ओरञ्

4-2-71 ओः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

'तदस्मिन्नस्तीति देशे तन्नाम्नि', 'तेन निर्वृत्तम्', 'तस्य निवासः', 'अदूरभवश्च' इति ओः अञ्

Neelesh Sanskrit Brief

Up

चतुरर्थानां विषये उकारान्त-प्रातिपदिकात् अञ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

The उवर्णान्त प्रातिपदिकs get the प्रत्यय अञ् in the context of चतुरर्थाः.

Kashika

Up

चत्वारोऽर्थाः (४.२.६७ — ७०) अनुवर्तन्ते। उवर्णान्तात् प्रातिपदिकाद् यथाविहितं समर्थविभक्तियुक्तादञ् प्रत्ययो भवति तदस्मिन्नस्तीत्येवमादिष्वर्थेषु। अणोऽपवादः। अरडु — आरडवम्। कक्षतु — काक्षतवम्। कर्कटेलु — कार्कटेलवम्। नद्यां तु परत्वाद् मतुब् भवति। इक्षुमती। अञधिकारः प्राक् सुवास्त्वादिभ्योऽणः ४.२.७७

Siddhanta Kaumudi

Up

अणोऽपवादः । कक्षतु-काक्षतवम् । नद्यां तु परत्वान्मतुप् । इक्षुमती ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> 4.2.67, <<तेन निर्वृत्तम्>> 4.2.68, <<तस्य निवासः>> 4.2.69, तथा <<अदूरभवश्च>> 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् विषये उवर्णान्त-प्रातिपदिकात् औत्सर्गिकमण्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः भवति । यथा - 1. अरडवः अस्मिन् देशे सन्ति सः = अरडु + अञ् → आरडवः देशः । 2. पुरुणा निर्वृत्तः देशः = पुरु + अञ् → पौरवः देशः । 3. कक्षतूनाम् निवासः देशः = कक्षतु + अञ् → काक्षतवः देशः । 4. कर्कटेलूनामदूरभवः देशः = कर्कटेलु + अञ् → कार्कटेलवः देशः । ज्ञातव्यम् - 1. अण्-प्रत्ययेन अञ्-प्रत्ययेन च समानमेव रूपं जायते, परन्तु अञ्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन आद्युदात्ताः सन्ति । 2. चतुरर्थैः नद्याः नाम्नः निर्देशः कर्तव्यः अस्ति चेत् उवर्णान्त-प्रातिपदिकात् <<नद्यां मतुप्>> 4.2.85 इत्यनेन मतुप्-प्रत्ययः विधीयते । अयं प्रत्ययः वर्तमानसूत्रेण निर्दिष्टमञ्-प्रत्ययं बाधित्वा आगच्छति ।

Balamanorama

Up

Padamanjari

Up

अरडुःउक्षत्रियविशेषः । नद्यां तु मतुप्परत्वादिति । आरडवमित्यादिरञोऽवकाशः,'नद्यां मतुप्' इत्यस्योदुम्बरावतीत्यादिः ॥