सुवास्त्वादिभ्योऽण्

4-2-77 सुवास्त्वादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

सुवास्तु-आदिभ्यः 'तदस्मिन्नस्तीति देशे तन्नाम्नि , तेन निर्वृत्तम् , तस्य निवासः , अदूरभवश्च' (इति) प्राग्दीव्यतीयः प्रत्ययः अण्

Neelesh Sanskrit Brief

Up

सुवास्तुगणस्य शब्देभ्यः चतुरर्थेषु अण् प्रत्ययः भवति ।

Neelesh English Brief

Up

In the context of चतुरर्थाः, the words of the सुवास्तुगण get the अण् प्रत्यय.

Kashika

Up

सुवास्तु इत्येवमादिभ्योऽण् प्रत्ययो भवति चातुरर्थिकः। अञ उवर्णान्तलक्षणस्य कूपलक्षणस्य चापवादः। सुवास्तोरदूरभवं नगरं सौवास्तवम्। वार्णवम्। अण्ग्रहणं नद्यां मतुपो बाधनार्थम्। सौवास्तवी नदी॥ सुवास्तु। वर्णु। भण्डु। खण्डु। सेचालिन्। कर्पूरिन्। शिखण्डिन्। गर्त। कर्कश। शटीकर्ण। कृष्ण। कर्क। कर्कन्धूमती। गोह्य। अहिसक्थ। वृत्॥

Siddhanta Kaumudi

Up

अञोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्मु, वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> 4.2.67, <<तेन निर्वृत्तम्>> 4.2.68, <<तस्य निवासः>> 4.2.69, तथा <<अदूरभवश्च>> 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषाम् विषये सुवास्तुगणस्य शब्देभ्यः चतुरर्थेषु अण्-प्रत्ययः विधीयते । वस्तुतः अण्-प्रत्ययः चतुरर्थेषु औत्सर्गिकरूपेणैव आगच्छति । परन्तु अस्मिन् गणे विद्यमानाः ये उकारान्तशब्दाः, तेषाम् विषये अयमण्-प्रत्ययः <<ओरञ्>> 4.2.71 इत्यनेन अण्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः विधीयते, तस्य निषेधं कृत्वा अण्-प्रत्ययस्य पुनर्निर्देशार्थम् तेषामस्मिन् गणे समावेशः कृतः अस्ति । अन्येषाम् शब्दानाम् विषये तु <<बह्वचः कूपेषु>> 4.2.73 इत्यनेन कूपस्य निर्देशं कर्तुम् यः अञ्-प्रत्ययः प्रोच्यते, तस्य बाधनमत्र कृतमस्ति । नदीसंज्ञकाः ये शब्दाः अस्मिन् गणे सन्ति, तेषां विषये तु <<नद्यां मतुप्>> 4.2.85 इत्यनेन निर्दिष्टं मतुप्-प्रत्ययं बाधित्वा अण्-प्रत्ययः विधीयते । सुवास्तुगणस्य आवली इयम् - सुवास्तु। वर्णु। भण्डु। खण्डु। सेचालिन्। कर्पूरिन्। शिखण्डिन्। गर्त। कर्कश। शटीकर्ण। कृष्ण। कर्क। कर्ङ्कधू मती। गोह्र। अहिसक्थ। वृत्। कानिचन उदाहरणानि - 1. सुवास्तोः अदूरभवं नगरं = सुवास्तु + अण् → सौवास्तवम् नगरम् । 2. वर्णुः (नदी) अस्मिन् अस्ति सः देशः = वर्णु + अण् → वार्णवः देशः । 3. शिखण्डिना निर्वृतः कूपः = शिखण्डिन् + अण् → शैखण्डिनः कूपः । (अत्र <<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपे प्राप्ते <<इनण्यनपत्ये>> 6.4.164 इत्यनेन सः निषिध्यते ।)

Balamanorama

Up

<<सुवास्त्वादिभ्योऽण्>> - सुवास्त्वादिभ्योऽण् । अञ इति ।ओर॑ञित्यस्यापवाद इत्यर्थः । सौवास्तवमिति । अणि ओर्गुणः । वार्णवमिति । वर्णोरदूरभवमित्यर्थः । ननुओर॑ञित्येव सिद्धे पुनर्विधिसामर्थ्यादेव तदननुवृत्तौ अणि सिद्धे पुनरण्ग्रहणं व्यर्थमित्यत आह — अण्ग्रहणमिति ।

Padamanjari

Up

अञ इति । ठण्ग्रहणरहितसूत्राभिप्रायमेतत् । तस्य तु प्रयोजनं स्वयमेव वक्ष्यति - अण्ग्रहणं मतुपो बाधनार्थम्ऽ इति । तेन वस्तुतो मतुपोऽप्ययमपवादः । अथाण्ग्रहणंकिमर्थम्, न सुवास्त्वादिभ्यो यथा विहितमित्येवोच्येत, पुनर्वचनाद्धै को विहितो न च प्राप्नोति स एव भविष्यति स चाणेव ? तत्राह - अण्ग्रहणमिति । असत्यण्ग्रहणे मध्येऽपवादन्यायेन यताविहितमित्युच्यमानोऽणञ एव बाधकः स्याद्, नदीमतुपा तु परत्वाद्वाध्येत, पुनरण्ग्रहणातु मतुपो विषये भवतीत्यर्थः । किञ्च - ठोरञ्ऽ इत्यस्य नद्यां मतुप्परत्वाद्वाधक इत्युक्तम्, तत्रासत्यण्ग्रहणे यताविहितमित्युच्यमाने नद्याम् ठोरञ्ऽ एव स्याद्, वचनं तु मतुपो बाधनार्थं स्यात् । तस्मादेतदर्थमप्यण्ग्रहणं कर्तव्यम् ॥