1-3-91 द्युद्भ्यः लुङि धातवः कर्तरि कर्तरि परस्मैपदम् वा
वेत्येव। <<द्युत दीप्तौ>> तत्साहचर्याद् लुठादयोऽपि कृपूपर्यन्तास्तथैव व्यपदिश्यन्ते। बहुवचननिर्देशादाद्यर्थो भवति। अनुदात्तेत्त्वान्नित्यमेवात्मनेपदे प्राप्ते, द्युतादिभ्यो लुङि वा परस्मैपदं भवति। व्यद्युतत्, व्यद्योतिष्ट। अलुठत्, अलोठिष्ट। लुङीति किम्? द्योतते॥
द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदेऽङ् । अद्युतत् । अद्योतिष्ट ।{$ {!742 श्विता!} वर्णे$} । श्वेतते । शिश्विते । अश्वितत् । अश्वेतिष्ट ।{$ {!743 ञिमिदा!} स्नेहने$} । मेदते ॥
द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादीत्यङ् । अद्युतत्, अद्योतिष्ट । अद्योतिष्यत ॥ एवं ॥ {$ {! 5 श्विता !} वर्णे $} (धातुपाठे <{01.0843}>) ॥ {$ {! 6 ञिमिदा !} स्नेहने $} (धातुपाठे <{01.0844}>) ॥ {$ {! 7 ञिष्विदा !} स्नेहनमोचनयोः $} (धातुपाठे <{01.0845}>) ॥ मोहनयोरित्येके ॥ ञिक्ष्विदा चेत्येके $} ॥ {$ {! 8 रुच !} दीप्तावभिप्रीतौ च $} (धातुपाठे <{01.0847}>)॥ {$ {! 9 घुट !} परिवर्तने $} (धातुपाठे <{01.0848}>)॥ {$ {! 10 शुभ !} दीप्तौ $} (धातुपाठे <{01.0853}>) ॥ {$ {! 11 क्षुभ !} संचलने $} (धातुपाठे <{01.0854}>)॥ {$ {! 12-13 णभ तुभ !} हिंसायाम् $} (धातुपाठे <{01.0855}>) (धातुपाठे <{01.0856}>)॥ {$ {! 14-15-16 स्रंसु भ्रंसु ध्वंसु !} अवस्रंसने $} (धातुपाठे <{01.0857}>) (धातुपाठे <{01.0859}>) (धातुपाठे <{01.0858}>)॥ ध्वंसु गतौ च ॥ {$ {! 17 स्रम्भु !} विश्वासे $} (धातुपाठे <{01.0861}>)॥ {$ {! 18 वृतु !} वर्तने $} (धातुपाठे <{01.0862}>)॥ तर्तते । ववृते । वर्तिता ॥
<<द्युद्भ्यो लुङि>> - द्युद्भ्यो लुङि । बहुवचनात् द्युतादिभ्य इति गम्यते । दिग्योगे पञ्चमी ।तस्मादित्त्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते ।शेषात्कर्तरी॑त्यतः परस्मैपदमित्यनुवर्तते । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — अद्योतिष्टेति । इआता वर्णे इति । आत्मनेपदपक्षे रूपम् । एवमग्रेऽपि द्युतादौ लुङि रूपभेदो ज्ञेयः । ञि मिदा स्नेहने इति । ञिरित् 'ञीतः क्तः' इत्येतदर्थः ।
द्यौतेरेकत्वाद्वहुवचनमनुपपन्नमित्याशङ्क्याह-तत्साहचर्यादिति। च्छत्रिन्यायेनेति भावः। लुठादयोऽपीति। प्रत्यासन्नानामेव साहचर्यात् प्रतीतिः स्यादित्याशङ्कामपनेतुं दूरवर्तिनामुपादानम्। क्वचित् श्वित्यादय इत्यनन्तराणामेव पाठःष कृपूपर्यन्ता इति। तदनन्तरं वृत्करणाद एतदुक्तं भवतीत्याह-बहुवचननिर्देशादिति। व्यद्यौतदिति।'पुषादि' इति सूत्रेणाङ्। न च तत एवाङ्विधानात् परस्मैपदं शक्यं विज्ञातुम; नित्यत्वप्रसङ्गात्, लुङेऽन्यत्रापि प्रसङ्गच्च। अनुदातेत्वं तु युजर्थं स्यात्॥