तङानावात्मनेपदम्
1-4-100 तङानौ आत्मनेपदम् आ कडारात् एका सञ्ज्ञा लः
Sampurna sutra
Up
लः तङानौ आत्मनेपदम्
Neelesh Sanskrit Brief
Up
लकारस्य स्थाने विहिताः तङ् तथा आन इति आदेशाः आत्मनेपदसंज्ञकाः भवन्ति । आवली इयम् - त, आताम्, झ, थास्, आथाम्, ध्वम्, इट्, वहि, महिङ्, शानच्, कानच् ।
Neelesh English Brief
Up
The तङ्, शानच् and कानच् आदेशाः that occur in place of a लकार are known as आत्मनेपद.
Kashika
Up
तङिति प्रत्याहारो नवानां वचनानाम्। आन इति शानच्कानचोर्ग्रहणम्। पूर्वेण परस्मैपदसंज्ञायां प्राप्तायां तङानयोरात्मनेपदसंज्ञा विधीयते। त, आताम्, झ। थास्, आथाम्, ध्वम्। इट्, वहि, महिङ्। आनः खल्वपि — शानच्कानचौ। ल इत्येव — कतीह निघ्नानाः। आत्मनेपदप्रदेशाः — <<अनुदात्तङित आत्मनेपदम्>> १.३.१२ इत्येवमादयः॥
Siddhanta Kaumudi
Up
तङ्प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥
Laghu Siddhanta Kaumudi
Up
तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः। पूर्वसंज्ञाऽपवादः॥
Neelesh Sanskrit Detailed
Up
तङ् = त-आताम्-झ-थास्-आथाम्-ध्वम्-इट्-वहि-महिङ् ।
लकारप्रत्ययानां स्थाने भिन्नैः सूत्रैः ये आदेशाः विधीयन्ते, तेभ्यः तङ् इति प्रत्याहारस्थानाम् नव आदेशानाम्, तथा च आन इति स्वरूपिणोः द्वयोः आदेशयोः आत्मनेपदम् इति संज्ञा भवति - इति अस्य सूत्रस्य आशयः ।
लकारस्य स्थाने भिन्नैः सूत्रैः आहत्य द्वाविंशतिः (22) आदेशाः विधीयन्ते । एतेषाम् सर्वेषाम् अपि <<लः परस्मैपदम्>> 3.4.81 इति पूर्वसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, तेभ्यः एकादशानाम् (11) आदेशानाम् प्रकृतसूत्रेण आत्मनेपदसंज्ञा विधीयते । इयम् आत्मनेपदसंज्ञा एकसंज्ञाधिकारात् पूर्वसूत्रेण उक्ताम् परस्मैपदसंज्ञां बाधते । अतः अन्ते एतेषाम् एकादशानाम् आदेशानाम् केवलम् आत्मनेपदम् इत्येव संज्ञा भवति । एते एकादश आदेशाः एतादृशाः -
1. तङ् इति नव आदेशाः - <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इत्यस्य सूत्रस्य तातांझथासाथांध्वमिड्वहिमहिङ् इति उत्तरार्धः एव तङ् इति प्रत्याहारेण निर्दिश्यते । अतः अस्मिन् उत्तरार्धे पाठिताः त, आताम्, झ, थास्, आथाम्, ध्वम्, इट्, वहि, महिङ् - एते नव आदेशाः आत्मनेपदसंज्ञकाः भवन्ति ।
2. आन इति द्वौ आदेशौ - लट्-लकारस्य स्थाने <<लटः शतृशानचावप्रथमासमानाधिकरणे>> 3.2.124 इत्यनेन विहितः शानच् इति आदेशः, तथा च लिट्-लकारस्य स्थाने <<लिटः कानज्वा>> 3.2.106 इत्यनेन विहितः कानच् इति आदेशः - एतौ द्वौ आदेशौ प्रकृतसूत्रेण आत्मनेपदसंज्ञकौ भवतः । एतयोः द्वयोः अपि दृश्यरूपम् आन इति अस्ति, अतश्च एतयोः युगपत् निर्देशार्थम् प्रकृतसूत्रे आन इति शब्दः स्थापितः वर्तते ।
आत्मनेपदसंज्ञायाः प्रयोगः <<अनुदात्तङित आत्मनेपदम्>> 1.3.12, <<आत्मनेपदेष्वनतः>> 7.1.5, <<आत्मनेपदेष्वन्यतरस्याम्>> 2.4.44 एतादृशेषु सूत्रेषु कृतः अस्ति ।
येभ्यः धातुभ्यः केवलम् आत्मनेपदस्यैव प्रत्ययाः विधीयन्ते, ते धातवः आत्मनेपदिनः (प्रातिपदिकम् - आत्मनेपदिन्, प्रथमैकवचनम् - आत्मनेपदी) इति नाम्ना धातुपाठे परिगणिताः सन्ति । धातुपाठे विद्यमानेभ्यः ~2000 धातुभ्यः प्रायेण 500 धातवः (इत्युक्ते, 25% धातवः) आत्मनेपदिनः सन्ति ।
ल: इति अनुवृत्तेः प्रयोजनम्
प्रकृतसूत्रे <<लः परस्मैपदम्>> 3.4.81 इति पूर्वसूत्रात् लः इति पदम् अनुवृत्तिरूपेण स्वीक्रियते । इयम् अनुवृत्तिः चानश् इति प्रत्ययस्य आत्मनेपदसंज्ञानिवृत्त्यर्थं कृता अस्ति । <<ताच्छील्यवयोवचनशक्तिषु चानश्>> 3.2.129 इति सूत्रेण विहितस्य चानश् इत्यस्य दृश्यरूपम् अपि आन इत्येव अस्ति, परन्तु अयं प्रत्ययः लकारस्य स्थाने न विधीयते अपितु पृथक् रूपेण उक्तः अस्ति । अस्यां स्थितौ यदि चानश् प्रत्ययस्य अपि आत्मनेपदसंज्ञा अभविष्यत्, तर्हि <<हनँ (हिंसागत्योः)>> इति परस्मैपदि-धातोः अयं प्रत्ययः नैव योजयितुं शक्यं स्यात्, येन <<हन्>>-धातोः चानश्-प्रत्ययान्तस्य निघ्नान इति रूपस्य साधुत्वज्ञापने अपि बाधः आगमिष्यत् । तत् तथा मा भूत् इति हेतुना प्रकृतसूत्रे लः इत्यस्य अनुवृत्तिः क्रियते । अनया अनुवृत्त्या आन-प्रत्ययस्य आत्मनेपदसंज्ञा तदा एव सिद्धा भवति यदा सः लकारस्य स्थाने विहितः वर्तते । अनेन चानश्-प्रत्ययस्य आत्मनेपदसंज्ञायाः वारणं भवति, येन परस्मैपदिनः <<हन्>>-धातोः योगे अस्य प्रयोगः अवश्यं सम्भवति ।
##Balamanorama
<<तङानावात्मनेपदम्>> - तङानौ । तङ् च आनश्चेति द्वन्द्वः । प्रत्याहार इति ।त आतामिति तशब्दमारभ्य महिङिति ङकारेणे॑ति शेषः । तदाह — तादिनवकमिति । इह पूर्वसूत्राल्ल इत्यनुवर्तते । ततश्च आनग्रहणेन शानच्कानचावेव गृह्रते, न तुताच्छील्यवयोवचनशक्तिषु चान॑शिति विहितश्चानशपि, तस्य लादेशत्वाऽभावात् । तेन परस्मैपदिभ्योऽपि चानश् सिध्यति — निघ्नाना इत्यादौ । तदाह — शानच्कानचौ चेति । एतत्संज्ञानीति । आत्मनेपदसंज्ञकानीत्यर्थः । पूर्वसंज्ञेति । परस्मैपदसंज्ञापवाद इत्यर्थः । एवं च तिबादिनवके परस्मैपदसंज्ञा पर्यवस्यति । अथ कस्माद्धातोः परस्मैपदं, कस्मादात्मनेपदमित्याकाङ्क्षायामाह — अनुदात्तङितः । अनुदात्तश्च ङ्च अनुदात्तङौ । तावितौ यस्य सः - अनुदात्तङित् । तस्मात् — अनुदात्तङितः । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं सम्बध्यते । अनुदात्तेतो ङितश्चेति । लभ्यते ।उपदेशेऽजनुनासिक इ॑दित्यस्मान्मण्डूकप्लुत्या उपदेश इत्यनुवृत्तं ङित इत्यनेन सम्बध्यते, नत्वनुदात्तेत इत्यनेन । उपदेशादन्यत्र अनुदात्तस्येत्संज्ञाया अप्रसक्तत्वेनाऽव्यभिचारात् । 'भूवादयो धातव' इत्यस्मान्मण्डूकप्लुत्या 'धातव' इत्यनुवृत्तं पञ्चम्या विपरिणतमनुदात्तेता ङिता च विशेष्यत#ए । तत्रानुदात्तेदंशे तदन्तविधेः प्रयोजनाऽभावान्ङिदंशे तदन्तविधिः । तदाह — अनुदात्तेत इत्यादिना । लस्य स्थान इति । आत्मनेपदग्रहणलभ्यमिदम्, तिङां लादेशत्वनियमात् । उपदेशे किम् । चुकुटिषति । अत्र 'गाङ्कुटादिभ्य' इति सन आतिदेशिकमेव ङित्त्वम्, नत्वौपदेशिकम् । धातोः किम् । अदुद्रुवत् । अत्रणिश्री॑ति चङन्तान्नात्मनेपदम् । ङिदंशे तदन्तविध्यभावे तु 'बोभूयते' इत्यादौ 'सनाद्यन्ता' इति धातुसंज्ञकाद्यङन्तादात्मनेपदं न स्यात् । 'ङित' इत्येवोक्तौ यङो ङित्त्वेऽपि तद्वन्तस्य धातोर्ङित्त्वाऽभावादात्मनेपदं न स्यात् ।
##Padamanjari
अथ कस्माल्लस्येत्यस्यानन्तरमेते संज्ञे न विहिते, एवं हि पुरुषसंज्ञाभिरन्यत्रसिद्धोऽनयोः समावेशो भवति, तत्राह - पूर्वेणेति। आत्मनेपदसंज्ञया परस्मैपदसंज्ञाया बाधो यथा स्यादित्येवमर्थमस्मिन् प्रकरणेऽनयोर्विधानमिति भावः। महासंज्ञाकरणं पूर्वाचार्यानुरोधेन॥