4-2-85 नद्यां मतुप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
नद्यामभिधेयायां मतुप् प्रत्ययो भवति चातुरर्थिकः। तन्नाम्नो देशस्य विशेषणं नदी। उदुम्बरा यस्यां सन्ति उदुम्बरावती। मशकावती। वीरणावती। पुष्करावती। इक्षुमती। द्रुमती। इह कस्माद् न भवति — भागीरथी। भैमरथी? मतुबन्तस्यातन्नामधेयत्वात् ।
चातुरर्थिकः । इक्षुमती ॥
<<नद्यां मतुप्>> - नद्यां मतुप् । चातुरर्थिक इति । शेषपूरणम् । इक्षमतीति । मतुपि उपावितौ । इक्षवः सन्त्यस्मिन् इत्यर्थः ।