6-1-62 अचि शीर्षः उपदेशे
आजादौ तद्धिते शिरसः शीर्षशब्द आदेशो भवति। हस्तिशिरसोऽपत्यं हास्तिशीर्षिः। <<बाह्वादिभ्यश्च>> ४.१.९६ इति इञ्। स्थूलशिरस इदं स्थौलशीर्षम्। शीर्षन्भावे हि <<अन्>> ६.४.१६७ इति प्रकृतिभावः स्यात्। हास्तिशीर्षिशब्दात् स्त्रियामिञः <<अणिञोरनार्षयोः०>> ४.१.७८ ष्यङादेशे कृते शीर्षस्य शिरःशब्दग्रहणेन ग्रहणात् शीर्षन्नादेशः प्राप्नोति। तत्र प्रकृतिभावे सति हास्तिशीर्षण्येत्यनिष्टं रूपं स्यात्। इष्यते तु हास्तिशीर्ष्येति। तत् कथम् ? कर्तव्योऽत्र यत्नः। अणिञन्ताद् वा परः प्रत्ययः ष्यङाश्रयितव्यः, तत्र यस्येतिलोपस्य स्थानिवद्भावाद् व्यवधानम्॥
शीर्षन्भावे ह्यन्निति प्रकृतिभावः स्यादिति। अतोऽकारान्तमादेशान्तरं विहितमिति भावः। कर्तव्योऽत्र यत्न इति। तत्रायं यत्नः -शीर्षन्नादेशसन्नि पातकृतः ष्यङदेशस्तद्विघातस्य निमितं न भवतीति। अणिञन्ताद्वा पर इति। ठणिञोरनार्षयोःऽ इत्यादेशपक्षप्रहाणेन प्रत्ययपक्ष आश्रयणीयः, आदेशपक्ष एव वा स्थित्वा यत्नः कर्तव्य इति वाशब्दार्थः ॥