अनुदात्तादेरञ्

4-2-44 अनुदात्तादेः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः

Sampurna sutra

Up

तस्य समूहः (इति) अनुदात्तादेः अञ्

Neelesh Sanskrit Brief

Up

अनुदात्तादिशब्दात् 'तस्य समूहः' अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

For the words whose first vowel is अनुदात्त, the अञ् प्रत्यय is added in the meaning of 'तस्य समूहः'.

Kashika

Up

अनुदात्तादेः शब्दादञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। कपोतानां समूहः कापोतम्। मायूरम्। तैत्तिरम्॥

Siddhanta Kaumudi

Up

कापोतम् । मायूरम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यस्य शब्दस्य प्रथमः स्वरः अनुदात्तः अस्ति, तस्मात् शब्दात् 'तस्य समूहः' अस्मिन् अर्थे अञ्-प्रत्ययः क्रियते । यथा, कपोत, मयूर, तित्तिर एते शब्दाः अनुदात्तादयः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्तिः दृश्यते - 1. कपोतानाम् समूहः कापोतम् । 2. मयूराणां समूहः मायूरम् । 3. तित्तिराणां समूहः तैत्तिरम् । ज्ञातव्यम् - 1. 'अञ्' प्रत्ययः 'ञित्' अस्ति, अतः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन अञ्-प्रत्यये कृते प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः उदात्तः जायते । अनेन प्रकारेण प्रकृतौ विद्यमानः अनुदात्तः आदिस्वरः प्रक्रियायाः अनन्तरमुदात्तत्वं प्राप्नोति । 2. यदि कश्चन शब्दः अचित्तवाची अस्ति तथा अनुदात्तादिः अपि अस्ति, तर्हि वर्तमानसूत्रेण अञ्-प्रत्यये प्राप्ते तं परत्वात् बाधित्वा <<अचित्तहस्तिधेनोष्ठक्>> 4.2.47 इत्यनेन ठक्-प्रत्ययः विधीयते ।

Balamanorama

Up

<<अनुदात्तादेरञ्>> - अनुदात्तादेरञ् । समूह इत्येव । कापोतं । मायूरमिति ।लघावन्ते द्वयोश्च बह्वषो गुरु॑रिति कपोतमयूरशब्दौ मध्योदात्ताविति भावः ।

Padamanjari

Up

अचितात्परत्वाद् ठका भवितव्यमिति । चितवन्त उदाहृताः, कपोतमयूरशब्दौ'लघावन्ते' इति मध्योदातौ, इगुपधात्कः, तरतेः सन्वतुक् चाभ्यासस्येति किप्रत्ययान्तस्तितिरिशब्दः प्रत्ययस्वरेणान्तोदातः । सन्वद्भावेनाद्यौदातत्वं न भवति; ठुणादयो बहुलम्ऽ इति बहुलवचनात् ॥