6-4-140 आतः धातोः असिद्धवत् अत्र आभात् भस्य अल्
आतः धातोः भस्य लोपः
आकारान्त-धातोः भसंज्ञकस्य अङ्गस्य अन्तिम-आकारस्य लोपः भवति ।
The ending आकार of the भसंज्ञक अङ्ग of an आकारान्त धातु is removed.
आकारान्तस्य धातोर्भस्य लोपो भवति। कीलालपः पश्य। कीलालपा। कीलालपे। शुभंयः पश्य। शुभंया। शुभंये। आत इति किम्? निया। निये। धातोरिति किम्? खट्वाः पश्य। मालाःपश्य। आत इति योगविभागः। तेन <<०क्त्वो ल्यप्>> ७.१.३७ <<हलः श्नः शानच्०>> ३.१.८३ इत्येवमादि सिद्धं भवति॥
आकारान्तो यो धातुस्तदन्तस्य भस्याऽङ्गस्य लोपः स्यात् । <<अलोऽन्त्यस्य>> <{SK42}> । विश्वपः । विश्वपाभ्यामित्यादि । एवं शङ्खध्मादयः । धातोः किम् । हाहान् । टा सवर्णदीर्घः । हाहा । ङे वृद्धिः । हाहै । ङसिङसोर्दीर्घः । हाहाः । ओसि वृद्धिः । हाहौः । ङौ आद्गुणः । हाहे । शेषं विश्वपावत् । आत इति योगाविभागादधातोरप्याकारलोपः क्वचित् । क्त्त्वः । श्नः ॥ इत्यादन्ताः ॥ हरिः । <<प्रथमयोः पूर्वसवर्णः>> <{SK164}> हरी ॥
आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः। <<अलोऽन्त्यस्य>>1.1.52। विश्वपः। विश्वपा। विश्वपाभ्यामित्यादि। एवं शङ्खध्मादयः। धातोः किम्? हाहान्॥ हरिः। हरी॥
आकारान्त-धातुनिर्मितम् यत् प्रातिपदिकम्, तस्य भसंज्ञायां सत्याम् तस्य अङ्गस्य अन्तिमवर्णस्य (=आकारस्य) लोपः भवति । यथा, 'विश्वपा' इति प्रातिपदिकम् 'विश्वं पाति सः' अस्मिन् अर्थे 'विश्व' उपपदेन सह पा (रक्षणे) धातोः <<अन्येऽभ्योपि दृश्यन्ते>> 3.2.75 इति विच्-प्रत्ययं कृत्वा सिद्ध्यति । <<क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न. जहति, धातुत्वमपि न मुञ्चन्ति>> अनेन सिद्धान्तेन अस्य शब्दस्य धातुसंज्ञा अपि भवति । अतः, अस्य शब्दस्य अजादिषु प्रत्ययेषु परेषु <<यचि भम्>> 1.4.18 इत्यनेन भसंज्ञायां प्राप्तायाम् वर्तमानसूत्रेण अङ्गस्य अन्तिमवर्णस्य लोपः भवति । प्रक्रिया इयम् - विश्वपा + टा [तृतीयैकवचनस्य टा-प्रत्ययः । अस्मिन् प्रत्यये परे <<यचि भम्>> 1.4.18 इति अङ्गस्य भसंज्ञा] → विश्वप् + आ [<<आतो धातोः>> 6.4.140 इति अङ्गस्य अन्तिमवर्णस्य लोपः] → विश्वपा तथैव विश्वपा + ङे → विश्वपे, कीलालपा + ङसिँ → कीलालपः, शङ्खध्मा + शस् → शङ्खध्मः आदीनि रूपाणि अपि सिद्ध्यन्ति ।
<<आतो धातोः>> - औटि - विश्वपौ । शसि विश्वपा असिति स्थिते पूर्वसवर्णदीर्घे प्राप्ते - <<आतो धातोः>> । अङ्गस्येति भस्येति चाधिकृतम् । धातोरित्यात इति षष्ठ्यन्तेन विशेष्यते । तेन तदन्तविधिः । <<अल्लोपोऽनः>>6.4.134 इत्यतो 'लोप' इत्यनुवर्तते । तदाह — आकारान्तो य इति । अलोऽन्त्यस्येति । अन्त्यस्याऽकारस्य लोप इति शेषः । विश्वपाभ्यामिति । अभत्वादाल्लोपो नेति भावः । इत्यादीति । विश्वपाभिः । विश्वपे । विश्वपः । विश्वपोः । विश्वपाम् । विश्वपि । विश्वपोः विश्वपासु । एवं शङ्खध्मादय इति । शङ्खेन शङ्खं वा धमतीति शङ्खध्माः । ध्मा शब्दाग्निसंयोगयोः । पूर्ववत् विच् क्विब्वा । आदिना सोमपादिसङ्ग्रहः । सोमं पिबतीति सोमपाः । कीलालं पिबतीति कीलालपाः । वारिपर्यायेषु पयः कीलालममृतमित्यमरः । मधु पिबतीति मधुपा इत्यादि । धातोः किमिति । 'आतोऽनापः' इत्येव सूत्र्यतां, तावतैव रमा इत्याद्याबन्तेषु लोपव्यावृत्तेरिति प्रश्नः । हाहानिति । पूर्वसवर्णदीर्घे <<तस्माच्छसः>>6.1.103 इति नत्वम् । 'हाहा' इति गन्धर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमेतत् ।हाहाहूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् इत्यमरः । सुटि विश्वपावत् । शसि हाहा-अस् इत्यत्रापि 'आतोऽनापः' इत्याल्लोपः स्यात्, अतो धातुग्रहणमित्यर्थः । टा सवर्णदीर्घ इति । 'टा' इत्यविभक्तिनिर्देशः प्रक्रियादशायां न दुष्यति । तृतीयैकवचने सवर्णदीर्घ इत्यर्थः । एवमग्रेऽपि योज्यम् । ङे वृद्धिरिति । हाहा-ए इति स्थिते <<वृद्धिरेचि>>6.1.88 इति वृद्धिरित्यर्थः । ङसिङसोरिति । हाहा-असित्यत्र सवर्णदीर्घ इत्यर्थः । ओसि वृद्धिरिति । हाहा ओस् इत्यत्र <<वृद्धिरेचि>>6.1.88 इति वृद्धिरित्यर्थः । ङौ आद्गुण इति । 'हाहा इ' इत्यत्र <<आद्गुण>>6.1.87 इति गुण एकार इत्यर्थः । क्त्वा, श्ना इति प्रत्ययौ आकारान्तौ विश्वपावत् । नन्वधातुत्वात्कथमिह आल्लोप इत्यत आह — आत इति योगेति । <<आतो धातोः>> इत्यत्र 'आत' इति विभज्यते । आकारान्तस्य भस्याङ्गस्य लोपः स्यादित्यर्थः । तेन 'क्त्वः' 'श्नः' इति शसि रूपं सिध्यति । धातोरिति योगान्तरम् । आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः स्यादित्यर्थः । आबन्तव्यावृत्त्यर्थं स हाहादिव्यावृत्त्यर्थं चेदम् । 'आत' इति योगविभागस्तु क्त्वः श्न इत्यादौ क्वचिदाल्लोपार्थः । ननु मालेवाचरिति मालाः । आचारक्विबन्तात्कर्तरि क्विप् । सुबुत्पत्तिः । अत्र कृतेऽपि धातुग्रहणे शसादावाल्लोपो दुर्वारः, <<सनाद्यन्ताः>>3.1.32 इति धातुत्वादादन्तत्वाच्च । नच <!अनाप इति वक्तव्यम्!> इति वार्तिकादाबन्तेषु नाल्लोप इति शङ्क्यम्, उक्तरीत्या योगविभागमभ्युपगम्य 'अनाप' इति वार्तिकस्य भाष्ये प्रत्याख्यातत्वादिति चेन्मैवम्, एतद्वार्तिकभाष्यप्रमाण्यादेव आबन्तेभ्य आचारक्विबभावबोधनादिति शब्देन्दुशेखरे प्रपञ्चितम् । हरिरिति । हरिशब्दात्सुः । रुत्वविसर्गौ । नच विसर्जनीयस्य अकारादुपरि उपसङ्ख्यानेनाच्त्वात्तस्मिन् परतो रेफादिकारस्य यणादेशः शङ्क्यः, यणादेशे कर्तव्ये विसर्जनीयस्यासिद्धत्वात् । प्रथमयोरिति । हरि-औ इति स्थितेऽनेन पूर्वसवर्णदीर्घे सति हरी इति रूपमित्यर्थः । जसि हरि अस् इति स्थिते पूर्वसवर्णदीर्घे प्राप्ते —
एवमादि सिद्धं भवतीति ।सूत्राद्वहिरस्मदादिप्रयोगेऽपीति भावः। सूत्रे तु सौत्रो निर्द्देश इत्येव सिद्धम् ॥