मनः
4-1-11 मनः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् न
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
मन्नन्तात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति ।
Kashika
Up
मन्नन्तात् प्रातिपदिकात् ङीप् प्रत्ययो न भवति। <<ऋन्नेभ्यो ङीप्>> ४.१.५ इति ङीप् प्राप्तो मन इति सूत्रेण प्रतिषिध्यते। दामा, दामानौ, दामानः। पामा, पामानौ, पामानः। <<अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति>> (परि०१६)। सीमा, सीमानौ, सीमानः। अतिमहिमा, अतिमहिमानौ, अतिमहिमानः॥
Siddhanta Kaumudi
Up
मन्नन्तान्न ङीप् । सीमा । सीमानौ ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु ङीप् इति अन्यतमः प्रत्ययः । अस्य प्रत्ययस्य निषेधः प्रकृतसूत्रेण पाठितः अस्ति । मन् इति शब्दः यस्य अन्ते अस्ति, तादृशेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः न भवति — इति अस्य सूत्रस्य अर्थः । नकारान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन ङीप्-प्रत्यये प्राप्ते मन्नन्तेभ्यः शब्देभ्यः तस्य बाधनार्थम् प्रकृतसूत्रम् विरचितम् अस्ति । यथा —
- सीमन् (boundary) इति स्त्रीलिङ्गशब्दात् स्त्रीत्वे द्योत्ये <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन प्राप्तः ङीप्-प्रत्ययः न भवति, अतः अयं शब्दः स्त्रीप्रत्ययं विना एव वाक्ये प्रयुज्यते । यथा — देशस्य चतस्रः सीमानः इति ।
- महिमन् इत्यस्मात् पुंलिङ्गशब्दात् स्त्रीत्वे द्योत्ये <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन प्राप्तः ङीप्-प्रत्ययः न भवति, अतः अयं शब्दः पुंलिङ्गे एव वाक्ये प्रयुज्यते । यथा — देव्याः महिमा कीदृशः? इति ।
- अतिक्रान्ता महिमानम् या इत्यत्र तत्पुरुषसमासे कृते अतिमहिमन् इति प्राप्तम् प्रातिपदिकम् अपि मन्नन्तम् एव अस्ति, अतः अस्य विषये अपि प्रकृतसूत्रम् उपयुज्य ङीप्-प्रत्ययः निषिध्यते । यथा, अतिमहिमा देवी प्रकटति इति ।
बाध्यबाधकभावः
<<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य निषेधरूपेण प्रकृतसूत्रं प्रवर्तते । ङीप्-प्रत्ययस्य एतादृशे निषेधे कृते, ततः <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इत्यनेन विकल्पेन डाप्-प्रत्ययः अपि भवति, येन सीमन् + डाप् → सीमा इति आकारान्तस्त्रीलिङ्गशब्दः अपि सिद्ध्यति ।
(परिभाषा 16) अनिनस्मन्ग्रहणानि अर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयति
यत्र सूत्रे विद्यमानेन शब्देन अर्थवतः पदार्थस्य ग्रहणं सम्भवति, तत्र तेन शब्देन अनर्थकस्य ग्रहणं नैव करणीयम् इति <<अर्थवद्ग्रहणे नानर्थकस्य>> इत्यनया परिभाषया ज्ञाप्यते । अतः, प्रकृतसूत्रस्य विषये मन् इत्यनेन मनिन्-प्रत्ययस्य ग्रहणे सम्भवे सति सीमन्, अतिमहिमन् इत्यादीनां शब्दानाम् अन्ते विद्यमानस्य अनर्थकस्य मन्-शब्दस्य ग्रहणं कथं शक्यम् — इति प्रश्नः उदेति । सीमन् इति शब्दः अव्युत्पन्नः अस्ति, महिमन् इति शब्दे इमनिच्-प्रत्ययः विद्यते, अतः उभयत्र विद्यमानः 'मन्' इति अंशः अनर्थकः एव वर्तते; तर्हि अस्यां स्थितौ अत्र तदन्तविधिः कथं भवेत् — इति अस्य प्रश्नस्य आशयः । अस्य समाधानार्थम् एव परिभाषेन्दुशेखरे <<अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयति>> इति काचित् अपरा परिभाषा पाठ्यते । यस्मिन् सूत्रे अन्, इन्, अस्, मन् इत्येतेभ्यः कस्यचन शब्दस्य निर्देशं कृत्वा तस्य विषये कश्चन विधिः उच्यते, तत्र एते शब्दाः अनर्थकाः सन्ति चेदपि (इत्युक्ते, प्रत्ययसंज्ञकाः न सन्ति चेदपि) सः विधिः तदन्ताद् एव भवति — इति अस्याः परिभाषायाः आशयः । अनयैव परिभाषया अत्रापि सीमन्, महिमन् इत्यादीनां शब्दानां विषये प्रकृतसूत्रं अवश्यं प्रवर्तते — इति निर्णयः दीयते ।
Balamanorama
Up
<<मनः>> - मनः ।न षट्स्वरुआआदिभ्यः॑ इत्यतो नेतिऋन्नेभ्यः इत्यतो ङीबिति चानु वर्तते । 'मन' इति प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रंते । तदाह — मन्नन्तादिति । सीमेति । 'पिञ् बन्धने' औणादिको मनिन्, प्रकृतेदीर्घश्च । सीमन्शब्दान्ङीपि निषिद्धे राजवद्रूपम् । ङीपि सति तु अल्लोपे सीम्नीति स्यादिति भावः । ननु वक्ष्यमाणडापि सीमेति सौ रूपसिद्धेः किं ङीब्निषेधेनेत्यत आह — सीमानाविति । डापि तु सति 'सीमे' इत्येव स्यादिति भावः ।
Padamanjari
Up
अनिनस्मन्ग्रहणानीति । अन्, इन्, अस्, मन् - इत्येतेषां ग्रहणे अर्थवत्परिभाषा न व्याप्रियते, तेनैषामनर्थकानामपि ग्रहणं भवति । एभिश्चार्थवद्भिरनर्थकैश्च तदन्तविधिर्भवतीत्यर्थः । सीमन्शब्दोऽव्युत्पन्नं प्रातिपदिकम् । अतिक्रान्ता महिमानमतिमहिमा, अत्रापीमनिच एवार्थवत्वम्, न तु मनः ॥