4-2-73 बह्वचः कूपेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अञ्
बह्वचः कूपेषु 'तदस्मिन्नस्तीति देशे तन्नाम्नि , तेन निर्वृत्तम् , तस्य निवासः , अदूरभवश्च' (इति) प्राग्दीव्यतीयः प्रत्ययः अञ्
यः शब्दः 'बह्वच्' अस्ति, तस्मात् कूपस्य निर्देशं कर्तुम् चतुरर्थेषु अञ्-प्रत्ययः भवति ।
In the context of चतुरर्थाः, to indicate the name of a well by referring to a word that has three or more स्वराः , अञ् प्रत्यय is used.
बह्वचः प्रातिपदिकादञ् प्रत्ययो भवति चातुरर्थिकः कूपेष्वभिधेयेषु। अणोऽपवादः। यथासंभवमर्थाः संबध्यन्ते। दीर्घवरत्रेण निर्वृत्तः कूपो दैर्घवरत्रः। कापिलवरत्रः।
अणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः ॥
यस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति, तत् प्रातिपदिकम् 'बह्वच्' इति नाम्ना ज्ञायते । अस्य प्रातिपदिकस्य साहाय्येन कूपस्य निर्देशः कर्तव्यः अस्ति चेत् चतुरर्थेषु अञ्-प्रत्ययः भवति । यथा - 1. दीर्घवरत्रेण निर्वृत्तः कूपः = दीर्घवरत्र + अञ् → दैर्घवरत्रः कूपः । 2. कपिलवरत्रेण निर्वृतः कूपः = कपिलवरत्र + अञ् → कापिलवरत्रः कूपः । स्मर्तव्यम् - अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> 4.2.67 , <<तेन निर्वृत्तम्>> 4.2.68, <<तस्य निवासः>> 4.2.69, तथा <<अदूरभवश्च>> 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते ।
<<बह्वचः कूपेषु>> - बह्वचः कूपेषु । बह्वचः प्रातिपदिकादञ्चतुष्र्वर्थेषु । अणोऽपवादः दीर्घवरत्रेण निर्वृतः कूपः — दैर्घवरत्रः ।