6-4-107 लोपः च अस्य अन्यतरस्यां म्वोः असिद्धवत् अत्र आभात् क्ङिति उतः प्रत्ययात् असंयोगपूर्वात्
अस्य असंयोगपूर्वस्य उतः प्रत्ययस्य म्वोः अन्यतरस्याम् लोपः
असंयोगपूर्वः यः प्रत्ययान्तः उकारः तस्य मकारे वकारे च परे विकल्पेन लोपः भवति ।
The उकार which occurs at end of a प्रत्यय is optionally deleted when followed by a मकार / वकार , provided that a संयोग is not present immediately before this उकार.
योऽयमुकारोऽसंयोगपूर्वस्तदन्तस्य प्रत्ययस्यान्यतरस्यां लोपो भवति वकारमकारादौ प्रत्यये परतः। सुन्वः, सुनुवः। सुन्मः, सुनुमः।तन्वः, तनुवः। तन्मः, तनुमः। प्रत्ययस्येत्येव — युवः। युमः। असंयोगपूर्वस्येत्येव — शक्नुवः, शक्नुमः। लुगिति वर्तमाने लोपग्रहणमन्त्यलोपार्थम्॥
असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः धिनुवः । धिन्मः । धिनुमः । मिपि तु परत्वाद्गुणः । धिनोमि ॥
असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः। शृण्वः, शृणुवः। शृण्मः, शृणुमः। शुश्राव। शुश्रुवतुः। शुश्रुवुः। शुश्रोथ। शुश्रुवथुः। शुश्रुव। शुश्राव, शुश्रव। शुश्रुव। शुश्रुम। श्रोता। श्रोष्यति। शृणोतु, शृणुतात्। शृणुताम्। शृण्वन्तु॥
यदि प्रत्ययस्य अन्तथः उकारः असंयोगपूर्वः अस्ति, तर्हि तस्य मकारे वकारे च परे विकल्पेन लोपः भवति । अस्मिन् सूत्रे 'अस्य' इति प्रयुक्तमस्ति । 'अस्य' इत्युक्ते <<उतश्च प्रत्ययादसंयोगपूर्वात्>> 6.4.106 अस्मिन् पूर्वसूत्रे निर्दिष्टस्य उकारस्य । अतः <<उतश्च प्रत्ययादसंयोगपूर्वात्>> 6.4.106 इत्यनेन यस्य उकारस्य निर्देशः क्रियते, तस्यैव उकारस्य ग्रहणमस्मिन् सूत्रेऽपि भवति, अन्यस्य कस्यापि उकारस्य न । <<उतश्च प्रत्ययादसंयोगपूर्वात्>> 6.4.106 इत्यनेन तु 'श्नु' इत्यस्य विकरणप्रत्ययस्य, 'उ' इत्यस्य विकरणप्रत्ययस्य च उकारस्यैव ग्रहणं भवति । अतः अस्य सूत्रस्य व्याप्तिः अपि तयोः एव विषये अस्ति । अस्मात् मकारादि-वकारादि-प्रत्यये च परे अस्य उकारस्य वैकल्पिकः लोपः भवति । यथा - 1. स्वादिगणस्य चिञ् (चयने) अस्य लोट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति - चि + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → चि + वस् [<<तिप्तस्..>> 3.4.78 इति उत्तमपुरुषद्विवचनस्य वस्-प्रत्ययः] → चि + श्नु + वस् [<<स्वादिभ्यः श्नुः>> 3.1.73 इति श्नुः] → चि + नु + व [<<लोटो लङ्वत्>> 3.4.85 इत्यनेन लोट्-लकारस्य ङित्-लकारवत् कार्याणि भवन्ति । अतः <<नित्यं ङितः>> 3.4.99 इत्यनेन सकारलोपः] → चिनुव / चिन्व [<<लोपश्चास्यान्यतरस्यां म्वोः>> 6.4.107 इति उकारस्य वैकल्पिकः लोपः] 2. तनादिगणस्य तनुँ (विस्तारे) अस्य लट्लकारस्य उत्तमपुरुषबहुवचनस्य रूपम् एतादृशम् सिद्ध्यति - तन् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → तन् + मस् [<<तिप्तस्..>> 3.4.78 इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः] → तन् + उ + मस् [<<तनादिकृञ्भ्यः उः>> 3.1.73 इति उ-प्रत्ययः] → तनुमः, तन्मः [<<लोपश्चास्यान्यतरस्यां म्वोः>> 6.4.107 इति उकारस्य वैकल्पिकः लोपः] 3. यदि अयमुकारः संयोगपूर्वः अस्ति तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, आप्-धातोः लट्-लकारस्य उत्तमपुरुषबहुवचनस्य रूपसिद्धौ - आप् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → आप् + मस् [<<तिप्तस्..>> 3.4.78 इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः] → आप् + श्नु + मस् [<<स्वादिभ्यः श्नुः>> 3.1.73 इति श्नुः] → आप्नुमः [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] अत्र उकारात् पूर्वः 'प् + न्' इति संयोगः अस्ति अतः अत्र <<लोपश्चास्यान्यतरस्यां म्वोः>> 6.4.107 इत्यस्य प्रसक्तिः नास्ति, अतः उकारस्य लोपः न भवति । ज्ञातव्यम् - वस्तुतः अत्र 'लुक्' इत्यस्य अनुवृत्तिम् कर्तुं शक्यते । तथाप्यत्र 'लोपः' इति उक्तमस्ति । तस्य कारणमेतत् - <<प्रत्ययस्य लुक्श्लुलुपः>> 1.1.61 इत्यनेन 'लुक्' सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । परन्तु अत्र 'श्नु' इत्यस्य केवलं उकारस्य लोपः इष्यते, नकारस्य न । अतः अत्र 'लोपः' इति उक्तमस्ति । एवं क्रियते चेत् <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अन्तिम-उकारस्य लोपः भवितुमर्हति ।
<<लोपश्चास्यान्यतरस्यां म्वोः>> - लोपश्च ।उतश्च प्रत्ययादेसंयोगपूर्वा॑दिति पूर्वसूत्रोक्त उकारोऽस्येत्यनेन परामृश्यते । प्रत्ययशब्दः प्रत्ययसंबन्धिनि वर्तते । असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति । स च अङ्गस्य विशेषणं । तदन्तविधिः । तदाह — असंयोगेति । प्रत्ययोकारैति । प्रत्ययसंबन्धी उकार इत्यर्थः । 'प्रत्यय — उकार' इति व्याख्याने तु सनुनुवः सुनुम इत्यत्र न स्यात्, तत्र श्नोरेव प्रत्ययत्वात् । प्रत्ययेति किम् । युवः । युमः । असंयोगपूर्वादिति किम् । शक्नुवः शक्नुमः । धिन्वः धिनुव इति । अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम् । नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत आह — मिपि त्विति । दिदिन्व । धिन्विता । धिन्विष्यति । धिनोतु ।
अस्येत्यनेनोकारान्तः प्रत्ययः प्रत्यवमृश्यते । अस्येत्यनुच्यमाने म्वोः इति षष्ठ।लश्रयणे न म्वोरेव लोपो विज्ञायेत । एवं च उतश्च प्रत्ययादसंयोगपूर्वात् इति पञ्चमी न बाधिता भवति । लुगिति वर्तमाने इत्यादि । यदि हि प्रकृत एव लुक् क्रियेत, सर्वस्यैव प्रत्ययस्य स्यात् । लुगादयः सर्वादेशः इति संज्ञाविधाववोचाम् । एसर्वस्य लोपे कृते सुन्वः, सुनुव इति न सिध्येत् । तस्मादन्त्यस्य लोपार्थं लोपग्रहणम् । किञ्च - कुर्वः , कुर्म इत्यत्र लुकि सति गुणो न स्यात् न लुमताङ्गस्य इति प्रतिषेधात् । लोपे तु सति भवति ॥