माणवचरकाभ्यां खञ्

5-1-11 माणवचरकाभ्यां खञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तस्मै हितम्

Sampurna sutra

Up

'तस्मै हितम्' (इति) माणव-चरकाभ्याम् खञ्

Neelesh Sanskrit Brief

Up

चतुर्थीसमर्थात् 'माणव'शब्दात् 'चरक'शब्दात् च 'हितम्' अस्मिन् अर्थे खञ्-प्रत्ययः भवति ।

Kashika

Up

माणवचरकशब्दाभ्यां खञ् प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये। छस्यापवादः। माणवाय हितं माणवीनम्। चारकीणम्॥

Siddhanta Kaumudi

Up

माणवाय हितं माणवीनम् । चारकीणम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तस्मै हितम्>> 5.1.5 अनेन सूत्रेण 'हितम्' अस्मिन् अर्थे सर्वेभ्यः शब्देभ्यः औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते वर्तमानसूत्रेण तस्य अपवादरूपेण 'माणव' तथा 'चरक' शब्दात् खञ्-प्रत्ययः भवति । 1. माणवाय हितम् = माणव + ख → माणव + ईन [<<आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईन्-आदेशः] → माणव् + ईन [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः ; <<यस्येति च>> 6.4.148 इति अकारलोपः] → माणवीन 2. चरकाय हितम् = चरक + ख → चरक + ईन [<<आयनेयीनीयिय फघखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईन्-आदेशः] → चारक + ईन [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः ] → चारक् + ईन [<<यस्येति च>> 6.4.148 इति अकारलोपः] → चारकीण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्]

Balamanorama

Up

<<माणवचरकाभ्यां खञ्>> - माणवीनमिति । मनोः कुत्सितमपत्यं माणवः ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोऽण्स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः॑ इत्यपत्याधिकारवार्तिकात् । माणवाय हितमिति विग्रहः । चारकीणमिति चरतीति चरः । पचाद्यच् । ततः स्वार्थिकः कः । [चरकाः] । चरकाय हितमिति विग्रहः ।

Padamanjari

Up

मनोरपत्यं कुत्सितं माणवः, ठपत्ये कुत्सिते मूढःऽ इति णत्वम्, चरतीति चरः,'पचाद्यच्' 'चरिचलिपतिवदीनाम्' इति द्विर्वचनं विकल्पितत्वादिह न भवति, ततः संज्ञायां कन्-चरकः। खञो ञित्करणं वृद्धयर्थं स्वरार्थं च। चरके वृद्ध्यर्थम्, माणवे'वृद्धिनिमितस्य च' इति पुंवद्भावप्रतिषेधार्थम्-माणवीभार्यः ॥