श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च

3-1-141 श्याद्व्यधास्रुसंस्र्वतीणवसावहृलिहश्लिषश्वसः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् अनुपसर्गात् णः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनुपसर्गादिति, विभाषेति च निवृत्तम्। श्यैङ आकारान्तेभ्यश्च धातुभ्यः, व्यध, आस्रु, संस्रु, अतीण्, अवसा, अवहृ, लिह, श्लिष, श्वस् इत्येतेभ्यश्च णप्रत्ययो भवति। आकारान्तत्वादेव श्यायतेः प्रत्यये सिद्धे पुनर्वचनं बाधकबाधनार्थम्। उपसर्गे कं बाधित्वायमेव भवति। अवश्यायः। प्रतिश्यायः। दायः। धायः। व्याधः। आस्रावः। संस्रावः। अत्यायः। अवसायः। अवहारः। लेहः। श्लेषः। श्वासः॥

Siddhanta Kaumudi

Up

श्यैङ्प्रभृतिभ्यो नित्यं णः स्यात् । श्यैङोऽवस्यतेश्चादन्तात्वात्सिद्धे पृथग्ग्रहणमुपसर्गे कं बाधितुम् । अवश्यायः । प्रतिश्यायः । आत् । दायः । धायः । व्याधः । स्रु गतौ । आङ्पूर्वः संपूर्वश्च । आस्रावः । संस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिह- श्लिषश्वसश्च>> - श्याद्व्यधारुआउ । श्या, आत् , व्यध, आरुआउ, संरुआउ, अतीण्, अवसा, अवह्म, लिह, श्लिष, स्वस् एषामेकादशाद्यां समाहारद्वन्द्वात्पञ्चमी । अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रेऽनुपसर्गग्रहणात् । एवं च तत्सम्बद्धं विभाषाग्रहणं च नानुवर्तते । तदाह — नित्यमिति । श्यैङ इति । श्यैङ्धातोरवपूर्वस्य षोधातोश्च कृतात्त्वयोः सूत्रे निर्देशः । तयोरादन्तत्वादेव सिद्धे पुनग्र्रहणम् 'आतश्चोपसर्गे' इति कप्रत्ययबाधनार्थमित्यर्थः । अवश्यायः प्रतिश्याय इति । श्यैङ आत्त्वे कृते णः । आतो युक् । आदिति । आदन्तस्योदाहरणसूचनम् । दायः धाय इति । णे आतो युक् । व्याध इति । अतिपूर्वादिण्धातोर्णे वृद्ध्यायादेशौ । अवसाय इति । अवपूर्वात् 'षोऽन्तकर्मणि' इत्यस्माण्णे आतो युक् । लेहः श्लेष इति । णे लघूपधगुणः । आआस इति । णे उपधावृद्धिः ।

Padamanjari

Up

श्याद्व्यधासु संस्वतीणवसावहृलिहश्लिषश्वसश्च॥ अनुपसर्गादिति निवृतमिति। उतरसूत्रे पुनरनुपसर्गग्रहणात्। विभाषेति चेति। निवृतमित्यपेक्ष्यते। विभाषा ग्रहणं ह्यनुपसर्गग्रहणेन सम्बद्धम्, अतस्तन्निवृतावस्यापि निवृत्तिः। श्यैङ् इति ।'श्यैङ् गतौ' इत्यस्मात् शी आत् श्यादिति शीङे यणादेशेन ग्रहणं न भवति; व्याख्यानात्, झटिति प्रतीतावनारोहाच्च। आकारान्तेभ्य इति। एतेन अतेरच्छब्दान्तानां पतिप्रभृतीनामकारान्तानां च ग्रहणं न भवतीति दर्शयति। एतदपि व्याख्यानादेव।'व्यध ताडने' 'स्रु गतौ' आङ्पूर्वः, संपूर्वश्च, 'इण् गतौ' अतिपूर्वः,'षो' न्तकर्मणिऽ'हृञ् हरणे' अवपूर्वौ,'लिह आस्वादने' 'श्लिष आलिङ्गने' 'श्वसप्राणने' । येऽत्र सोपसर्गास्तेभ्यः सोपसर्गेभ्य एव भवति, शेषेभ्यस्त्वविशेषेण। बाधकबाधनार्थमिति। ठातश्चोपसर्गेऽ इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः, तद्वाधनार्थमिदम्। एतेनावस्यतेरुपादानं व्याख्यातम्। अवश्याय इति। पूर्ववद्यौक्॥