आत्मनेपदेष्वन्यतरस्याम्

3-1-54 आत्मनेपदषु अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः अङ् लिपिसिचिह्वः च

Sampurna sutra

Up

आत्मनेपदेषु लिपि-सि-चिह्वः च्लेः अन्यतरस्यामङ्

Neelesh Sanskrit Brief

Up

लिप्, सिच्, ह्वे - एतेभ्यः परस्य च्लि-प्रत्ययस्य आत्मनेपदस्य प्रत्यये परे विकल्पेन अङ्-आदेशः भवति ।

Neelesh English Brief

Up

For the verb roots लिप् , सिच् and ह्वे , the च्लि-प्रत्यय is optionally converted to अङ् when followed by a प्रत्यय of आत्मनेपद.

Kashika

Up

पूर्वेण प्राप्ते विभाषारभ्यते। लिपिसिचिह्व आत्मनेपदेषु परतश्च्लेरङादेशो भवत्यन्यतरस्याम्। <<स्वरितञितः०>> (१.३.७२) इत्यात्मनेपदम्। अलिपत, अलिप्त। असिचत, असिक्त । अह्वत, अह्वास्त॥

Siddhanta Kaumudi

Up

अतो लोपः <{SK2372}> । अह्वत् । अह्वताम् । अह्वन् । अह्वत् । अह्वास्त ॥ अथ द्वौ परस्मैपदिनौ ॥{$ {!1009 वद!} व्यक्तायां वाचि $}। अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । वदव्रज - <{SK2267}> इति वृद्धिः । अवादीत् ।{$ {!1010 टुओश्वि!} गतिवृद्ध्योः$} । श्वयति ॥

Laghu Siddhanta Kaumudi

Up

लिपिसिचिह्वः परस्य च्लेरङ् वा। असिचत, असिक्त॥॥ {$ {! 10 लिप !} उपदेहे $} (धातुपाठे <{06.0169}>) ॥ उपदेहो वृद्धिः। लिम्पति, लिम्पते। लेप्ता। अलिपत्, अलिपत, अलिप्त ॥ इत्युभयपदिनः । ॥ {$ {! 11 कृती !} छेदने $} (धातुपाठे <{06.0171}>) ॥ कृन्तति। चकर्त। कर्तिता। कर्तिष्यति, कर्त्स्यति। अकर्तीत्॥ {$ {! 12 खिद !} परिघाते $} (धातुपाठे <{06.0172}>) ॥ खिन्दति। चिखेद। खेत्ता॥ {$ {! 13 पिश !} अवयवे $} (धातुपाठे <{06.0173}>) ॥ पिंशति। पेशिता॥ {$ {! 14 ओव्रश्चू !} छेदने $} (धातुपाठे <{06.0012}>) ॥ वृश्चति। वव्रश्च। वव्रश्चिथ, वव्रष्ठ। व्रश्चिता, व्रष्टा। व्रश्चिष्यति, व्रक्ष्यति। वृश्च्यात्। अव्रश्चीत्, अव्राक्षीत्॥॥ {$ {! 15 व्यच !} व्याजीकरणे $} (धातुपाठे <{06.0013}>) ॥ विचति। विव्याच। विविचतुः। व्यचिता। व्यचिष्यति। विच्यात्। अव्याचीत्, अव्यचीत्। व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते, अनसीति पर्युदासेन कृन्मात्रविषयत्वात्॥ {$ {! 16 उछि !} उञ्छे $} (धातुपाठे <{06.0014}>) ॥ उञ्छति। 'उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्।' इति यादवः॥ {$ {! 17 ऋच्छ !} गतीन्द्रियप्रलयमूर्तिभावेषु $} (धातुपाठे <{06.0016}>) ॥ ऋच्छति। ऋच्छत्यॄतामिति गुणः। द्विहल् ग्रहणस्य अनेक हलुपसक्षणत्वान्नुट्। आनर्च्छ। आनर्च्छतुः। ऋच्छिता॥॥ {$ {! 18 उज्झ !} उत्सर्गे $} (धातुपाठे <{06.0024}>) ॥ उज्झति॥ {$ {! 19 लुभ !} विमोहने $} (धातुपाठे <{06.0025}>) ॥ लुभति॥

Neelesh Sanskrit Detailed

Up

लुङ्लकारस्य विषये धातोः <<च्लि लुङि>> 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य <<च्लेः सिच्>> 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु लिपँ (उपदेहे), षिचँ (सेचने) तथा ह्वेञ् (स्पर्धायाम् शब्दे च) एतेभ्यः परस्य च्लि-प्रत्ययस्य आत्मनेपदस्य प्रत्यये परे विकल्पेन अङ्-आदेशः भवति । पक्षे <<च्लेः सिच्>> 3.1.44 इत्यनेन सिच्-आदेशः विधीयते । अङ्-प्रत्यये परे प्रक्रियाः अधः दत्ताः सन्ति । 1) लिप् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → लिप् + च्लि + ल् [<<च्लि लुङि>>3.1.43 इति च्लि-विकरणप्रत्ययः] → लिप् + अङ् + ल् [<<लिपिसिचिह्वश्च>> 3.1.53 इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + लिप् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + लिप् + अ + त [<<तिप्तस्..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः] → अलिपत 2) षिच् (क्षरणे) → सिच् [<<धात्वादे षः सः>> 6.1.64 इति षकारस्य सकारादेशः] → सिच् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → सिच् + च्लि + ल् [<<च्लि लुङि>>3.1.43 इति च्लि-विकरणप्रत्ययः] → सिच् + अङ् + ल् [<<लिपिसिचिह्वश्च>> 3.1.53 इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + सिच् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + सिच् + अ + त [<<तिप्तस्..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः] → असिचत 3) ह्वेञ् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → ह्वे + + च्लि + ल् [<<च्लि लुङि>>3.1.43 इति च्लि-विकरणप्रत्ययः] → ह्वे + अङ् + ल् [<<लिपिसिचिह्वश्च>> 3.1.53 इति च्लि-इत्यस्य अङ्-आदेशः] → ह्वा + अ + ल् [<<आदेश उपदेशेऽशिति>> 6.1.45 इति आकारादेशः] → ह्व् + अ + ल् [<<आतो लोप इटि च>> 6.4.64 इति आकारलोपः] → अट् + ह्व् + अ + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः] → अ + ह्व् + अ + त [<<तिप्तस्..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः] → अह्वत

Balamanorama

Up

<<आत्मनेपदेष्वन्यतरस्याम्>> - आत्मनेपदेषु । आतो लोप इति अह्वा अ त् इति स्थितेआतो लोप इटि चे॑त्यालोप इत्यर्थः । अह्वदिति । अह्वताम् । अहवन्नित्यादि । अह्वतेति । लुङि आत्मनपदे अङि रूपम् । अह्वेतामह्वन्तेत्यादि । अङभावपक्षे त्वाह — अह्वास्तेति । अह्वासातामह्वासत । इत्यादि । अह्वास्यत् अह्वास्यत । वद व्यक्तायां वाचीति । अज्झल्विभागेन स्पष्टोच्चारणे इत्यर्थः । सेडयम् । अच्छ वदतीति । 'अच्छे' त्यव्ययमाभिमुख्ये । अभिमुखं वदतीत्यर्थः । 'अच्छ गत्यर्थवदेषु' इति गतित्वादच्छेत्यस्य धातोः प्रागेव प्रयोग इति भावः । अकिति लिटि द्वित्वेलिटभ्यासस्ये॑ति संप्रसारणमिति मत्वा आह — उवादेतिकिति लिटि तुवचिस्वपियजादीना॑मिति द्वित्वात्प्राक् संप्रसारणे कृते द्वित्वे सवर्णदीर्घ इति मत्वाह — ऊदतुरिति । उवदिथेति । द्वित्वे अभ्यासस्य संप्रसारणमिति भावः । ऊदथुः ऊद । उवाद — उवद ऊदिव ऊदिम । वदितेति । तासि इट् । वदिष्यति । वदतु । अवदत् । वदेत् । उद्यादिति । आशीर्लिङि यासुटः कित्त्वात्वचिस्वपी॑ति संप्रसारणमिति भावः ।अवादी॑दित्यत्र हलन्तलक्षमवृद्धेःनेटी॑ति निषेधेऽपिअतो हलादे॑रिति वृद्धिविकल्पमाशङ्क्य वदधातोः पृथग्ग्रहणाद्वृद्धिरित्यभिप्रेत्याह — वदव्रजेति वृद्धिरिति । एतदर्थमेववदव्रजहलन्तस्ये॑त्यत्र वदधातोः पृथग्ग्रहणमिति भावः । टु ओ आईति । टुरोकारश्चेत् । आयतीति । शपि गुणाऽयादेशौ । लिटि तु अकिति णलादौलिटभ्यासस्ये॑त्यभ्यासस्य नित्यं संप्रसारणे प्राप्ते, किति तु अतुसादौ द्वित्वात्प्राक्वचिस्वपी॑ति नित्यं संप्रसारणे प्राप्ते आह —

Padamanjari

Up

आत्मनेपदेष्वन्यतरस्याम्॥ अलिप्त, असिक्तेति।'झलो झलि' इति सलोपः,'लिङसिचावात्मनेपदेषु' इति कित्वाद् गुणाभावः॥