5-4-99 नावः द्विगोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्
index: 5.4.99 sutra: नावो द्विगोः
तत्पुरुषस्य द्विगोः नावः अतद्धितलुकि टच्
index: 5.4.99 sutra: नावो द्विगोः
यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य यदि लुक् भवति तर्हि अयम् टच् प्रत्यय न भवति ।
index: 5.4.99 sutra: नावो द्विगोः
नौशब्दान्तात् द्विगोः टच् प्रत्ययो भवति समासान्तः। द्वे नावौ समाहृते द्विनावम्। त्रिनावम्। द्विनावधनः। पञ्चनावप्रियः। द्वाभ्यां नौभ्यामागतं द्विनावरूप्यम्। द्विनावमयम्। द्विगोः इति किम्? राजनौः। अतद्धितलुकि इत्येव, पञ्चभिर्नौभिः क्रीतः पञ्चनौः। दशनौः।
index: 5.4.99 sutra: नावो द्विगोः
नौशब्दान्ताद्द्विगोष्टच् स्यान्न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतः द्विनावरूप्यः । द्विगोर्लुगनपत्ये <{SK1080}> इत्यत्र अचीत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । अतद्धितलुकीति किम् । पञ्चभिर्नौभिः क्रीतः पञ्चनौः ॥
index: 5.4.99 sutra: नावो द्विगोः
यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु यदि प्रक्रियायाम् द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य लुक् भवति, तत्र टच् प्रत्ययः न विधीयते ।
कानिचन उदाहरणानि एतानि -
→ पञ्चन् + नौ + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]
→ पञ्चन् + नाव् + अ [एचोऽयवायावः 6.1.78 इति आवादेशः]
→ पञ्च + नाव् + अ [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
→ पञ्चनाव
पञ्चानां नावां समाहारः पञ्चनावम् । एवमेव - द्विनावम्, त्रिनावम्, सप्तनावम्, दशनावम् एतादृशाः शब्दाः अपि सिद्ध्यन्ति ।
अत्रापि प्रक्रियायाम् टच्-प्रत्ययात् पूर्वम् कोऽपि अन्यः तद्धितप्रत्ययः नैव विधीयते, अतः तद्धितलुक् अप्यत्र न सम्भवति । अतः अत्र टच्-प्रत्ययः भवत्येव ।
पञ्चन् + नौ + रूप्य [ततः आगतः अस्मिन्नर्थे हेतुमनुष्येभ्यः रूप्यः 4.3.81 इत्यनेन रूप्य-प्रत्ययः । तद्धितार्थोत्तरपदसमाहारे च 2.1.51 इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]
→ पञ्चन् + नौ + टच् + रूप्य [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् प्रत्ययः तद्धितप्रत्ययात् पूर्वम् विधीयते यतः समासः तु 'पञ्चन् + नौ' इत्यस्यैव भवति । रूप्य-प्रत्ययः केवलम् समासनिमित्तकः अस्ति, समासस्य अवयवः न ।]
→ पञ्चन् + नाव् + अ + रूप्य [एचोऽयवायावः 6.1.78 इति अवादेशः]
→ पञ्च + नाव + रूप्य [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
→ पञ्चनावरूप्य
पञ्चभ्यः नौभ्यः आगतम् पञ्चनावरूप्यम् । अत्र प्रक्रियायाम् 'रूप्य' इति तद्धितप्रत्ययः विधीयते, परन्तु तस्य लोपः नैव क्रियते (द्विगोर्लुगनपत्ये 4.1.88 इत्यस्य प्रसक्तिः अत्र न विद्यते यतः अत्र 'रूप्य' इति अजादिप्रत्ययः नास्ति) । अतः अत्र 'टच्' इति समासान्तप्रत्ययः अवश्यं कर्तव्यः ।
= षष् + नौ + टच् + प्रिय [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् समासान्तप्रत्ययः द्विगुसमासस्य अन्ते विधीयते अतः 'प्रिय' शब्दात् पूर्वमेव अस्य स्थापनं क्रियते ।]
→ षष् + नाव् + अ + प्रिय [एचोऽयवायावः 6.1.78 इति अवादेशः]
→ षड् + नाव् + अ + प्रिय [पदान्तषकारस्य झलां जशोऽन्ते 8.2.29 इति जश्त्वे डकारः]
→ षड्नावप्रिय ।
षट् नावः प्रियाः अस्य सः षड्नावप्रियः ।
= पञ्चन् + नौ + ठक् [आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक् 5.1.19 इति ठक्-प्रत्ययः । तद्धितार्थोत्तरपदसमाहारे च 2.1.51 इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]
→ पञ्चन् + नौ [अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इति द्विगुसमासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य लुक्]
→ पञ्च + नौ [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
→ पञ्चनौ
पञ्चभिः नौभिः क्रीतः सः पञ्चनौः अत्र वस्तुतः तत्पुरुषसमासः एव भवति, परन्तु प्रक्रियायाम् 'ठक्' इति समासनिमित्तकस्य तद्धितप्रत्ययस्य लुक् क्रियते । अतः अत्र वर्तमानसूत्रेण समासान्तप्रत्ययः न भवति ।
index: 5.4.99 sutra: नावो द्विगोः
नावो द्विगोः - नावो द्विगोः । न तु तद्धितलुकीति ।गोरतद्धितलुकी॑त्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । द्विनावरूप्य इति । तद्धितार्थे समासः, टच्, आवादेशः ।हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः॑ । तस्य 'द्विगोर्लुगनपत्ये' इति लुकमाशङ्क्याह — द्विगोर्लुगनपत्ये इत्यत्रेति । अपकर्षणादिति ।गोत्रेऽलुगची॑त्यत्तरसूत्रादित्यर्थः । पञ्चनावप्रिय इति । पञ्च नावः प्रिया यस्येति विग्रहे उत्तरपदे द्विगुः, टचि, आवादेशः । द्विनावमिति । द्वयोर्नावोः समाहार इति विग्रहे द्विगुः । टच् । आवादेशः । 'सनपुंसकम्' इति नपुंसकत्वम् । त्रिनावमिति । तिसृणां नावां समाहार इति विगरहः । द्विनाववत् । पञ्चनौरिति । तद्धितार्थे समासः । आर्हीयष्ठक्,अध्यर्धे॑ति लुक् ।