ऋष्यन्धकवृष्णिकुरुभ्यश्च

4-1-114 ऋष्यन्धकवृष्णिकुरुभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अण्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) ऋषि-अन्धक-वृष्णि-कुरुभ्यः अण्

Neelesh Sanskrit Brief

Up

ऋषिवाचिशब्देभ्यः, अन्धककुलवाचिशब्देभ्यः वृष्णिकुलवाचिशब्देभ्यः तथा कुरुकुलवाचिशब्देभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति ।

Neelesh English Brief

Up

To indicate the meaning of 'his/her offspring', the words that are names of a ऋषि, or which belong to the अन्धक / वृष्णि / कुरु family get the 'अण्' प्रत्यय.

Kashika

Up

ऋषयः प्रसिद्धा वसिष्ठादयः। अन्धका वृष्णयः कुरव इति वंशाख्याः। ऋष्यादिकुर्वन्तेभ्यः प्रातिपदिकेभ्योऽपत्येऽण् प्रत्ययो भवति। इञोऽपवादः। अत्र्यादिभ्यस्तु परत्वाड् ढगादिभिरेव भवितव्यम्। ऋषिभ्यस्तावत् — वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः — श्वाफल्कः। रान्धसः। वृष्णिभ्यः — वासुदेवः। आनिरुद्धः। कुरुभ्यः — नाकुलः। साहदेवः। कथं पुनर्नित्यानां शब्दानामन्धकादिवंशसमाश्रयणेनान्वाख्यानं युज्यते? केचिदाहुः — कथमपि काकतालीयन्यायेन कुर्वादिवंशेष्वसंकरेणैव नकुलसहदेवादयः शब्दास्सुबहवः संकलिताः, तानुपादाय पाणिनिना स्मृतिरुपनिबद्धेति। अथवान्धकवृष्णिकुरुवंशा अपि नित्या एव, तेषु ये शब्दाः प्रयुज्यन्ते नकुलसहदेवादयः, तत्रेदं प्रत्ययविधानमित्यदोषः॥

Siddhanta Kaumudi

Up

ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः, श्वाफल्कः । वृष्णिभ्यः, वासुदेवः । अनिरुद्धः । शौरि इति तु बाह्वादित्वादिञ् । कुरुभ्यः, नाकुलः । साहदेवः । इञ एवायमपवादः, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः ॥

Laghu Siddhanta Kaumudi

Up

ऋषिभ्यः - वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः - श्वाफल्कः। वृष्णिभ्यः - वासुदेवः। कुरुभ्यः - नाकुलः। साहदेवः॥

Neelesh Sanskrit Detailed

Up

यः शब्दः - ऋषिवाचकः अस्ति / अन्धककुलोत्पन्नस्य अभिधानम् अस्ति / वृष्णिकुलोत्पन्नस्य अभिधानम् अस्ति / कुरुकुलोत्पन्नस्य अभिधानमस्ति, तस्मात् शब्दात् अपत्यार्थे अण् प्रत्ययः विधीयते । उदाहरणानि अधः दत्तानि सन्ति । एतेषां सर्वेषां विषये <<अत इञ्>> 4.1.95 इत्यनेन इञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । 1) ऋषिवाचकाः शब्दाः - अ) वसिष्ठस्य अपत्यम् पुमान् = वसिष्ठ + अण् → वासिष्ठ । आ) विश्वामित्रस्य अपत्यम् पुमान् = विश्वामित्र + अण् → वैश्वामित्र । 2) अन्धककुलवाचकाः शब्दाः - अ) श्वफल्कस्य अपत्यम् पुमान् = श्वफल्क + अण् → श्वाफल्क । आ) रन्धसः अपत्यम् पुमान् = रन्धस् + अण् → रान्धस । 3) वृष्णिकुलवाचकाः शब्दाः - अ) वसुदेवस्य अपत्यम् पुमान् = वसुदेव + अण् → वासुदेव । आ) अनिरूद्धस्य अपत्यम् पुमान् = अनिरुद्ध + अण् = आनिरुद्ध । 4) कुरुकुलवाचकाः शब्दाः - अ) नकुलस्य अपत्यम् पुमान् = नकुल + अण् → नाकुल । आ) सहदेवस्य अपत्यम् पुमान् = सहदेव + अण् → साहदेव । ज्ञातव्यम् - 1. कृष्ण, युधिष्ठिर, अर्जुन, साम्ब, प्रद्युम्न - एते सर्वे शब्दाः यद्यप्यत्र निर्दिष्टकुलोत्पन्नानां अभिधानानि सन्ति, तथापि तेषाम् विषये वर्तमानसूत्रेण अण्-प्रत्यये प्राप्ते तं बाधित्वा <<बाह्वादिभ्यश्च>> 4.1.96 इत्यनेन इञ्-प्रत्ययः भवति । 2. 'अत्रि' अयम् ऋषिवाचकः शब्दः अस्ति, अतः वस्तुतः तस्य विषये वर्तमानसूत्रस्य प्रसक्तिः अस्ति, परन्तु तं परत्वात् बाधित्वा <<इतश्चानिञः>> 4.1.122 इत्यनेन ढक्-प्रत्ययविधानम् कृत्वा 'आत्रेय' इति रूपं सिद्ध्यति । 3. यदि नकुल, सहदेव एतादृशानि नामानि अन्यकुलोत्पन्नस्य विषये प्रयुज्यन्ते, तर्हि तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, नकुल-नाम्नः युवकस्य अपत्यनिर्देशार्थं तु <<अत इञ्>> 4.1.95 इत्यनेन इञ्-प्रत्ययः एव भवेत् । 4. अस्मिन् सूत्रे 'ऋषि' इति निर्देशः कृतः अस्ति । किम् नाम ऋषिः ? स्वस्य तपोबलेन प्रलीनान् वेदान् ये पुनः प्राप्नुवन्, ते 'ऋषयः' नाम्ना ज्ञायन्ते । तैत्तिरीयारण्यके द्वितीय प्रपाठके नवमे अनुवाके (2.9) उच्यते - 'अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयम्भ्वभ्यानर्षत्, त ऋषयोऽभवन्, तदृषीणामृषित्वम्' । इत्युक्ते, 'तपोबलवशात् प्रलीनान् वेदान् ये अर्षन्ति (=प्राप्नुवन्ति) ते ऋषयः' ।

Balamanorama

Up

<<ऋष्यन्धकवृष्णिकुरुभ्यश्च>> - ऋष्यन्धक । प्रलीना वेदास्तपोबलवशाद्यान् अर्षन्ति=प्राप्तनुवन्ति ते ऋषयः । तथा च तैत्तिरीये श्रुतम् — ॒अजान्ह वै पृश्नींस्तपस्यमानान्ब्राहृ स्वयम्भ्वभ्यानर्षत्, त ऋषयोऽभवन्, तदृषीणामृषित्व॑मिति । अजाः=नित्याः, पृस्नयः=शुक्लाः । शुद्धा इति यावत् । तान्तपस्यमानांस्तपश्चरतः स्वयम्भु=अनादि ब्राहृ वेदः अभ्यानर्षत् ।ऋष गतौ॑ । आभिमुख्येन प्राप्नोत् । ते वेदस्य अर्षणादृषिशब्दवाच्या अभव॑न्निति वेदभाष्यम् ।सर्बादिसमये वेदान्सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा । ॑ इति पुराणेषु प्रसिद्धं कात्यायनप्रणीतसर्वानुक्रमणिकाख्यग्रन्थेस्पष्टमेतत् । तदाह — ऋषयो मन्त्रद्रष्टार इति । अन्धकशब्देन वृष्णिशब्देन कुरुशब्देन च अन्धकादिवंश्या विवक्षिताः । ऋषिविशेषवाचिभ्योऽन्धकादिवंश्यवाचिभ्यश्चापत्ये अण् स्यादित्यर्थः । इञोऽपवादः । ऋषिभ्य उदाहरति — बासिष्ठः वैआआमित्र इति ।अन्धकेभ्य इति । अन्धकवंश्यवाचिभ्य उदाह्यियते इत्यर्थः । वासुदेव इति । वसुदेवस्यापत्यमिति विग्रहः । आनिरुद्ध इति । अनिरुद्धस्यापत्यमिति विग्रहः । ननु शूरो नाम कश्चिद्वृष्णिवंश्यः, तस्यापत्यं शौरिः कथम्स अण्प्रसङ्गादित्यत आह — शौरिरिति त्विति ।बाह्वादित्वा॑दित्यनन्तरमिञा समाधेय॑मिति शेषः । कुरुभ्य इति । कुरुवंश्यवाचिभ्य उदाह्यियते इत्यर्थः । नकुलसहदेवौ प्रसिद्धौ । नन्वत्रेरपत्यमित्यर्थे '#इतश्चानिञ' इति ढकि आत्रेय इति कथम्, ऋष्यणा इञ इव ढकोपि बाधौचित्यादित्यत आह — इञ एवेति । न तु ढक इत्यर्थः ।

Padamanjari

Up