6-4-33 भञ्जेः च चिणि असिद्धवत् अत्र आभात् नलोपः उपधायाः न विभाषा
भञ्जेश्च चिणि परतो विभाषा नकारलोपो भवति। अभाजि, अभञ्जि। अप्राप्तोऽयं नलोपः पक्षे विधीयते। ततो नेति नानुवर्तते॥
नलोपो वा स्यात् । अभाजि । अभञ्जि ॥
नलोपो वा स्यात्। अभाजि, अभञ्जि॥ लभ्यते॥
<<भञ्जेश्च चिणि>> - भञ्जेश्च चिणि । 'श्नान्नलोपः' इत्यतो नेति अभाजीति । नलोपपक्षे उपधावृद्धिः ।