4-2-76 स्त्रीषु सौवीरसाल्वप्राक्षु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अञ्
सौवीरसाल्वप्राक्षु स्त्रीषु 'तदस्मिन्नस्तीति देशे तन्नाम्नि , तेन निर्वृत्तम् , तस्य निवासः , अदूरभवश्च' (इति) प्राग्दीव्यतीयः प्रत्ययः अञ्
सौवीरे विद्यमानस्य देशस्य, साल्वे विद्यमानस्य देशस्य, तथा पूर्वदिशि विद्यमानस्य देशस्य चतुरर्थेषु स्त्रीलिङ्गे अभिधानम् कर्तव्यमस्ति चेत् अञ्-प्रत्ययः विधीयते ।
In the context of चतुरर्थाः, To indicate the feminine name of a country in the सौवीर region, शाल्व region or eastern region, the अञ् प्रत्यय is used.
देशे तन्नाम्नीत्यस्य विशेषणं सौवीरादयः, स्त्रीत्वं च । ङ्याप्प्रातिपदिकादञ् प्रत्ययो भवति चातुरर्थिकः, अणोऽपवादः, सौवीरे स्त्रीलिङ्गे देशे वाच्ये साल्वे प्राचि। सौवीरे तावत् — दत्तामित्रेण निर्वृत्ता नगरी दात्तामित्री। साल्वे — विधूमाग्निना निर्वृत्ता वैधूमाग्नी। प्राचि खल्वपि — ककन्देन निर्वृत्ता काकन्दी। माकन्दी। माणिचरी। जारुषी॥
स्त्रीलिङ्गेषु एषु देशेषु वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । साल्वे, वैधूमाग्नी । प्राचि, माकन्दी ॥
यदि सौवीरे विद्यमानस्य देशस्य/साल्वे विद्यमानस्य देशस्य चतुरर्थेषु स्त्रीलिङ्गे निर्देशः कर्तव्यः अस्ति, यदि वा पूर्वदिशि विद्यमानानाम् देशानाम् चतुरर्थेषु स्त्रीलिङ्गे निर्देशः कर्तव्यः अस्ति, तर्हि वर्तमानसूत्रेण अञ्-प्रत्ययः विधीयते । यथा 1. सौवीरदेशे वर्तमाना, दत्तमित्रेण निर्वृत्ता नगरी = दत्तमित्र + अञ् + ङीप् → दात्तमित्री नगरी । 2. साल्वदेशे वर्तमाना, विधूमाग्निना निर्वृत्ता नगरी = विधूमाग्नि + अञ् + ङीप् → वैधूमाग्नी नगरी । 3. पूर्वदिशि विद्यमाना, ककन्देन निर्वृत्ता नगरी = ककन्द + अञ् + ङीप् → काकन्दी नगरी । 4. पूर्वदिशि विद्यमाना, मकन्देन निर्वृत्ता नगरी = मकन्द + अञ् + ङीप् → माकन्दी नगरी । 5. पूर्वदिशि विद्यमाना, जरुषेण निर्वृत्ता नगरी = जरुष + अञ् + ङीप् → जारुषी नगरी । ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः 'स्त्रीषु' अयम् शब्दः 'देश' इत्यस्य विशेषणरूपेण प्रयुक्तः अस्ति । यः देशः स्त्रीलिङ्गवाची अस्ति (यथा 'नगरी', 'पुरी' आदयः) तस्य अयम् निर्देशः । 2. अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> 4.2.67, <<तेन निर्वृत्तम्>> 4.2.68, <<तस्य निवासः>> 4.2.69, तथा <<अदूरभवश्च>> 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते ।
<<स्त्रीषु सौवीरसाल्वप्राक्षु>> - स्त्रीषु सौवीर । सौवीरे इति । 'उदाहरणं वक्ष्यते' इति शेषः । दात्तामित्री नगरीति ।टिड्ढे॑ति ङीप् । साल्वे इति । 'उदाह्यियते' इति शेषः । वैधूमाग्नीति । विधामाग्निना निर्वृत्तेत्यर्थः । अञि ङीप् । प्राचीति । प्राचि देशे उदाह्यियत इत्यर्थः । माकन्दीति । माकन्देन निर्वृत्तेत्यर्थः ।