क्त्वि स्कन्दिस्यन्दोः

6-4-31 क्त्वि स्कन्दिस्यन्दोः असिद्धवत् अत्र आभात् नलोपः उपधायाः

Sampurna sutra

Up

स्कन्दि-स्यन्दोः उपधायाः नलोपः क्त्वि न

Neelesh Sanskrit Brief

Up

क्त्वा-प्रत्यये परे स्कन्द्-धातोः स्यन्द्-धातोः च उपधा-नकारस्य लोपः न भवति ।

Neelesh English Brief

Up

In presence of the क्त्वा प्रत्यय, the उपधा-नकार of the verb roots स्कन्द् and स्यन्द् is not removed.

Kashika

Up

क्त्वाप्रत्यये परतः स्कन्द स्यन्द इत्येतयोर्नकारलोपो न भवति। स्कन्त्वा। स्यन्त्वा। स्यन्देरूदित्त्वात् पक्ष इडागमः७.२.४४। स्यन्दित्वा। तत्र यदा इडागमस्तदा <<न क्त्वा सेट्>> १.२.१८ इति कित्त्वप्रतिषेधादेव नलोपाभावः॥

Siddhanta Kaumudi

Up

एतयोर्नलोपो न स्यात् क्त्वि परे । स्कन्त्वा । ऊदित्त्वादिड्वा । स्यन्त्वा । स्यन्दित्वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

स्कन्दिँर् (गतिशोषणयो) तथा स्यन्दूँ (प्रस्रवणे) एतौ भ्वादिगणस्य धातू । एतयोः उपस्थितस्य नकारस्य कित्/ङित्-प्रत्यये परे <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन वस्तुतः लोपः भवति । परन्तु 'क्त्वा'-प्रत्यये परे वर्तमानसूत्रेण अयं लोपः निषिध्यते । यथा - 1. स्कन्द् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> 3.4.21 इति क्त्वा-प्रत्ययः] → स्कन्द् + त्वा [<<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन नलोपे प्राप्ते <<क्त्वि स्कन्दिस्यन्दोः>> 6.4.31 इति नलोपप्रतिषेधः ] → स्कन्त्त्वा, स्कन्त्वा [<<खरि च>> 8.4.55 इति दकारस्य चर्त्वे तकारः । <<झरो झरि सवर्णे>> 8.4.65 इति वैकल्पिकः तकारलोपः] 2. स्यन्द्-धातुः ऊदित् अस्ति, अतः अयम् वेट्-धातुः अस्ति (इत्युक्ते, अस्य विषये वैकल्पिकः इडागमः भवति) । अतः अत्र पक्षद्वयम् भवति - (अ) इडागम-अभावपक्षे स्कन्द्-धातुवदेव प्रक्रिया भवति, तथा 'स्यन्त्त्वा / स्यन्त्वा' एते रूपे सिद्ध्यतः । (आ) इडागमस्य पक्षे <<न क्त्वा सेट्>> 1.2.18 इत्यनेन कित्वप्रतिषेधः भवति । इत्युक्ते, इडागमस्य उपस्थितौ क्त्वा-प्रत्यय कित् नास्ति । अतः तत्र <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन नलोपः एव न प्रभवति, अतः तस्य नलोपस्य वर्तमानसूत्रेण निषेधः अपि न आवश्यकः । यथा - स्यन्द् + क्त्वा → स्यन्द् + इट् + क्त्वा [<<स्वरतिसूतिसूयतिधूञूदितो वा>> 7.2.44 इति वैकल्पिकः इडागमः] → स्यन्दित्वा । इत्युक्ते, स्यन्द्-धातोः विषये अस्य सूत्रस्य प्रसक्तिः केवलमनिट्-प्रक्रियायाम् एव विद्यते, यतः सेट्-प्रक्रियायाम् नकारः तादृशः अपि दृश्यते एव ।

Balamanorama

Up

Padamanjari

Up

न क्त्वा सेडिति कित्वप्रतिषेधादेवेति । तेन सेटः तवाप्रत्ययस्योदाहरणं न प्रदर्शितमिति भावः ॥