तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
1-4-101 तिङः त्रीणि त्रीणि प्रथममध्यमोत्तमाः आ कडारात् एका सञ्ज्ञा
Sampurna sutra
Up
तिङः त्रीणि त्रीणि प्रथम-मध्यम-उत्तमाः
Neelesh Sanskrit Brief
Up
तिङ्-प्रत्ययाः त्रीणि त्रीणि क्रमेण "प्रथम", "मध्यम", "उत्तम" संज्ञकाः भवन्ति ।
Neelesh English Brief
Up
The तिङ्-प्रत्ययाः, when grouped into groups of three, are sequentially known as प्रथम, मध्यम and उत्तम.
Kashika
Up
तिङोऽष्टादश प्रत्ययाः नव परस्मैपदसंज्ञकाः नवात्मनेपदसंज्ञकाः। तत्र परस्मैपदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमोत्तमसंज्ञा भवन्ति। आत्मनेपदेष्वपि त्रयस्त्रिकाः प्रथममध्यमोत्तमसंज्ञा भवन्ति। तिप्, तस्, झि इति प्रथमः। सिप्, थस्, थ इति मध्यमः। मिप्, वस्, मस्, इत्युत्तमः। आत्मनेपदेषु — त, आताम्, झ इति प्रथमः। थास्, आथाम्, ध्वम् इति मध्यमः। इट्, वहि, महिङ् इत्युत्तमः। प्रथममध्यमोत्तमप्रदेशाः — <<शेषे प्रथमः>> १.४.१०८ इत्येवमादयः॥
Siddhanta Kaumudi
Up
तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥
Laghu Siddhanta Kaumudi
Up
तिङ उभयोः पदयोस्त्रिकाः क्रमादेतत्संज्ञाः स्युः॥
Neelesh Sanskrit Detailed
Up
तिङ् = तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्-झ-थास्-आथाम्-ध्वम्-इट्-वहि-महिङ् ।
<<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 अनेन सूत्रेण ये अष्टादश तिङ-प्रत्ययाः पाठ्यन्ते, तेषाम् त्रिसङ्ख्यात्मक-समूहेन क्रमेण प्रथम-मध्यम-उत्तम-एतादृशम् संज्ञाः विधीयन्ते - इति अस्य सूत्रस्य आशयः । एतद् विभाजनम् इत्थम् भवति -
1. तिप्, तस्, झि - इति आदिस्थाः त्रयः प्रत्ययाः प्रथमः इति संज्ञां स्वीकुर्वन्ति ।
2. सिप्, थस्, थ - इति अग्रिमाः त्रयः प्रत्ययाः मध्यमः इति संज्ञां स्वीकुर्वन्ति ।
3. मिप्, वस्, मस् - इति अग्रिमाः त्रयः प्रत्ययाः उत्तमः इति संज्ञां स्वीकुर्वन्ति ।
4. त, आताम्, झ - इति अग्रिमाः त्रयः प्रत्ययाः पुनः प्रथमः इति संज्ञां स्वीकुर्वन्ति ।
5. थास्, आथाम्, ध्वम् - इति अग्रिमाः त्रयः प्रत्ययाः पुनः मध्यमः इति संज्ञां स्वीकुर्वन्ति ।
6. इट्, वहि, महिङ् - इति अन्तिमाः त्रयः प्रत्ययाः पुनः उत्तमः इति संज्ञां स्वीकुर्वन्ति ।
अनेन प्रकारेण परस्मैपदसंज्ञकप्रत्ययानाम् त्रयः विभागाः तथा आत्मनेपदसंज्ञकप्रत्ययानाम् अपि त्रयः विभागाः जायन्ते । एतेषाम् एव भाष्ये (तदनुषङ्गेन व्याकरणे सर्वत्र एव) पुरुषाः इत्यनेन निर्देशः कृतः अस्ति ।
प्रकृतसूत्रेण पाठितानां संज्ञानाम् उपयोगः
प्रकृतसूत्रेण पाठिताः तिस्रः संज्ञाः सूत्रपाठे केवलं पञ्चषेषु स्थलेषु एव प्रयुक्ताः सन्ति । तदित्थम् -
1. <<लुटः प्रथमस्य डारौरसः>> 2.4.85 तथा च <<शेषे प्रथमः>> 1.4.108 इत्येतयोः सूत्रयोः प्रथमः इति संज्ञा प्रयुक्ता अस्ति ।
2. <<युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः>> 1.4.105 अस्मिन् सूत्रे मध्यमः इति संज्ञा प्रयुक्ता अस्ति ।
3. <<प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च>> 1.4.106, <<अस्मद्यत्तमः>> 1.4.107, <<स उत्तमस्य>> 3.4.98, <<णलुत्तमो वा>> 7.1.91 तथा च <<आडुत्तमस्य पिच्च>> 3.4.92 एतेषु सूत्रेषु उत्तमः इति संज्ञा प्रयुक्ता अस्ति ।
##Balamanorama
<<तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः>> - तिङः षट् त्रिकाः,संज्ञास्तु तिरुआ इति यथासङ्ख्याऽसम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु प्राप्तास्वाह — तिङ उभयोः पदयोरिति ।लः परस्मैपद॑मित्यतः परस्मैपदमिति,तङानावात्मनेपद॑मित्यत आत्मनेपदमिति चानुवृत्तं षष्ठन्ततया विपरिणम्यते । ततश्च परस्मैपदात्मनेपदयोरुभयोरपि प्रत्येकं त्रयस्त्रिकाः सन्तीति यथासङ्ख्यं प्रथमादिसंज्ञाः प्रवर्तन्त इति भावः । प्रथमादिषु पुरुषसंज्ञा तु प्राचीनाचार्यशास्त्रसिद्धेति बोध्यम् ।
##Padamanjari
त्रीणि त्रीणीति वीप्सायां द्विर्वचनम्। तत्र च समुदायस्यावयवस्च पृथक्पदत्वमिष्यते, आ पचसि पचसि देवदतेत्येकान्तता यथा स्यात्, कुण्डं कुण्डं वाग् अपचन्नपचन्नित्यादौ पूर्वपदेऽप्यनुस्वारादि पदकार्यं यथा स्यादिति; तेन पदच्छेदकाले त्रीणित्रीणीत्येकं पदम्, द्वे वा। इह तिङं त्रिकाः संज्ञास्तु तिस्त्र इति वैषम्यात् संख्यातानुदेशो न प्राप्नोति। अत्र यद्यप्येकैकस्य त्रिकस्यानेकसंज्ञाविधाने प्रयोजनं नास्ति, नैतावता यथाभिमतविषयलाभः, तत्राह - तिङेऽष्टादश प्रत्यया इति। एवं मन्यते - संज्ञा अपि षडेव, कथमेकशेषनिर्देशोऽयम्? तत्र यदि प्रथमश्च प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमौ, उतमश्च उतमश्चोतमौ; प्रथममध्यमोतमा इति कृतैकशेषाणां द्वन्द्वः क्रियेत, ततो नाभिमतसंख्यातानुदेशः स्यात्। तस्मात्कृतद्वन्द्वानामेकशेषः-प्रथममध्यमोतमाश्च प्रथममध्यमोतमाश्च प्रथममध्योतमा इति। न चैवमपि विज्ञायते, किमादित आरभ्य त्रीणि वचनानि गृह्यन्ते? आहोस्विदिच्छतस्त्रिकपरिग्रहेऽपि यथासंख्यशास्त्रं क्रमते, किं तर्हि? विहितेषु संज्ञानां क्रमेण सम्बन्धं विधते। एवं तर्हि लोकत एतत्सिद्धम्, तद्यथा - विहव्यस्य द्वाभ्यामग्निरुपस्थेय इति, न चोच्यते आनुपूर्व्यणेति, अथ च विहव्याख्यस्य सूत्रस्यादित आरभ्य आनुपूर्व्येण द्वाभ्यां द्वाभ्यामृग्भ्यामग्निरुपस्थीयते, न याभ्यां काभ्याञ्चित्; तत्र तिङेऽष्टादश प्रत्यया इत्यनेनादित आरभ्य त्रिकाणामानुपूर्व्येण ग्रहणं नेच्छात इति दर्शयितुं तिङ्ग्रहणेन संनिवेशोऽस्तीति दर्शितम्। न च'परस्मैपदसंज्ञकः' इत्यादिना तु कृतद्वन्द्वानामेकशेषो न कृतैकशेषाणां द्वन्द्व इति दर्शितम्। यदि वा परस्मैपदग्रहणमात्मनेपदग्रहणं चानुवर्तते, तिङ्ग्रहणं तु सतृक्वसोर्निवृत्यर्थम्। तदनुवृतौ च द्वौ राशी भवतः, तयोश्च व्यापारभेदेन सूत्रमेतत्प्रवर्तते। तत्र चैकैकं त्रयस्त्रिका इति। यथासंख्यसिद्धिः। तत्र न चेत्यादिना राशिद्वयं द्वर्शितम्। तत्रेत्यादिना तु व्यापारभेदः। अत्रापि महासंज्ञाकरणं पूर्ववत्॥