उत्तरमृगपूर्वाच्च सक्थ्नः

5-4-98 उत्तरमृगपूर्वात् च सक्थ्नः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच् उपमानात्

Sampurna sutra

Up

index: 5.4.98 sutra: उत्तरमृगपूर्वाच्च सक्थ्नः


उत्तर-मृग-पूर्वात् उपमानात् च सक्थ्नः

Neelesh Sanskrit Brief

Up

index: 5.4.98 sutra: उत्तरमृगपूर्वाच्च सक्थ्नः


यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'उत्तर', 'मृग', 'पूर्व' एतेषु किञ्चन उत उपमानवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'सक्थिन्' शब्दः अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.98 sutra: उत्तरमृगपूर्वाच्च सक्थ्नः


उत्तर मृग पूर्व इत्येतेभ्यः परो यः सक्थिशब्दः, चकारादुपमानं च, तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवति समासान्तः। उत्तरसक्थम्। मृगसक्थम्। पूर्वस्क्थम्। उपमानात् खल्वपि फलकम् इव सक्थि फलकसक्थम्।

Siddhanta Kaumudi

Up

index: 5.4.98 sutra: उत्तरमृगपूर्वाच्च सक्थ्नः


चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.98 sutra: उत्तरमृगपूर्वाच्च सक्थ्नः


यस्मिन् समासे 'सक्थिन्' (leg) इति शब्दः उत्तरपदरूपेण विद्यते, तथा च 'उत्तर', 'मृग' तथा 'पूर्व' एतेषु कश्चन शब्दः उत उपमानवाची कश्चन शब्दः पूर्वपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।

उदाहरणानि एतानि -

1.उत्तरं सक्थि (The upper part of leg) [ विशेषणं विशेष्येण बहुलम् 2.1.57 इति तत्पुरुषसमासः]

→ उत्तर + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ उत्तर + सक्थ् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ उत्तरसक्थ ।

उत्तरं सक्थि उत्तरसक्थम् ।

  1. मृगस्य सक्थि (Leg of a deer) [षष्ठी 2.2.8 इति तत्पुरुषसमासः]

→ मृग + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ मृग + सक्थ् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ मृगसक्थ ।

मृगस्य सक्थि मृगसक्थम् ।

  1. पूर्वं सक्थि (The lower part of a leg) [पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन 2.1.49 इति तत्पुरुषसमासः]

→ पूर्व + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ पूर्व + सक्थ् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ पूर्वसक्थ ।

पूर्वं सक्थि पूर्वसक्थम् ।

उपमानवाचकस्य पूर्वपदस्य उदाहरणम् एतत् -

  1. फलकम् इव सक्थि [मयूरव्यंसकादयश्च 2.1.72 इति तत्पुरुषसमासः]

→ फलक + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ फलक + सक्थ् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ फलकसक्थ ।

फलकम् इव सक्थि फलकसक्थम् ।

Balamanorama

Up

index: 5.4.98 sutra: उत्तरमृगपूर्वाच्च सक्थ्नः


उत्तरमृगपूर्वाच्च सक्थ्नः - उत्तरमृग । 'उत्तर' 'मृग' 'पूर्व' एभ्य, उपमानाच्च परो यः सक्थिशब्दत्तदन्तास्तत्पुरुषाट्टच्स्यादित्यर्थः । उत्तरसक्थमिति । उत्तरं सक्थीति विग्रहः । पूर्वं सक्थीति विग्रहेपूर्वकालैके॑ति समासः । फलकसक्थमिति । फलकमिव सक्थीति विग्रहे मयूरव्यंसकादित्वात्समासः । सर्वत्र टच्, टिलोपः ।