4-3-22 सर्वत्र अण् च तलोपः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट् हेमन्तात् च
हेमन्तशब्दादण् प्रत्ययो भवति, तत्सन्नियोगेन चास्य तकारलोपः। हैमनं वासः। हैमनमुपलेपनम्। सर्वत्रग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम्। छन्दसि भाषायां च सर्वत्रैतद् भवति। ननु च छन्दसीति नानुवर्तिष्यते? सैवाननुवृत्तिः शब्देनाख्यायते प्रयत्नाधिक्येन पूर्वसूत्रेऽपि संबन्धार्थम्। हैमन्तिकमिति हि भाषायामपि ठञं स्मरन्ति। अथाण्चेति चकारः किमर्थः? अण्, यथाप्राप्तं च ऋत्वणिति। कः पुनरनयोरणोर्विशेषः? ऋत्वणि हि तकारलोपो नास्ति हैमन्ती पङ्क्तिरिति। तदेवं त्रीणि रूपाणि भवन्ति। हैम॑न्तिकम् (तै० सं० ४.४.११.१), हैमन्तम् (पै०सं० १७.२९.११), है॒म॒नम् (शौ०सं० १५.४.१४) इति॥
हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋत्वण् । हैमनम् । हैमन्तम् ॥
<<सर्वत्राण् च तलोपश्च>> - सर्वत्राऽण्च । छन्दसीत्यनुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । लोके वेदे चेत्यर्थः ।हेमन्ताच्चे॑ति पूर्वसूत्राद्धेमन्तादित्यनुवर्तते । तदाह — हेमन्तादित्यादिना । ननुसर्वत्राऽण् तलोपश्चे॑त्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह — चकारादिति । हैमनमिति ।हेमन्ते॑त्यत्र तकारात्प्राग् नकारस्यानुस्वारपरसवर्णौ स्थितौ । तत्र तकाराकारसमुदायस्य लोप इति पक्षेअ॑निति प्रकृतिभावान्न टिलोपः । तकारस्यैव लोप इति पक्षे तु अकारस्ययस्येति चे॑ति लोपे तस्य आभीयत्वेनासिद्धत्वात्स्थानिवत्त्वाद्वा न टिलोपः । हैमन्तमिति । ऋत्वणि रूपम् । अत्र न तलोपः, तस्य एतत्सूत्रप्रतिपदोक्ताऽणा संनियोगशिष्टत्वादिति भावः ।
हैमनमिति । यदा तशब्दस्य समुदायस्य लोपस्तदा ठन्ऽ इति प्रकृतिभावात्'नस्तद्धिते' इति टिलोपो न भवति । यदा तु तकारस्यानेन लोपोऽकारस्य तु यस्येति लोपः, तदा तस्य ठसिद्धवदत्राभात्ऽ इत्यसिद्धत्वात्स्थानिवद्भावाच्च टिलोपाभावः । ननु च च्छन्दसीति नानुवर्तिष्यत इति । अस्वरितत्वात् । सैवेत्यादि । यासावस्वरितत्वादनुवृत्तिः सैव सर्वत्रेत्यनेन शब्देनाख्यायते, किमर्थम् ? इत्याह -प्रत्यत्नाधिक्येनेति । ननु च तत एवास्वरितत्वात्पूर्वसूत्रेऽपि च्छन्दसीति नानुवर्तिष्यते, तस्माद्विस्पष्टार्थमेव सर्वत्रग्रहणम् । भाषायामपि ठञं स्मरन्तीति । भाष्ये तु नैतदिष्यते, तथा हि - सूत्रमिदं प्रत्याख्यातम्, कथम् ? हेमन्तपर्यायो हेमन्शब्दोऽस्ति -'हेमन्नागनीगन्ति कर्णौ, तस्मादेतौ हेमन्नशुष्यतः, तदि हेमन् प्रमीयते हेमन्तो भवति' इति दर्शनात्, तत्र भाषायां देमन्-हेमन्तशब्दयोरृत्वणि हैमनं हैमन्तमिति रूपद्वयं सिद्धम्, च्छन्दसि तु हेम्नो हैमनम्, हेमन्तस्य'हेमन्ताच्च' इति ठञि हैमन्तिकम्,'सर्वे विधयश्च्छन्दसि विकल्प्यन्ते' इति हेमन्तशब्दादेवाणि हैमन्तमिति रूपत्रयं सिद्धमिति । सूत्रकारेण तु भाषायामेतद्वृत्तिविषयादन्यत्रर्तुवाचिनो हेमञ्च्छब्दस्य प्रयोगाभावान् नलोपो विहितः, यथाप्राप्तं च ऋत्वणिति, अनन्तरस्तु ठञ् सर्वत्रग्रहणस्य पूर्वत्रान्वयेनैव सर्वत्र सिद्धिरिति नासौ समुच्चीयते । कः पुनरनयोर्विशेष इति । न कश्चिदिति भावः त्रीणिरूपाणि भवन्तीति । पूर्वेण ठञि एकम्, अनेनाण्तलोपयोर्द्वितीयम्, ऋत्वणि यस्येति लोपे परमिति त्रीणि रूपाणि ॥