केशाश्वाभ्यां यञ्छावन्यतरस्याम्

4-2-48 केशाश्वाभ्यां यञ् छौ अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः

Sampurna sutra

Up

तस्य समूहः (इति) केश-अश्वाभ्याम् यञ् छौ अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

'तस्य समूहः' अस्मिन् अर्थे केशशब्दात् यञ्-प्रत्ययः , तथा अश्वशब्दात् छ-प्रत्ययः विकल्पेन भवति ।

Neelesh English Brief

Up

The word केश optionally gets the प्रत्यय यञ् to indicate the meaning of 'तस्य समूहः'. The word अश्व optionally gets the प्रत्यय छ to indicate the meaning of 'तस्य समूहः'

Kashika

Up

केश अश्व इत्येताभ्यां यथासंख्यं यञ् छ इत्येतौ प्रत्ययौ भवतोऽन्यतरस्यां तस्य समूह इत्येतस्मिन् विषये। केशानां समूहः कैश्यम्। कैशिकम्। अश्वानां समूहः अश्वीयम्। आश्वम्॥

Siddhanta Kaumudi

Up

पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे - 1) 'केश' शब्दात् विकल्पेन यञ्-प्रत्ययः भवति, पक्षे <<अचित्तहस्तिधेनोष्ठक्>> 4.2.47 इत्यनेन ठक्-प्रत्ययः अपि विधीयते । 2) 'अश्व'शब्दात् विकल्पेन छ-प्रत्ययः भवति, पक्षे औत्सर्गिकः अण् प्रत्ययः अपि विधीयते । यथा - 1) केशानां समूहः कैश्यम् कैशिकम् वा । यञ्-प्रत्यये परे प्रक्रिया - केश + यञ् → कैश + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → कैश् + य [<<यस्येति च>> 6.4.148 इति अकारलोपः] → कैश्य (पक्षे) ठक्-प्रत्यये परे प्रक्रिया - केश+ ठक् → केश + इक [<<ठस्येकः>> 8.3.50 इति इक्-आदेशः] → कैश + इक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → कैश् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → कैशिक 2) अश्वानां समूहः अश्वीयमाश्वम् वा । छ-प्रत्यये परे प्रक्रिया - अश्व + छ → अश्व + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईय्-आदेशः] → अश्व् + ईय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → अश्वीय (पक्षे) अण्-प्रत्यये परे प्रक्रिया- अश्व + अण् → अाश्व + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → आश्व् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → आश्व

Balamanorama

Up

<<केशाश्वाभ्यां यञ्छावन्यतरस्याम्>> - केशाआआभ्यां । समूह इत्येव । केशाद्यञ् वा, अआआच्छो वेत्यर्थः । पक्षे इति । केशाद्यञभावेअचित्ते॑ति ठक् । अआच्छाऽभावे अणित्यर्थः । कैश्यं कैशिकमिति । केशानां समूह सति विग्रहः । क्रमेण यञ्ठकौ । अआईयमाआमिति । क्रमेण छाऽणौ ।

Padamanjari

Up