सर्वपुरुषाभ्यां णढञौ

5-1-10 सर्वपुरुषाभ्यां ण ढञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तस्मै हितम्

Sampurna sutra

Up

'तस्मै हितम्' (इति) सर्व-पुरुषाभ्याम् ण-ढञौ

Neelesh Sanskrit Brief

Up

'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् 'सर्व'शब्दात् ण-प्रत्ययः भवति , तथा च ' वधः, विकारः, समूहः, तेन कृतम्' एतेषु अर्थेषु 'पुरुष' शब्दात् ढञ्-प्रत्ययः भवति ।

Kashika

Up

सर्वपुरुषाभ्यां यथासंख्यं णढञौ प्रत्ययौ भवतः तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। सर्वस्मै हितं सार्वम्। पौरुषेयम्॥ सर्वाद् णस्य वा वचनम्॥ सर्वीयम्॥ पुरुषाद् वधविकारसमूहतेनकृतेष्विति वक्तव्यम्॥ पौरुषेयो वधः, पौरुषेयो विकारः, पौरुषेयः समूहो वा। तेन कृते — पौरुषेयो ग्रन्थः॥

Siddhanta Kaumudi

Up

।<!सर्वाण्णो वेति वक्तव्यम् !> (वार्तिकम्) ॥ सर्वस्मै हितं सार्वम् । सर्वीयम् ॥<!पुरूषाद्वधविकारसमूहतेकृतेषु !> (वार्तिकम्) ॥ भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । पुरुषस्य वधः पौरुषेयः । तस्येदम्-<{SK1500}>इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः । प्राणिरजतादिभ्योऽञ् <{SK1532}> इत्यञि प्राप्ते समुहैऽप्यणि प्राप्ते । एकाकिनोऽपि परितः पौरुषेयवृता इवेति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तस्मै हितम्>> 5.1.5 इत्यनेन सर्वेभ्यः शब्देभ्यः 'हितम्' अस्मिन् अर्थे औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण 'सर्व'शब्दात् ण-प्रत्ययः भवति, तथा च वार्त्तिककारेण प्रोक्तेषु विशिष्टेषु अर्थेषु पुरुष-शब्दात् ढञ्-प्रत्ययः विधीयते । 1. सर्वेभ्यो हितम् = सर्व + ण → सर्व + अ [इत्संज्ञालोपः] → सार्व + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → सार्व् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → सार्व अत्र भाष्यकारः एकं वार्त्तिकम् पाठयति - <!सर्वात् णस्य वा वचनम्!> । इत्युक्ते, 'सर्व'शब्दात् ण-प्रत्ययः केवलं विकल्पेन एव भवति, नित्यम् न । अतः पक्षे औत्सर्गिकः छ-प्रत्ययः अपि भवति - सर्वेषाम् हितम् सर्वीयम् । 2. 'पुरुष' शब्दस्य विषये भाष्यकारः अन्यत् एकम् वार्त्तिकम् पाठयति - <!पुरुषात् वध-विकार-समूह-तेनकृतेषु इति वक्तव्यम्!> । इत्युक्ते, पुरुष-शब्दात् ढञ्-प्रत्ययः 'हितम्' अस्मिन् अर्थे न भवति, अपि तु 'वध', 'विकार', 'समूह' तथा 'तेन कृतम्' एतेषु अर्थेषु भवति - [अ] पुरुषस्य वधः - अत्र <<तस्येदम्>> 4.3.120 इत्यनेन दत्तमण्-प्रत्ययं बाधित्वा ढञ्-प्रत्ययः भवति । [आ] पुरुषस्य विकारः - अत्र <<तस्य विकारः>> 4.3.134 अस्मिन् अर्थे पाठितेन <<प्राणिरजतादिभ्योऽञ्>> 4.3.154 इत्यनेन सूत्रेण अञ्-प्रत्यये प्राप्ते तं बाधित्वा ढञ्-प्रत्ययः विधीयते । [इ] पुरुषाणां समूहः - अत्र <<तस्य समूहः>> 4.2.37 इत्यनेन निर्दिष्टस्य अण्-प्रत्ययस्य बाधकरूपेण ढञ्-प्रत्ययः भवति । [ई] पुरुषेण कृतः ग्रन्थः - अत्र <<कृते ग्रन्थे>> 4.3.116 अनेन प्राप्तं अण्-प्रत्ययं बाधित्वा ढञ्-प्रत्ययः भवति । [उ] पुरुषेण कृतः (अग्रन्थः) - अत्र तु अन्यसूत्रैः किमपि प्रत्ययविधानं न कृतमस्ति, अतः विशिष्टरूपेण ढञ्-प्रत्ययः विधीयते । पुरुषस्य बधः पुरुषस्य विकारः / पुरुषाणां समूहः / पुरुषेण कृतम् = पुरुष + ढञ् → पुरुष + एय [<<आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति एय्-आदेशः] → पौरुष + एय [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → पौरुष् + एय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → पौरुषेय एतेषु चतुर्षु अपि अर्थेषु यथायोग्यम् समर्थविभक्तिः स्वीक्रियते इति स्मर्तव्यम् । विशेषः - अत्र वार्त्तिके 'तेन कृतम्' इति विशिष्टरूपेण 'तेन' इति तृतीयासामर्थ्यम् निर्दिष्टमस्ति । अतः अन्येषु अर्थेषु - यथा 'तस्मै कृतम्' इत्यत्र वर्तमानसूत्रस्य प्रसक्तिः नास्तीति स्मर्तव्यम् ।

Balamanorama

Up

<<सर्वपुरुषाभ्यां णढञौ>> - सर्वपुरुषाभ्याम् । सर्व, पुरुष आभ्यां चतुथ्र्यन्ताभ्यां क्रमाण्णढञौ स्तो हितमित्यर्थे इत्यर्थः । सर्वाण्ण इति । अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम् ।पुरुषाद्वधेति । वार्तिकमिदम् । पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ्स्यात्, न हितार्थे इत्यर्थः । ननुतेन कृत॑मिति समुदायस्य असुबन्तत्वात्कथं समासे निवेश इत्यत आह — भाष्येति । अणि प्राप्ते इति ।अनेन ढ॑ञिति शेषः । प्राणीति । रजतादित्यादञि प्राप्ते अनेन ढञित्यर्थः । समूहेऽप्यणि प्राप्ते इति । पुरुषाणां समूह इत्यर्थे 'तस्य समूहः' इत्यणि प्राप्ते अनेन ढञित्यर्थः । पौरुषेयवृता इवेति । पुरुषसमूहवृता इवेत्यर्थः । परित आदर्शप्रतिफलनादिति भावः । तेन कृते इति । पुरुषेण कृतो ग्रन्थ इत्यर्थे 'कृते ग्रन्थे' इत्यणि प्राप्ते,पुरुषेण कृतः प्रासाद॑ इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढञित्यर्थः । माणव । आभ्यां चतुथ्र्यन्ताभ्यां हितमित्यर्थे खञ्स्यादित्यर्थः ।

Padamanjari

Up

अनुकरणत्वात्सर्वनामकार्याभावः, सर्वनामानिऽ इत्यन्वर्थसंज्ञाविज्ञानात्'प्रकृतिवदनुकरणम्' इत्यपि सर्वनामत्वं न भवति; अनाश्रितार्थस्य शब्दरूपस्यानुकरणात्। पुरुषाद्वधेति। प्रत्ययार्थसामर्थ्येन षष्ठीसमर्थविभक्तिर्लभ्यते, कृते तु तेनत्युपातैव तृतीया। भाष्यकारप्रयोगाच्च द्वन्द्वमध्येऽपि तेनेत्यस्य निवेशः, तत्र वधे-ठ्तस्येदम्ऽ इत्यणोऽपवादः, विकारे -'प्राणिरजतादिभ्यो' ञ्ऽ इत्यञः, समूहेऽपि'तस्य समूहः' इत्यण एव, तेन कृतेऽपि ग्रन्थात्मके -'कृते ग्रन्थे' इत्यण एव। पौरुषेयः प्रासाद इत्यत्र न कस्यचिदपवादः ॥