , शी-प्रत्यये च परे केवलं विकल्पेनैव भवति । यथा - 1. नामन्-शब्दस्य प्रथमा-द्विवचनस्य रूपसिद्धौ 'नामन् + औ' इत्यत्र <<नपुंसकाच्च>> 7.1.19 इत्यनेन औ-प्रत्ययस्य शी-आदेशे कृते 'नामन् + शी' इत्यत्र <<यचि भम्>> 1.4.18 इत्यनेन नामन्-शब्दः भसंज्ञां प्राप्नोति । ततः अन्तिम-नकारात् पूर्वः यः अकारः तस्य विकल्पेन लोपः भवति । अतः 'नामनी / नाम्नी' एतादृशं रूपद्वयं सिद्ध्यति । 2. राजन्-शब्दस्य सप्तम्येकवचनस्य ङि-प्रत्यये परे 'राजन् + ङि' इति स्थिते वर्तमानसूत्रेण जकारोत्तरस्य अकारस्य वैकल्पिकं लोपं कृत्वा 'राजनि / राज्ञि' एते द्वे रूपे भवतः । <<अल्लोपोऽनः>> 6.4.134 इत्यनेन निर्दिष्टः अकारलोपः अनेन सूत्रेण विकल्प्यते । अतः एतत् नियमसूत्रम् ।
<<विभाषा ङिश्योः>> - विभाषा ङिश्योः । 'अल्लोपोऽन' इत्यनुवर्तते ।अङ्गस्ये॑तिभस्ये॑ति चाधिकृतं ।भस्ये॑त्यनेन च असर्वनामस्थानयजादिस्वादिपरत्वे पूर्ववदनो लभ्यते । तदाह — अङ्गावयव इति । ङिश्योरिति । ङिश्च शी चेति विग्रहः ।नपुंसकाच्चे॑ति विहित एवाऽत्र शी गृह्रते, नतु जश्शसोश्शिः, तस्मिन् परे भत्वाऽसम्भवात् । पक्षे इति । यूषन्नादेशाऽभावपक्षे इत्यर्थः । अथ क्वचिच्छसादिभ्योऽन्यत्रापि पदाद्यादेशं साधायितुमाह — पद्दन्न इतीति । प्रकारेति । प्रकारः सादृश्यम् । तच्च प्रत्ययत्वेन बोध्यम् । प्रभृतिग्रहणस्य प्रकारार्थत्वे प्रमाणं दर्शयति — अत एवेति । प्रभृतिग्रहणस्य प्रकारार्थकत्वादेवेत्यर्थः ।ककुद्दोषणी याचते महादेवः॑ इत्येवं भाष्ये औङादेशभूतशीभावे परत उदाहृतो दोषन्नादेशोऽत एव सङ्गच्छते इत्यन्वयः । तेनेति । प्रकारार्थकप्रभृतिग्रहणेनेत्यर्थः ।पदङ्घ्रि॑रित्यत्रप॑दिति प्रथमैकवचनम्,स्वान्तं ह्म॑दित्यत्र ह्मदिति च सङ्गच्छत इत्यर्थः । आदिना निशादिसङ्ग्रहः । आसन्यं प्राणमिति । आसन्यं प्राणमूचुरिति चाऽत एव सङ्गच्छते इत्यन्वयः । आसनशब्दस्य आसन्नादेश इति भ्रमं वारयति — आस्ये भव इति । प्राणशब्दसमभिव्याहारादियमेव व्युत्पत्तिरिति भावः ।शरीरावयवाच्चे॑त्यास्यशब्दाद्भवार्थे यत्प्रत्यये आसन्नादेशः । 'ये चाऽभावाकर्मणोः' इति प्रकृतिभावा॑न्नस्तद्धिते॑ इति टिलोपो न । प्रभृतिग्रहणस्य प्रकारार्थत्वाऽभावे त्विहाऽऽसन्नादेशो न स्यात्, यत्प्रत्ययस्य । शसादिषु सुप्स्वनन्तर्भावादिति भावः । ननु 'दोषणी' इति भाष्ये नपुंसकप्रयोगोऽनुपपन्नः,दोषं तस्य तथाविधस्ये॑त्यादौ पुंस्त्वस्यैव प्रयोगदर्शनादित्यत आह — दोष्शब्दस्य द्वितीयैकवचनं दोरिति । पुंस्त्वे दोषमिति स्यादिति भावः । ननु भाष्यानुसाराद्दोष्शब्दस्य नपुंसकत्वमेव स्यादित्यत आह — भुजेति ।भुजबाहू प्रवेष्टो दो॑रिति कोशात्पुंस्त्वमपीत्यर्थः । नन्वयं कोशो दोष्शब्दस्य नपुंसकत्वेऽप्युपपन्न इत्यत आह-साहचर्यादिति । पुंलिङ्गभुजादिशब्दसाहचर्यादित्यर्थः ।साहचर्याच्च कुत्रचि॑दिति कोशे परिभाषितत्वादिति भावः । दोष्शब्दस्य पुंस्त्वसाधने फलं दर्शयति — दोषं तस्येति ।दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन् गुण॑मिति श्रीहर्षः । दोषं हस्तं दूषणं च भजतश्चापस्य गुणं मौर्वीम्, अतिशयं च गृह्णन्नित्यन्वयः । अत्र दोषमिति दोष्शब्दस्य पुंलिङ्गद्वितीयैकवचनम् । अत्रसु प्रभृतिष्वि॑ति वाच्येशस्प्रबृतिष्वि॑ति वचनात्सुपि क्वचिदेव पदाद्यादेशा इति गम्यते । द्वयोरह्नोरिति । 'तद्धितार्थ' इति समासः ।कालाठ्ठ॑ञिति ठञ् । 'द्विगोर्लुगनपत्ये' इति लुक् ।राजाहः सखिभ्यष्ट॑जिति टच् । 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशः । रामशब्दवद्रूपाणि ।
जसः शी, औङ् आपः, नपुंसकाच्चेति योऽयं शीशब्दस्तस्येह ग्रहणम्, न जश्ससोः शिः इत्यस्य ह्रस्वान्तस्य तत्र संज्ञाया अभावात् ॥