होत्राभ्यश्छः

5-1-135 होत्राभ्यः छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि वुञ्

Sampurna sutra

Up

index: 5.1.135 sutra: होत्राभ्यश्छः


'तस्य भावः , कर्मणि च' इति होत्राभ्यः छः

Neelesh Sanskrit Brief

Up

index: 5.1.135 sutra: होत्राभ्यश्छः


षष्ठीसमर्थेभ्यः होतृवाचकेभ्यः शब्देभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः छ-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.135 sutra: होत्राभ्यश्छः


गोत्राशब्दः ऋत्विग्विशेषवचनः। ऋत्विग्विशेषवाचिभ्यः छः प्रत्ययो भवति भावकर्मणोः। अच्छावाकस्य भावः कर्म वा अच्छावादीयम्। मित्रावरुणीयम्। ब्राह्मणाच्छंसीयम्। आग्नीध्रीयम्। प्रतिप्रस्थीत्रियम्। त्वष्ट्रीयम्। पोत्रीयम्। बहुवचनं स्वरूपविधिनिरासार्थम्।

Siddhanta Kaumudi

Up

index: 5.1.135 sutra: होत्राभ्यश्छः


होत्राशब्द ऋत्विग्वाची स्त्रीलिङ्गः । वहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा आच्छावाकीयम् । मैत्रावरुणीयम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.135 sutra: होत्राभ्यश्छः


यज्ञस्य विधीन् यः करोति/कारयति सः ऋत्विग्विशेषः 'होतृ' नाम्ना ज्ञायते । ये शब्दाः होतृवाचकाः सन्ति, तेभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः वर्तमानसूत्रेण छ-प्रत्ययः भवति । यथा -

  1. अच्छावाकस्य भावः कर्म वा

= अच्छावाक + छ

→ अच्छावाक + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईय्-आदेशः]

→ अच्छावाक् + ईय [यस्येति च 6.4.148 इति अकारलोपः]

→ अच्छावाकीय

  1. मित्रावरुणस्य भावः कर्म वा मित्रावरुणीयम् ।

  2. ब्राह्मणाच्छंसस्य भावः कर्म वा ब्राह्मणाच्छंसीयम् ।

  3. आग्नीध्रस्य भावः कर्म वा आग्नीध्रंसीयम् ।

  4. प्रतिप्रस्थातुः भावः कर्म वा = प्रतिपस्थातृ + छ → प्रतिपस्थात्रीयम् ।

  5. त्वष्टुः भावः कर्म वा = त्वष्टृ + छ → त्वष्ट्रीयम् ।

  6. पोतुः भावः कर्म वा = पोतृ + छ → पोत्रीयम् ।

स्मर्तव्यम् - अत्र व्याख्यानेषु पाठिताः सर्वे शब्दाः होतृ-विशेषवाचिनः सन्ति (All the words presented in the examples here are specific terms that were used in olden days to indicate different levels/orders of priests) । एतेषां सम्पूर्णा आवली व्याख्यानेषु न कुत्रचित् दत्ता अस्ति, अतः यानि उदाहरणानि अत्र दीयन्ते, तानि एव प्रयोक्तव्यानि ।

ज्ञातव्यम् -

  1. आ च त्वात् 5.1.120 इत्यनेन सूत्रेण एतेभ्यः शब्देभ्यः 'त्व' तथा 'तल्' प्रत्ययौ अपि भवतः । यथा - मित्रावरुणस्य भावः कर्म वा मित्रावरुणत्वम् / मित्रावरुणता ।

  2. अस्मिन् सूत्रे 'होत्राभ्यः' इति बहुवचनस्य प्रयोगः 'स्वरुपविधिनिरासार्थः' अस्ति । इत्युक्ते, 'होतृ'शब्दात् छ-प्रत्ययः न भवति अपितु होतृवाचिशब्दात् भवति - एतत् स्पष्टीकर्तुमत्र बहुवचनम् प्रयुज्यते ।

Balamanorama

Up

index: 5.1.135 sutra: होत्राभ्यश्छः


होत्राभ्यश्छः - होत्राभ्यश्छः । ऋत्विग्वाचीति । याज्ञिकप्रसिद्धेरिति भावः । ऋत्विग्विशेषवाचिभ्यः षष्ठन्तेभ्यश्छः स्याद्भावकर्मणोरित्यर्थः ।अच्छावाकीयमिति ।आ च त्वा॑दिति त्वतलोरपि सर्वत्र समावेशो बोध्यः ।