5-4-100 अर्धात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच् नावः द्विगोः
तत्पुरुषस्य अर्धात् नावः टच्
यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति ।
अर्धशब्दात् परो यो नौशब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। अर्धं नावोऽर्धनावम्। <<अर्धं नपुंसकम्>> २.२.२ इति समासः। परवल्लिङ्गं न भवति, लोकाश्रयत्वाल्लिङ्गस्य॥
अर्धान्नावष्टच् स्यात् । नावोऽर्धम् । अर्धनावम् । क्लीबत्वं लोकात् ॥
यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति । यथा - अर्धम् नावः (half part of a boat) [<<अर्धं नपुंसकम्>> 2.2.2 इति प्रथमातत्पुरुषसमासः] → अर्ध + नौ + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → अर्ध + नौ + अ → अर्ध + नाव् + अ [<<एचोऽयवायावः>> 6.1.78 इति आवादेशः] → अर्धनाव अर्धम् नावः अर्धनावम् ।
<<अर्धाच्च>> - अद्र्धाच्च । अद्र्धशब्दात्परो यो नौशब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः । अर्धनावमिति ।अर्धं नपुंसक॑मिति समासः, टच्, आवादेशः । अत्र परवल्लिङ्ग॑मिति स्त्रीत्वामशङ्क्याह — क्लीबत्वं लोकादिति ।