5-3-13 वा ह च छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः किमः
किमः सप्तम्याः छन्दसि हः च वा
'किम्' शब्दस्य सप्तमीविभक्त्यन्तात् वेदेषु स्वार्थे विकल्पेन 'ह' प्रत्ययः कृतः दृश्यते ।
किमः सप्तम्यन्ताद् वा हः प्रत्ययो भवति छन्दसि विषये। यथाप्राप्तं च। क्व। कुह॑ (ऋ० ८.७३.४)। कुत्रचिदस्य सा दूरे क्व ब्राह्मणस्य चावकाः॥
कुह स्थः कुह जग्मथुः ॥
'किम्' इति कश्चन सर्वनामशब्दः । अस्य सप्तम्येकवचनस्य रूपात् स्वार्थे <<सप्तम्यास्त्रल्>> 5.3.10 इत्यनेन त्रल्-प्रत्ययः तथा च <<किमोऽत्>> 5.3.12 इत्यनेन अत्-प्रत्ययः भवति । वेदेषु अस्मादेव शब्दात् 'ह' प्रत्ययः कृतः अपि दृश्यते । प्रक्रिया इयम् - किम् + ह → कु + ह [<<किमः कः>> 7.2.103 इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा हकारादौ प्रत्यये परे <<कु तिहोः>> 7.2.104 इति 'कु' आदेशः ] → कुह 'कुत्र' इत्यस्मिन्नेव अर्थे 'कुह' इति शब्दः वेदेषु प्रयुज्यते । यथा, ऋग्वेदे 10.129 (नासदीयसूक्तम्) इत्यस्य प्रथमा ऋक् - नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् । किमाव॑रीव॒: कुह॒ कस्य॒ शर्म॒न्नम्भ॒: किमा॑सी॒द्गह॑नं गभी॒रम् ॥ स्मर्तव्यम् - अस्मिन् सूत्रे 'वा' इत्यनेन विकल्पः निर्दिश्यते ।किम्-शब्दात् 'त्रल्' तथा 'अत्' प्रत्ययौ कृत्वा अपि रूपाणि वेदेषु भवितुमर्हन्ति - इति अस्य विकल्पस्य अर्थः ।
<<वा ह च च्छन्दसि>> - वाह च छन्दसि ।हे॑ति लुप्तुप्रथमाकम् । किमः सप्तम्यन्तात् हप्रत्ययः, स्यादित्यर्थः । चादत्, त्रल्च । यद्यपि वैदिकप्रक्रियायामिदमुपन्यसनीयं, तथापि वाग्रहणस्य पूर्वसूत्रेऽपकर्षज्ञानायाऽत्र तदुपन्यासः ।