4-3-154 प्राणिरजतादिभ्यः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे
प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतादिभ्यश्चाञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणादीनामपवादः। अनुदात्तादेरञ् ४.३.१४० विहित एव, परिशिष्टमिहोदाहरणम्। प्राणिभ्यस्तावत् — कापोतम्। मायूरम्। तैत्तिरम्। रजतादिभ्यः — राजतम्। सैसम्। लौहम्। रजतादिषु येऽनुदात्तादयः पठ्यन्ते रजतकण्टकारप्रभृतयः, तेभ्योऽञि सिद्धे पुनर्वचनं मयड्बाधनार्थम्॥ रजत। सीस। लोह। उदुम्बर। नीलदारु। रोहितक। बिभीतक। पीतदारु। तीव्रदारु। त्रिकण्टक। कण्टकार। रजतादिः॥
शौकम् । बाकम् । राजतम् ॥
<<प्राणिरजतादिभ्योऽञ्>> - प्राणिरजतादिभ्योऽञ् । शौकंबाकमिति । शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थः ।प्राणिना कुर्पूर्व॑मित्याद्युदात्तत्वात्अनुदात्तादेश्चे॑त्यञो न प्राप्तिः । राजतमिति । अनुदात्तादित्वादञि सिद्धे मयड्बाधनार्थमञ्विधिः ।
अणादीनामिति । आदिशब्देन मयड् गृह्यते, बहुवचनं तु पूर्ववत् । तत्राद्यौदातेभ्यः प्राणिशब्देभ्योऽणोऽपवादः, वृद्धेभ्यो मयटः, रजतादिष्वपि यदाद्यौदातं तस्मादणोऽपवादः अनुदातादेश्तु मयटः । कापोतम्, मायूरम्, तैतिरमिति । तितिरिशब्दस्तरतेः' सन्वच्चाभ्यासस्य' इति किप्रत्ययान्तोऽन्तोदातः, शेषौ'लघावन्ते' इति मध्योदातौ । परिशिष्टमिहादाहरणमिति चोक्तम्, तस्माच्छुक-बक-गृधादय इहोदाहार्याः । शुकबकशब्दौ'प्राणिनां कुपूर्वाणाम्' इत्याद्यौदातौ । गृध्रशब्दो रन्प्रत्ययान्त आद्यौदातः । कथं तर्हि कापोतमित्याद्यौदाहृतम्, सत्युदातार्थे प्राणिग्रहणेऽनुदातादेरपि प्राणिनः परत्वादनेनैवाञ्भवितुमर्हतीति मन्यते, आह च ठनुदातादेरञः प्राण्यञ्विप्रतिषेधेनऽ इति ? कः पुनरत्र विशेषस्तेन वा सत्यनेन वा ? सापवादकः स विधिर्मयटा परेण बाध्यते, अयं पुनर्निरपवादः, अनेनैव हि परत्वान्मयड् बाध्यते । किं सिद्धं भवति ? श्वाविधो विकारः शौवाविध इति सिद्धं भवति । कथं सिद्धं भवति ? श्वानं विध्यतीति क्विप्,'नहिवृत्ति' इति दीर्घः, ग्रहिज्यादिसम्प्रसारणम्, कृदुतरपदप्रकृतिस्वरेणान्तोदातत्वादनुदातादिः । तत्रानउदातलक्षणस्याञो बाधकं मयट्ंअ परत्वादयमञ् बाधते, द्वारादित्वाद्वृद्धिप्रतिषेधः, ऐजागमश्च ॥