4-3-24 विभाषा पूर्वाह्णापराह्णाभ्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट् ट्युट्युलौ तुट् च
पूर्वाह्णापराह्णशब्दाभ्यां विभाषा ट्युट्युलौ प्रत्ययौ भवतः, तुट् च तयोरागमः। <<कालाट् ठञ्>> ४.३.११ इति ठञि प्राप्ते वचनम्, पक्षे सोऽपि भवति। पूर्वाह्णेतनम्। अपराह्णेतनम्। पौर्वाह्णिकम्। आपराह्णिकम्। <<घकालतनेषु कालनाम्नः>> ६.३.१७ इति सप्तम्या अलुक्। यदा तु न सप्तमी समर्थविभक्तिः। पूर्वाह्णः सोढोऽस्येति तदा पूर्वाह्णतन इति भवितव्यम्॥
आभ्यां ट्युट्युलौ वा स्तस्तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । अपराह्णेतनम् । घकालतनेषु -<{SK975}>इत्यलुक् । पूर्वाह्णः सोढोऽस्येति विग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् । पौर्वाह्णिकम् । आपराह्णिकम् ॥
<<विभाषा पूर्वाह्णापराह्णाभ्याम्>> - विभाषा पूर्वाह्णा । पक्षे ठञिति । तथा सति न तुट्, तस्य ठ्युठ्युल्भ्यां संनियोगशिष्टत्वादिति भावः । तदेवंराष्ट्रावारे॑त्यारभ्य एतदन्तैः सूत्रैः शाष्ट्रादिप्रकृतिविशेषेभ्यो घादयः प्रत्ययविशेषा अनुक्रान्ताः ।
सप्तम्या अलुगिति'ङ्याप्प्रातिपदिकात्' इत्यत्र निरणायि - सुबन्तातद्धितोत्पतिरिति, ततत्रैव द्रष्टव्यम् । यदि सुबन्तातद्धित उत्पद्यते, कथं पूर्वाह्णतन इत्यत्र भवति ? तत्राह - यदा त्विति ॥